श्वेताश्वतरोपनिषद् (अन्य संस्करण) · अध्याय 1
किं कारणं ब्रह्म कुतः स्म जाता जीवाम केन क्व च संप्रतिष्ठाः
अधिष्ठिताः केन सुखेतरेषु वर्तामहे ब्रह्म-विदो व्यवस्थाम् ॥
कालः स्वभावो नियतिर् यदृच्छा भूतानि योनिः पुरुष इति चिन्त्या
संयोग एषां न त्व् आत्म-भावाद् आत्माप्य् अनीशः सुख-दुःख-हेतोः ॥
ते ध्यान-योगानुगता अपश्यन् देवात्म-शक्तिं स्व-गुणैर् निगूढाम्
यः कारणानि निखिलानि तानि कालात्म-युक्तान्य् अधितिष्ठत्य् एकः ॥
तम् एक-नेमिं त्रि-वृतं षोडशान्तं शतार्धारं विंशति-प्रत्यराभिः
अष्टकैः षड्भिर् विश्व-रूपैक-पाशं त्रि-मार्ग-भेदं द्वि-निमित्तैक-मोहम् ॥
पञ्च-स्रोतो ऽम्बुं पञ्च-योन्य्-उग्र-वक्रां पञ्च-प्राणोर्मिं पञ्च-बुद्ध्य्-आदि-मूलाम्
पञ्चावर्तां पञ्च-दुःखौघ-वेगां पञ्चाशद्-भेदां पञ्च-पर्वाम् अधीमः ॥
सर्वाजीवे सर्व-संस्थे बृहन्ते अस्मिन् हंसो भ्राम्यते ब्रह्म-चक्रे
पृथग् आत्मानं प्रेरितारं च मत्वा जुष्टस् ततस् तेनामृतत्वम् एति ॥
उद्गीतम् एतत् परमं तु ब्रह्म तस्मिंस् त्रयं सुप्रतिष्ठाक्षरं च
अत्रान्तरं ब्रह्म-विदो विदित्वा लीना ब्रह्मणि तत्-परा योनि-मुक्ताः ॥
संयुक्तम् एतत् क्षरम् अक्षरं च व्यक्ताव्यक्तं भरते विश्वम् ईशः
अनीशश् चात्मा बध्यते भोक्तृ-भावाज् ज्ञात्वा देवं मुच्यते सर्व-पाशैः ॥
ज्ञाज्ञौ द्वाव् अजाव् ईशनीशाव् अजा ह्य् एका भोक्तृ-भोग्यार्थ-युक्ता
अनन्तश् चात्मा विश्व-रूपो ह्य् अकर्ता त्रयं यदा विन्दते ब्रह्मम् एतत् ॥
क्षरं प्रधानम् अमृताक्षरं हरः क्षरात्मानाव् ईशते देव एकः
तस्याभिध्यानाद् योजनात् तत्त्व-भावाद् भूयश् चान्ते विश्व-माया-निवृत्तिः ॥
ज्ञात्वा देवं सर्व-पाशापहानिः क्षीणैः क्लेशैर् जन्म-मृत्यु-प्रहाणिः
तस्याभिध्यानात् तृतीयं देह-भेदे विश्वैश्वर्यं केवल आप्त-कामः ॥
एतज् ज्ञेयं नित्यम् एवात्म-संस्थं नातः परं वेदितव्यं हि किञ्चित्
भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्मम् एतत् ॥
वह्नेर् यथा योनि-गतस्य मूर्तिर् न दृश्यते नैव च लिङ्ग-नाशः
स भूय एवेन्धन-योनि-गृह्यस् तद् वोभयं वै प्रणवेन देहे ॥
स्व-देहम् अरणिं कृत्वा प्रणवं चोत्तरारणिम्
ध्यान-निर्मथनाभ्यासाद् देवं पश्यन् निगूढवत् ॥
तिलेषु तैलं दधनीव सर्पिर् आपः स्रोतःस्व् अरणीषु चाग्निः
एवम् आत्मात्मनि गृह्यते ऽसौ सत्येनैनं तपसा यो ऽनुपश्यति ॥
सर्व-व्यापिनम् आत्मानं क्षीरे सर्पिर् इवार्पितम्
आत्म-विद्या-तपो-मूलं तद् ब्रह्मोपनिषत् परम् ॥
मूल पाठ: Śvetāśvataropaniṣad · Edition: two editions: 1. Isadi nau upanisad. Ed. by Harikrsnadas Goendaka. (Gorakhpur : Gita Press, 2038 samvat), 2. Sri Sri Sruti-ratna-mala. Ed. by Bhakti Sudhakar. (Dhaka : 'Manjusa Printing Works) n.d. · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0