भाषा

ENहिગુ
ग्रंथ पाठ

स्वयंभुपुराण · अध्याय 10

10.1

इति श्रीमहाचार्यशान्तिकरगुणसंसिद्धिमाहात्म्यानुभावप्रकथनप्रवृत्तो नामाध्याय नवमः ।
दशम अध्यायः श्री धर्म्मधातुस्वयम्भूत्पत्तिधर्म्ममाहात्म्यसुभाषितसूत्रं नाम
अथासौ भगवान् भूयो मैत्रेयं तं महामतिं ।
समालोक्य सभां चापि समामन्त्र्यैवमादिशत्

10.2

शृणु मैत्रेय वक्ष्यामि मञ्जुश्रियो जगद्गुरोः ।
सद्धर्मगुणमाहात्म्यं संबोधिज्ञानदायकं

10.3

यदियं भिक्षुणी चूडा सुशीला ब्रह्मचारिणी ।
इदं मञ्जुश्रियं श्चैत्यं श्रद्धया समुपाश्रिता

10.4

शुद्धोत्पलस्रजो नित्यं समभ्यर्च्य यथाविधि ।
स्मृत्वा ध्यात्वा समाराध्य सभक्त्या श्रद्धया सदा

10.5

आद्यां चले चुले वन्दे स्वाहेति नवमाक्षरं ।
धारणी परमाविद्यां पठन्ती भजने सदा

10.6

एतन्पुण्यानुभावेन चूण्डेयं भिक्षुणी सती ।
पञ्चाभिज्ञावती वर्षैर्द्वादशभिर्भवेद् ध्रुवं

10.7

ततश्चेयं महाभिज्ञा श्रीसमृद्धिगुणाश्रया ।
सर्वसत्त्वहितं कृत्वा प्रचरेद् बोधिसंवरं

10.8

ततो ऽर्हन्ती महाप्राज्ञा परिशुद्धत्रिमण्डला ।
त्रिविधां बोधिमासाद्य संबुद्धपदमाप्स्यति

10.9

एवमन्येपि लोकाश्च चैत्यमञ्जुश्रियो त्रये ।
पठन्ती धारणीमेनां भजन्ति श्रद्धया सदा

10.10

ते ऽपि सर्वे विकल्माषाः परिशुद्धत्रिमण्डलाः ।
भद्रश्रीसद्गुणाधारा बोधिसत्त्वा जितेन्द्रियाः

10.11

पञ्चाभिज्ञपदप्राप्ताश्चतुर्ब्रह्मविहारिणः ।
सर्वसत्त्वहिताधारा चरेयुर्बोधिसम्बरं

10.12

ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमं ।
जित्वा मारगणान् सर्वान् निःक्लेशा विमलेन्द्रियाः

10.13

अर्हन्तो ऽपि महाभिज्ञाः संबोधिसाधनारताः ।
त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयुः

10.14

यूयमपिति मत्वात्र चैत्यमञ्जुश्रियस्तथा ।
पठन्तो धारणीमेनां भजध्वं बोधिमानसाः

10.15

एतत्पुण्याभिलिप्ता हि परिशुद्धत्रिमण्डलाः ।
यूयमपि तथा सर्वे भवेत सुगतात्मजाः

10.16

बोधिसत्त्वा भद्रश्रीसद्गुणाश्रयाः ।
महाभिज्ञा जगन्नाथा भवेत भद्रचारिणः

10.17

ततः संबोधिसंभारं पूरयित्वा यथाक्रमं ।
जित्वा मारगणान् सर्वाश्चतुर्ब्रह्मविहारिणः

10.18

अर्हन्तस्त्रिविधां बोधिं प्राप्य बुद्धा भविष्यथ ।
इति सत्यं परिज्ञाय यदि संबोधिमिच्छथ

10.19

अस्मिन् मञ्जुश्रियश्चैत्यं भजध्वं सर्वदा मुदा ।
इत्यादिष्टं मुनीन्द्रेण निशम्य ते ससांधिकाः

10.20

सर्वलोकास्तथेत्युक्त्वा प्राभ्यनन्दत् प्रबोधिताः ।
ततः सर्वे ऽपि ते लोका ब्रह्माशक्रादयो ऽमराः

10.21

सर्वे लोकाधिपाश्चापि सार्द्धं परिजनैर्मुदा ।
भगवन्तं मुनीन्द्रं तं ससंघ संप्रसादिताः

10.22

नत्वा प्रदक्षिणी कृत्वा स्वस्वालयं मुदा ययुः ।
सर्वे मर्त्या नृपाद्याश्च समन्त्रिजनपौरिकाः

10.23

ससांधिकं मुनीन्द्रं तं नत्वा स्वस्वालयं ययुः ।
हारीति यक्षिणीशापि सात्मजा बौद्धरक्षणी

10.24

त्रिरत्नभजनं कृत्वा धर्मधातोरूपाश्रयत् ।
ततः स भगवांश्चापि समुत्थाय ससांधिकः

10.25

प्रभासयञ्जगद्भासा जटोद्यानाश्रमे ययौ ।
तत्र स त्रिजगन्नाथो विहारे सहसांधिकैः

10.26

सद्धर्म्मसमुपादिश्य विजहार जगद्धिते ।
इति ते गुरुणादिष्टं श्रुतं मया तथोच्यते

10.27

श्रुत्वाप्येतन्महाराजा श्रद्धयाभ्यनुमोदय ।
इति शास्त्रार्हतादिष्टं निशम्य स नराधिपः

10.28

प्रसादितस्तमर्हन्त नत्वा प्राहैवमादरात् ।
भदन्तोहं समिच्छामि संद्रष्टुं तं स्वयंभुवं

10.29

तन्नैपाले प्रगच्छामि तदनुज्ञां प्रदेहि मे ।
इति संप्रार्थितं राज्ञा श्रुत्वा सोर्हन्यतिर्मुदा

10.30

नृपतिं तं महासत्त्वं संपश्यन्नेवमादिश्यत् ।
साधु राजन् समिच्छा ते यद्यस्ति तं स्वयम्भुवं

10.31

द्रष्टुं गच्छ समाराध्य भज श्रद्धासमन्वितः ।
सर्वतीर्थेषु च स्नात्वा दत्वा दानं यथेप्सितं

10.32

वीतरागां समाराध्य समभ्यर्च्यभिजादरात् ।
धर्मोदयां महादेवीं खगाननां जिनेश्वरीं

10.33

श्रद्धया समुपाश्रित्य समभ्यर्च्य भजादरात् ।
पञ्चपुरास्थिताः पञ्च देवताश्च यथाविधि

10.34

समाराध्य समभ्यर्च्य भज भक्त्या समादरात् ।
मञ्जुदेवस्य चैत्यं च समालोक्य यथाविधि

10.35

समाराध्य समभ्यर्च्य भजेनां धारणीं पठन् ।
आचार्य च गुहासीनं समाधिध्यानसंस्थितं

10.36

ध्यात्वाराध्य समभ्यर्च्य नत्वा भज समादरात् ।
एवमन्यान् महासत्त्वान् धर्म्मधातोरूपासकान्

10.37

सर्वानपि समाराध्य समभ्यर्च्य प्रणामय ।
एतत्पुण्यविशुद्धात्मा भद्रश्री सद्गुणाश्रयः

10.38

बोधिसत्त्वा महासत्त्वा जगद्भर्त्ता भवेदपि ।
ततः संबोधिसंभारं पूरयित्वा यथाक्रमं

10.39

अर्हन्संबोधिमासाद्य संबुद्धपदमाप्स्यसि ।
इति सत्यं परिज्ञाय संबोधि यदि वाञ्छसि

10.40

गत्वा तत्र महोत्साहैर्धर्म्मधातुं विलोक्य तं ।
यथाविधि समाराध्य भजस्व समुपाश्रितः

10.41

गच्छ ते मङ्गलं भुयात् सिध्यतु ते समीहितं ।
यथेच्छया समालोक्य समायाहि प्रमोदितः

10.42

इति शास्त्रा समादिष्टं श्रुत्वा स नृपतिर्मुदा ।
तं गुरुं साञ्जलिर्नत्वा प्राप्यानुज्ञामनन्दतः

10.43

ततः स नृपती राजा समन्त्रिजनपौरिकाः ।
राजर्द्धि मंगलोत्साहैः संप्रस्थितो मुदाचरत्

10.44

तत्र मार्गे स राजेन्द्रः सर्वान् लोकान् प्रसादयन् ।
महोत्साहैश्चरन्नाशु नैपालं समुपाययौ

10.45

तत्र प्राप्तः समालोक्य दूरात् तं श्रीस्वयंम्भुवं ।
साञ्जलि प्रणतिं कृत्वा प्रमनाः सहसा चरेत्

10.46

तत्र सर्वत्र संवीक्ष्य शुभोत्साहप्रवर्त्तितं ।
विस्मयानन्दितान्सा स नृपतिः समुपासरेत्

10.47

तत्र सर्वेषु तीर्थेषु क्रमेण स नराधिपः ।
स्नात्वार्थिभ्यो यथाकामं ददौ दानं चरन् व्रतं

10.48

ततो ऽष्टौ वीतरागान् स नृपतिर्वीक्ष्य हर्षितः ।
यथाविधि समाराध्य भजत्यर्च्य यथाविधि

10.49

ततो मुदाचरन् वीक्ष्य धर्म्मधातुं जिनालयं ।
यथाविधि समाराध्य समभ्यर्च्याभजन् क्रमात्

10.50

ततो वायुपुरे वायुदेवतां सगणां मुदा ।
यथाविधि समाराध्य समभ्यच्यनितोभजत

10.51

ततश्चाग्निपुरे वह्निदेवताः सगणामपि ।
यथाविधि समाराध्य संपूज्याभजदादरात्

10.52

ततो नागपुरे नागदेवताःसगणा अपि ।
यथाविधि समाराध्य समभ्यर्च्या मुदाभजत्

10.53

ततो वसुपुरे देवीं सगणां श्रीवसुन्धरां ।
यथाविधि समाराध्य भजत्यर्च्य समादरात्

10.54

ततः शान्तिपुरे श्रीमत्सम्बरं सगणं तथा ।
यथाविधि समाराध्य समभ्यर्च्य मुदाभजत्

10.55

ततः शान्तिकराचार्य समाधिध्यानसंस्थितं ।
ध्यात्वाराध्य समभ्यर्च्य प्राभजन् संप्रमोदितः

10.56

ततो धर्म्मोदया देवी खगाननां महेश्वरीं ।
यथाविधि समाराध्य समभ्यर्च्य मुदाभजत्

10.57

सम्बुद्धं पुण्डरीकाक्षं सर्वज्ञ करुणास्पदं ।
समन्तभद्रशास्तारं शाक्यसिंहं नमाम्यहं

10.58

श्रीघनं श्रीमतिं श्रेष्ठं शीलराशिं शिवकरं ।
श्रीमन्तं श्रीकरं शान्तं शान्तिमूर्ति नमाम्यहम्

10.59

नैरात्मवादिनं सिंहं निरवद्यं निराश्रवं ।
नीतिज्ञं निर्मलात्मानं निष्कलंकं नमाम्यहम्

10.60

निर्द्वन्द्वं निरहंकारं निर्विकल्पं तथागतं ।
निर्द्धूतनिखिलक्लेशं निष्प्रपंचं नमाम्यहं

10.61

विश्वेश्वरं विशेषो ऽहं विश्वरूपं विनायकं ।
विश्वलक्षणसंपूर्ण्ण वीतरागं नमाम्यहं

10.62

विधावरेण संपन्नं विश्वेशम्विमलप्रभं ।
विनीतवेगं विमलं वीतमोहं नमाम्यहं

10.63

दुदन्तिदमकं शान्तं शुद्धं पञ्चजिनालयं ।
सुगतिं सुश्रुतं सौम्यं शुभ्रकीर्त्ति नमाम्यहं

10.64

योगीश्वरं दशबलं लोकज्ञं लोकपूजितं ।
लोकाचार्य लोकमूर्तिं लोकानाथं नमाम्यहं

10.65

कलंकमुक्तिं कामारिं सकलैकं कलाधरं ।
कान्तमूर्ति दयापात्रं कनकाभं नमाम्यहं

10.66

ततो मञ्जुश्रियश्चैत्यं धर्मधातुमुपाश्रयन् ।
यथाविधि समाराध्य समभ्यर्च्यानतोभजत्

10.67

ततो मुदा चरन् वीक्ष्य धर्मधातुं जिनालयं ।
यथाविधि समाराध्य समभ्यर्च्याभजन् मुदा

10.68

भक्त्या परमयास्तौषीजिनालयं स्वयंभुवं ।
ज्योतीरूपाय चैतन्यं रूपाय भवते नमः

10.69

मुरादिनिधनाय श्रीदात्रे प्रणवरुपिणे ।
विश्वतोमुखरुपाय भक्तवत्सल ते नमः

10.70

पृथ्व्यादिभूतनिर्मात्रे जगद्वंद्यायते नमः ।
जगत्स्रष्टे जगत्पात्रे जगद्धर्त्रे नमो नमः

10.71

ध्यानगम्याय ध्येयाय चर्तुवर्गप्रदायिने ।
एवं स्तुत्वा अशोकः स पुनः क्षमापनं व्यधात्

10.72

एवं स नृपतिः सर्वान् धर्मधातोरुपासकान् ।
महासत्त्वान् समभ्यर्च्य सत्कृत्य समतोषयत्

10.73

एवं स नृपराजः श्री धर्मधतोरूपाश्रितः ।
त्रिरत्नभजनं कृत्वा प्राचरद् बोधिसम्बरं

10.74

ततः स नन्दितो राजा समन्त्रिजनपौरिकः ।
नत्वा प्रदक्षिणीकृत्य धर्म्मधातुं मुदाचरत्

10.75

ततश्चरन् स भूमीन्द्रो महोत्साहैः प्रमोदितः ।
सहसा पुरमासाद्य विहार समुपाचरत्

10.76

तत्रोपेत्य तमर्हन्तमुपगुप्तससांधिकं ।
समीक्ष्य सञ्जलिर्नत्वा सभैकान्तं समाश्रयत्

10.77

तं समायातमालोक्य सो ऽर्हे शास्ता प्रसन्नदृक् ।
स्वागतं कुशलं कच्चिन्नृपतिं पर्यपृच्छत

10.78

तच्छुत्वा स महीपालः शास्तारं तं कृताञ्जलिः ।
प्रणत्वा सुप्रसन्नास्यः संपश्यन्नेवमब्रवीत्

10.79

समागतोस्म्यहं शास्तर्भवत्कृपानुभावतः ।
कुशलं मे कथं न स्यात् सर्वत्रापि सदापि हि

10.80

भवत्कृपानुभावेन नेपाले ऽहं मुदाचरन् ।
दृष्ट्वा सर्वेषु तीर्थेषु स्नात्वा दानं यथेप्सितं

10.81

तथाष्टौ वीतरागाश्च समालोक्य प्रमादितः ।
यथाविधि समाराध्य समभ्यर्च्यभिजं क्रमात्

10.82

ततः समीक्ष्य तं श्रीमद्धर्म्मधातुं स्वयंभुवं ।
यथाविधि समाराध्य समभ्यर्च्याभजन् मुदा

10.83

ततो वायुपुरे वायुदेवताभ्यर्च्चिता मया ।
ततश्चाग्निपुरे वह्निर्देवतापि मयार्च्चिता

10.84

तथा नागपुरे नागराजांश्चापि मयार्च्चिता ।
तथा तथा वसुपुरे देवी वसुन्धरां समर्च्चिता

10.85

ततः शान्तिपुरे श्रीमत्सम्बरश्च समर्च्चितः ।
ततः शान्तिकराचार्यः समालोक्य मयार्चितः

10.86

देवीं खगाननां चापि समाराध्य समर्चिता ।
मञ्जुदेवस्य चैत्यं च यथाविधि समर्चितं

10.87

एवं भदन्त तत्रोपच्छन्दोहे पुण्यभूतले ।
यथाविधि समाराध्य सर्वदेवा मयार्चिताः

10.88

एतत्पुण्यं मया लब्धं भवत्कृपानुभावतः ।
तदत्र जन्मसाफल्यं जीवितं चापि मे ऽधुना

10.89

तथात्र सर्वदा शास्त धर्मधातुं जिनालयं ।
स्मृत्वा नाम समुच्चार्य ध्यात्वा भजेय मा भवं

10.90

इति राज्ञा समाख्यातं श्रुत्वा सो ऽर्ह प्रसादितः ।
नृपति तं समालोक्य पुनरेवं समादिशत्

10.91

धन्यो ऽसि यत्महाराजधर्मधातुं जिनालयं ।
स्मृत्वा ध्यात्वापि संभक्तुंमिच्छसे ऽत्र सदा भज

10.92

एतत्पुण्यविशुद्धात्मा भद्रश्रीसद्गुणाश्रयः ।
बोधिसत्त्वो महासत्त्वः सर्वधर्माधिपो भवेः

10.93

ततः संबोधिसंभारं पूरयित्वा यथाक्रमं ।
अर्हन्स्त्रिबोधिमासाद्य ध्रुवं बुद्धपदं लभेः

10.94

समुत्पत्तिकथां तस्य धर्मधातोः स्वयंभुवः ।
श्रुत्वापि यत्महत्पुण्यं संबोधिसाधनं लभेत्

10.95

इति मत्वा समुत्पत्तिकथां तस्य स्वयंभुवः ।
सत्कृत्य श्रद्धया मर्त्याः श्रोतुमर्हन्ति सर्वथा

10.96

समुत्पत्तिकथां तस्य धर्मधातोः स्वयंभुवः ।
शृण्वन्ति ये नरा भक्त्या सत्कृत्य श्रद्धया मुदा

10.97

दुर्गतिं ते न गच्छन्ति कुत्रापि हि कदाचन् ।
सदा सद्गतिसंजाता भद्रश्रीसद्गुणाश्रयाः

10.98

सर्वसत्त्वहिताधानबोधिचर्याव्रतारताः ।
महाभिज्ञा जगन्नाथा भवेयुः सुगतात्मजाः

10.99

क्रमेण बोधिसम्भारं पूरयित्वा जगद्धिते ।
अर्हन्तत्रिविधां बोधिं प्राप्येयुः सौगतं पदं

10.100

इति मत्वा महाराज श्रोतव्यं श्रद्धयादरात् ।
स्वयम्भूगुणमाहात्म्यं दुर्ल्लभं बोधिवाञ्छिभिः

10.101

शृण्वन्ति ये नरा भक्त्या सत्कृत्य श्रद्धया मुदा ।
स्वयंभूगुणमाहात्म्यसद्धर्मश्रीगुणार्थदं

10.102

ते ऽपि न दुर्गतिं यायुः सदासद्गतिसंगताः ।
भद्रश्रीसद्गुणाधारा भवेयुर्बोधिलाभिनः

10.103

तस्मादेतत्महत्पुण्यं श्रुत्वा ध्यात्वा सदादरात् ।
स्मृत्वा नाम समुच्चार्य संभक्तव्यं स्वयंभुवं

10.104

अहमपि पुरा राजन् धर्म्मधातोः स्वयंभुवः ।
श्रुत्वा सद्गुणसांकथ्यं बभूव संप्रमोदितः

10.105

ततो ऽहं सहसा तत्र नेपाले समुपाचरंत् ।
स्नात्वा सर्वेषु तीर्थेषु ददौ दानं यथेप्सितं

10.106

अष्टौ तान् वीतरागांश्च समाराध्य मयार्चिताः ।
देवीं खगाननां चापि समाराध्य समर्चिता

10.107

मञ्जुदेवस्य चैत्यं च समाराध्य समर्चितं ।
पञ्च पुरा स्थिता पञ्च देवताश्च समर्चिताः

10.108

तथा शान्तिकराचार्यः समालोक्य समर्चितः ।
ततःशरणमाश्रित्य धर्मधातो स्वयंभुवः

10.109

सत्कृत्य श्रद्धया नित्यं समाराध्य मुदा भजं ।
एवं तत्र सदाश्रित्य धर्मधातोरूपासकः

10.110

त्रिरत्नभजनं कृत्वा प्राचरन् बोधिसंबरं ।
एतत्पुण्यविशुद्धात्मा परिशुद्धत्रिमण्डलः

10.111

अहं बोधिं समासाद्य जिनात्मजा भवे ऽधुना ।
इति विज्ञाय मानुष्या वाञ्छन्ति ये सुनिर्वृतिं

10.112

धर्मधातुं समाराध्य भजन्तु ते सदा मुदा ।
स्मृत्वा ध्यात्वा च नामापि समुच्चार्य समादरात्

10.113

समालोक्य प्रणत्वापि भजन्तु तं जिनालयं ।
ये भजन्ति सदा स्मृत्वा ध्यात्वा नत्वा जिनालयं

10.114

द्रुतं संबोधिमासाद्य संबुद्धपदमाप्नुयुः ।
इति सत्यं समाख्यातं सर्वैरपि मुनीश्वरैः

10.115

श्रुत्वानुमोद्य तं धर्मधातुं स्मृत्वा भजन्त्वलं ।
सुभाषितमिदं येपि श्रुत्वानुमोदिताशयाः

10.116

धर्मधातुमनुस्मृत्वा ध्यात्वा भजन्ति सर्वदा ।
ते ऽपि चैतत्महत्पुण्यपरिशुद्धत्रिमण्डलाः

10.117

भद्रश्रीसद्गुणाधाराश्चतुर्ब्रह्मविहारिणः ।
बोधिसत्त्वा महासत्त्वा महाभिज्ञाः शुभेन्द्रियाः

10.118

द्रुतं संबोधिमासाद्य संबुद्धपदमाप्नुयुः ।
इति मे गुरुणादिष्टं श्रुतं मया तथोच्यते

10.119

त्वमपीदं सदा लोका श्रावयित्वानुमोदय ।
एतत्पुण्यानुभावेन सर्वत्र सर्वदापि ते

10.120

निरुत्पातं शुभोत्साहं भवेन्नूनं नराधिपः ।
इति तेनार्हतादिष्टं श्रुत्वाशोको नृपो मुदा

10.121

तथेति प्रतिविज्ञप्य प्राभ्यनन्दत् सपार्षदः ।
ततः सर्वे ऽपि ते लोका निशम्यैतत्सुभाषितं

10.122

अनुमोद्य महोत्साहैः संचेरिरे शुभे सदा ।
तदैतत्पुण्यभावेन सर्वत्र तत्र सर्वदा

10.123

निरुत्पातं शुभोत्साहं प्रावर्त्तत निरन्तरं ।
इत्यादिश्य महाभिज्ञो जयश्रीः स महामतिः

10.124

सर्वान्स्तान् सांधिकान् पश्यन् पुनरेवं समादिशत् ।
यत्रेदं धर्म्मसांकथ्यं प्रावर्त्तयेत् कलावपि

10.125

भाषेत्य शृणुयाद्यश्च श्रावयेद्यः प्रचारयेत् ।
एतेषां तत्र सर्वेषां संबुद्धाः सकलाः सदा

10.126

कृपा दृष्ट्या समालोक्य प्रकुर्युर्भद्रमाभवं ।
सर्वा पारमिता देव्यस्तेषां तत्र सदा शिवं

10.127

कृत्वा संबोधिसंभारं पूरयेयुर्यथाक्रमं ।
सर्वे ऽपि बोधिसत्त्वाश्च प्रत्येकसुगता अपि

10.128

अर्हन्तो योगिनस्तेषां प्रकुर्युर्मङ्गलं सदा ।
सर्वे लोकाधिपाश्चापि सर्वे चापि महर्षयः

10.129

तत्र तेषां हि सर्वेषां कुर्युः समीक्ष्य मङ्गलं ।
सर्वे देवाधिपाश्चापि सर्वदैत्याधिपा अपि

10.130

तथा सर्वे ऽपि गन्धर्वाः सर्वयक्षाधिपा अपि ।
गरुडा नागराजाश्च कुम्भाण्डाधीश्वरा अपि

10.131

समीक्ष्य सर्वदा तेषां रक्षां कुर्युः समन्ततः ।
सर्वाश्च मातृका देव्यः सभैरवगणा अपि

10.132

कृत्वा रक्षां सदा तेषां कुर्युर्भद्रं समन्ततः ।
सर्वे ग्रहाश्च ताराश्च सिद्धा विद्याधरा अपि

10.133

साध्याश्चापि सदालोक्य तेषां कुर्युः सुमङ्गलं ।
भूतप्रेतपिशाचाश्च दुष्टा मारगणा अपि

10.134

वीक्ष्य तेषां प्रसन्नास्ते रक्षां कुर्युः सदा मुदा ।
स्वयम्भूगुणमाहात्म्य सांकथ्यं यो ऽलिखेत् मुदा

10.135

तेनापि लिखितं सर्व महायानसुभाषितं ।
लेखापितं च येनेदं धर्मधातुसुभाषितं

10.136

तेनापि सकलं सूत्रं लेखापितं भवेद् ध्रुवं ।
लिखितं चापि येचेदं प्रतिष्ठाप्य यथाविधि

10.137

शुद्धस्थाने गृहे स्थाप्य पूजाङ्गैः सर्वदार्चितं ।
तेनार्हन्तो जिनाः सर्वे प्रत्येकसुगता अपि

10.138

ससंघा बोधिसत्त्वाश्च भवन्ति पूजिताः खलु ।
यश्चापीदं स्वयं धृत्वा परेभ्यो ऽपि समादिशत्

10.139

भावयेत् सततं स्मृत्वा ध्यात्वापि प्रणमेन्मुदा ।
तस्य सर्वमुनीन्द्रो हि प्रत्येकसुगता अपि

10.140

अर्हन्तो बोधिसत्त्वाश्च तुष्टा दद्युः समीहितं ।
यश्चैतदुपदेष्टारं सर्वाश्च श्रावकानपि

10.141

यथाविधि स समभ्यर्च्य भाजनैः समतोषयेत् ।
तेन सर्वे ऽपि संबुद्धाः प्रत्येकसुगता अपि

10.142

अर्हन्तो भिक्षवः सर्वे योगिनो ब्रह्मचारिणः ।
बोधिसत्त्वाश्च सर्वे ऽपि व्रतिनो यतयो ऽपि च

10.143

अर्चिता भोजितास्तुष्टा भवेयुरनुमोदिताः ।
किमेवं वहुनोक्तेन सर्वे बुद्धा मुनीश्वराः

10.144

सर्वास्ताराश्च देव्यो ऽपि सर्वसंघा जिनात्मजाः ।
नित्यं तेषां कृपा दृष्टया समालोक्यानुमोदिताः

10.145

रक्षां विधाय सर्वत्र वरं दद्युः समीहितं

10.146

सर्वे लोकाधिपाश्चापि सर्वे देवा सुराधिपाः ।
रक्षां कृत्वा वरं दद्युस्तेषां सद्धर्मसाधने

10.147

राजानो ऽपि सदा तेषां रक्षा कृत्वानुमोदिताः ।
यथाभिवाञ्छितं दत्वा पालयेयुः सदादरात्

10.148

मन्त्रिणो ऽपि सदा तेषां सामात्यसचिवानुगाः ।
सभृत्यसैन्यभट्टाश्च भवेयुर्हितकारिणः

10.149

सर्वे वैश्याश्च सर्वार्थभर्त्तारःस्यु सुहृन्प्रियाः ।
श्रेष्टिमहाजनाः सर्वे भवेयुर्हितकारिणः

10.150

द्विषोपि दासतां यायुर्दृष्टाश्च स्युर्हिताशयाः ।
एवमन्येपि लोकाश्च सेर्व्व स्युर्मैत्रमानसाः

10.151

पशवः पक्षिणश्चापि सर्वकीटाश्च जन्तवः ।
नैव तेषां विरुद्धा स्युः भवेयुर्हितशंसिन

10.152

एवं सर्वत्र लोकेषु तेषां सद्धर्मसाधिनां ।
निरुत्पातं शुभोत्साहं सौमाङ्गल्यं सदा भवेत्

10.153

एवं भद्रतरं पुण्यं स्वयभूंभवनोद्भवं ।
नत्वा तं त्रिजगन्नाथं भजध्वं सर्वदा मुदा

10.154

ये तस्य शरणे स्थित्वा स्मृत्वा ध्यात्वा समाहिताः ।
नामापि च समुच्चार्य भजन्ति श्रद्धया सदा

10.155

तेषां त्रिन्यपि रत्नानि सुप्रसन्नानि सर्वदा ।
कृपा दृष्टया समालोक्य कृत्वा देयुः सदा शुभं

10.156

इति शास्त्रासमादिष्टं जयश्रिया निशम्यते ।
जिनेश्वरी प्रमुखाः संघा सर्वे नन्दन्प्रबोधिताः

10.157

सर्वावती सभा सापि श्रुत्वैतत् संप्रसादिताः ।
तथेति प्रतिविज्ञप्य प्राभ्यनन्दन् प्रबोधिताः

10.158

ततस्ते सकला लोकाः समुत्थाय प्रसादिताः ।
जयश्रिय ससंघं तं नत्वा स्वस्वाश्रमं ययुः

10.159

तत्र नित्यमुपेत्यत्यर्द्ध्या ससंघः सजिनात्मजा ।
स्नात्वा सर्वेषु तीर्थेषु धृत्वा व्रतं यथाविधि

10.160

ततो ऽष्टौ वीतरागांश्च देवीं चापि खगाननां ।
पञ्चमा देवताश्चापि यथाविधि समर्च्चयन्

10.161

तथा शान्तिकराचार्य चैत्य मञ्जुश्रियो ऽपि च ।
धर्माधातुं समाराध्य ध्यात्वाभ्यर्च्य सदाभजत्

10.162

तदैतत्पुण्यभावेन विषये तत्र सर्वदा ।
निरुत्पातं शुभोत्साहं प्रावर्त्तत समंततः

10.163

ततश्चासौ महाभिज्ञा जयश्रीः सुगतात्मजः ।
सर्वान्स्तान् सांधिकान् पश्यन् पुनरेवं समादिशत्

10.164

यत्रेदं धर्मसांकथ्यं प्रचारितं स्वयंभुवः ।
तत्रैत्त्पुण्यभावेन भवतु सर्वदा शुभं

10.165

संबुद्धास्तत्र सर्वे ऽपि प्रत्येकसुगता अपि ।
अर्हन्तो बोधिसत्त्वाश्च कुर्वन्तु मंङ्गलं सदा

10.166

सर्वे लोकाधिपाश्चापि सर्वे चापि महर्षयः ।
समालोक्य सदा तत्र प्रकुर्वन्तु सुमङ्गलं

10.167

काले वर्षन्तु मेघाश्च भूयाच्छश्यवती मही ।
निरुत्पातं सुभिक्ष्यं च भवन्तु तत्र सर्वदा

10.168

राजा भवतु धार्म्मिष्ठो मन्त्रिणो नीतिचारिणः ।
सर्वे लोकाःसुवृत्तिष्ठा भवन्तु धर्मसाधिनः

10.169

सर्वे सत्त्वाः समाचाराः संबोधिविहिताशयाः ।
त्रिरत्नभजनं कृत्वा संचरन्तां सदा शुभे

10.170

इति जयश्रियादिष्टं श्रुत्वा सर्वे ऽपि सांधिकाः ।
एवमस्त्विति प्राभाष्य प्राभ्यनन्दन्प्रसादिताः

मूल पाठ: Svayaṃbhupurāṇa · Edition: Min Bahadu Shakyar & Shanta Harsa Bajracharya (trans.). Svayambhu Purāṇa. Nepal: Nagarjuna Institute of Exact Methods, 2001. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc