भाषा

ENहिગુ
ग्रंथ पाठ

श्वेताश्वतरोपनिषद् (अन्य संस्करण) · अध्याय 3

3.1

य एको जालवान् ईशत ईशनीभिः सर्वांल् लोकान् ईशत ईशनीभिः
य एवैक उद्भवे सम्भवे च य एतद् विदुर् अमृतास् ते भवन्ति ॥

3.2

एको हि रुद्रो न द्वितीयाय तस्थुर् य इमांल् लोकान् ईशत ईशनीभिः
प्रत्यङ् जनांस् तिष्ठति सञ्चुकोचान्त-काले संसृज्य विश्वा भुवनानि गोपाः ॥

3.3

विश्वतश् चक्षुर् उत विश्वतो-मुखो विश्वतो-बाहुर् उत विश्वतस्-पात्
सं[*6] बाहुभ्यां धमति सम्पतत्रैर् द्याव्-आभूमी जनयन् देव एकः [*7] ॥

3.4

यो देवानां प्रभवश् चोद्भवश् च विश्वाधिपो रुद्रो महर्षिः
हिरण्यगर्भं जनयामास पूर्वं स नो बुद्ध्या शुभया संयुनक्तु ॥

3.5

या ते रुद्र शिवा तनूर् अघोरापाप-काशिनी
तया नस् तनुवा शन्तमया गिरिशन्ताभिचाकशीहि [*8] ॥

3.6

याभिषुं गिरिशन्त हस्ते बिभर्ष्य् अस्तवे
शिवां गिरित्र तां कुरु मा हिंसीः पुरुषं जगत् [*9] ॥

3.7

ततः परं ब्रह्म परं बृहन्तं यथानिकायं सर्व-भूतेषु गूढम्
विश्वस्यैकं परिवेष्टितारम् ईशं तं ज्ञात्वामृता भवन्ति ॥

3.8

वेदाहम् एतं पुरुषं महान्तम् आदित्य-वर्णं तमसः परस्तात्
तम् एव विदित्वातिमृत्युम् एति नान्यः पन्था विद्यते ऽयनाय [*10] ॥

3.9

यस्मात् परं नापरम् अस्ति किंचिद् यस्मान् नाणीयो न ज्यायो ऽस्ति कश्चित्
वृक्ष इव स्तब्धो दिवि तिष्ठत्य् एकस् तेनेदं पूर्णं पुरुषेण सर्वम् ॥

3.10

ततो यद् उत्तरतरं तद् अरूपम् अनामयम्
य एतद् विदुर् अमृतास्ते भवन्ति अथेतरे दुःखम् एवापि यन्ति ॥

3.11

सर्वानन-शिरो-ग्रीवः सर्व-भूत-गुहाशयः
सर्व-व्यापी स भगवांस् तस्मात् सर्व-गतः शिवः ॥

3.12

महान् प्रभुर् वै पुरुषः सत्त्वस्यैष प्रवर्तकः
सुनिर्मलाम् इमां प्राप्तिम् ईशानो ज्योतिर् अव्ययः ॥

3.13

अङ्गुष्ठ-मात्रः पुरुषो ऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः
हृदा मनीषो[*11] मनसाभिकॢप्तो य एतद् विदुर् अमृतास् ते भवन्ति ॥

3.14

सहस्र-शीर्षा पुरुषः सहस्राक्षः सहस्र-पात्
स भूमिं विश्वतो वृत्वा [अ]त्यतिष्ठद् दशाङ्गुलम् ॥

3.15

पुरुष एवेदं सर्वं यद् भूतं यच् च भव्यम्
उतामृतत्वस्येशानो यद् अन्नेनातिरोहति [*12] ॥

3.16

सर्वतः पाणि-पादं तत् सर्वतो ऽक्षि-शिरो-मुखम्
सर्वतः श्रुतिमल् लोके सर्वम् आवृत्य तिष्ठति ॥

3.17

सर्वेन्द्रिय-गुणाभासं सर्वेन्द्रिय-विवर्जितम्
सर्वस्य प्रभुम् ईशानं सर्वस्य शरणं बृहत्[*13] ॥

3.18

नव-द्वारे पुरे देही हंसो लेलायते बहिः
वशी सर्वस्य लोकस्य स्थावरस्य चरस्य च ॥

3.19

अपाणि-पादो जवनो ग्रहीता पश्यत्य् अचक्षुः स शृणोत्य् अकर्णः
स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तम् आहुर् अग्र्यं पुरुषं महान्तम् ॥

3.20

अणोर् अणीयान् महतो महीयान् आत्मा गुहायां निहितो ऽस्य जन्तोः
तम् अक्रतुः पश्यति वीत-शोको धातुः प्रसादान् महिमानम् ईशम् [*14] ॥

3.21

वेदाहम् एतम् अजरं पुराणं सर्वात्मानं सर्व-गतं विभुत्वात्
जन्म-निरोधं प्रवदन्ति यस्य ब्रह्म-वादिनो हि प्रवदन्ति नित्यम् ॥

मूल पाठ: Śvetāśvataropaniṣad · Edition: two editions: 1. Isadi nau upanisad. Ed. by Harikrsnadas Goendaka. (Gorakhpur : Gita Press, 2038 samvat), 2. Sri Sri Sruti-ratna-mala. Ed. by Bhakti Sudhakar. (Dhaka : 'Manjusa Printing Works) n.d. · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc