भाषा

ENहिગુ
ग्रंथ पाठ

श्वेताश्वतरोपनिषद् (अन्य संस्करण) · अध्याय 2

2.1

युञ्जानः प्रथमं मनस् तत्त्वाय सविता धियः
अग्नेर् ज्योतिर् निचाय्य पृथिव्या अध्याभरत् [*1] ॥

2.2

युक्तेन मनसा वयं देवस्य सवितुः सवे
सुवर्गेयाय शक्त्या [*2] ... ॥

2.3

युक्त्वाय मनसा देवान् सुवर्यतो धिया दिवम्
बृहज् ज्योतिः करिष्यतः सविता प्रसुवाति तान् [*3] ॥

2.4

युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः
वि होत्रा दधे वयुनाविद् एक इन्मही देवस्य सवितुः परिष्टुतिः [*4] ॥

2.5

युजे वां ब्रह्म पूर्व्यं नमोभिर् विश्लोक एतु पथ्य् एव सूरेः
शृण्वन्तु विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि तस्थुः [*5] ॥

2.6

अग्निर् यत्राभिमथ्यते वायुर् यत्राधिरुध्यते
सोमो यत्रातिरिच्यते तत्र सञ्जायते मनः ॥

2.7

सवित्रा प्रसवेन जुषेत ब्रह्म पूर्व्यम्
यत्र योनिं कृणवसे न हि ते पूर्वम् अक्षिपत् ॥

2.8

त्रिर् उन्नतं स्थाप्य समं शरीरं हृदीन्द्रियाणि मनसा सन्निवेश्य
ब्रह्मोडुपेन प्रतरेत विद्वान् स्रोतांसि सर्वाणि भयावहानि ॥

2.9

प्राणान् प्रपीड्येह संयुक्त-चेष्टः क्षीणे प्राणे नासिकयोच्छ्वसीत
दुष्टाश्व-युक्तम् इव वाहम् एनं विद्वान् मनो धारयेताप्रमत्तः ॥

2.10

समे शुचौ शर्करा-वह्नि-बालुका विवर्जिते शब्द-जलाश्रयादिभिः
मनो ऽनुकूले न तु चक्षु-पीडने गुहा-निवाताश्रयणे प्रयोजयेत् ॥

2.11

नीहार-धूमार्कानिलानलानां खद्योत-विद्युत्-स्फटिक-शशीनाम्
एतानि रूपाणि पुरः-सराणि ब्रह्मण्य् अभिव्यक्ति-कराणि योगे ॥

2.12

पृथिव्य्-अप्-तेजो ऽनिल-खे समुत्थिते पञ्चात्मके योग-गुणे प्रवृत्ते
न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्नि-मयं शरीरम् ॥

2.13

लघुत्वम् आरोग्यम् अलोलुपत्वं वर्ण-प्रसादं स्वर-सौष्ठवं च
गन्धः शुभो मूत्र-पुरीषम् अल्पं योग-प्रवृत्तिं प्रथमां वदन्ति ॥

2.14

यथैव बिम्बं मृदयोपलिप्तं तेजो-मयं भ्राजते तत् सुधान्तम्
तद् वात्म-तत्त्वं प्रसमीक्ष्य देही एकः कृतार्थो भवते वीत-शोकः ॥

2.15

यद् आत्म-तत्त्वेन तु ब्रह्म-तत्त्वं दीपोपमेनेह युक्तः प्रपश्येत्
अजं ध्रुवं सर्व-तत्त्वैर् विशुद्धं ज्ञात्वा देवं मुच्यते सर्व-पाशैः ॥

2.16

एष ह देवः प्रदिशो ऽनु सर्वाः पूर्वो ह जातः स उ गर्भे अन्तः
स एव जातः स जनिष्यमाणः प्रत्यङ् जनांस् तिष्ठति सर्वतो-मुखः ॥

2.17

यो देवो अग्नौ यो ऽप्सु यो विश्वं भुवनम् आविवेश
य ओषधीषु यो वनस्पतिषु तस्मै देवाय नमो नमः ॥

मूल पाठ: Śvetāśvataropaniṣad · Edition: two editions: 1. Isadi nau upanisad. Ed. by Harikrsnadas Goendaka. (Gorakhpur : Gita Press, 2038 samvat), 2. Sri Sri Sruti-ratna-mala. Ed. by Bhakti Sudhakar. (Dhaka : 'Manjusa Printing Works) n.d. · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc