स्वयंभुपुराण · अध्याय 1
स्वयम्भु पुराण
प्रथम अध्याय
स्वयम्भूधर्मधातुसमुत्पत्ति निदानकथा
ओम् नमः श्री धर्मधातुवागीश्वराय सर्व बुद्धधर्मबोधिसत्त्वेभ्यः ।
श्रीमता येन सद्धर्मस्त्रैलोके संप्रकाशितः ।
श्रीघनं तं महाबुद्धं वन्देकऽहं शरणाश्रितः
नत्वा त्रिजगदीशानं धर्मधातुजिनालयं ।
तत्स्वयम्भूसमुद्देशं वक्षामि शृणुतादरात्
श्रद्धया यः शृणोतीमां स्वयम्भूत्पत्तिसत्कथां ।
परिशुद्धत्रिकायाः स बोधिसत्त्वो भवेद् ध्रुवं
तद्यथा भूत्पुराभिज्ञः जयश्री सुगतात्मजः ।
बोधिमण्डविहारे स बिजहार ससांधिकः
तत्र जिनेश्वरो नाम बोधिसत्त्व महामतिः ।
श्रद्धया शरणं गत्वा जयश्रीयं उपाश्रयेत्
तदा धीमान्जयश्रीः स सर्वसत्त्व हितार्थवित् ।
सद्धर्मसमुपादेष्टुं सभासने समाश्रयेत्
तत्र सर्वे महासत्त्वा बोधिसत्त्वा जिनात्मजाः ।
अर्हन्तो भिक्षवश्चापि ब्रह्मचारिणः श्रावकाः
भिक्षुण्यो ब्रह्मचारिण्यो ब्रतिनश्चाप्युपासकाः ।
उपासिकास्तथान्ये ऽपि गृहस्थश्च महाजनाः
ब्राह्मणास्तिर्थीकाश्चापि यतयश्च तपस्विनः ।
राजानो मन्त्रिणोमात्याः सैन्याधिपतिश्च पौरिकाः
ग्राम्या जनपदाश्चापि तथान्यवासिनो जनाः ।
तत्सद्धर्मामृतं पातुं श्रद्धया समुपागताः
तत्र सभासनासीनं तमर्हतं जयश्रीयं ।
अभ्यर्च्य सादरं नत्वा तत्सभायां यथाक्रमं
कृतांजलिपुटाः सर्वे परिवृत्य समन्ततः ।
पुरस्कृत्य समुद्विक्ष्य समाश्रयन् समाहिताः
तान् सर्वान् समुपासीनान् सद्धर्म श्रवणोत्सुकान् ।
दृष्ट्वा जिनश्री बोधिसत्त्वः समुत्थितः
उद्वहन्नुत्तरासंगं सांजलि समुपाश्रितः ।
जानुभ्यां भूतले धृत्वा सम्पश्यन्नेवमव्रवीत्
भदन्तोहर्षमिच्छामि चरितुं बोधिसंवरं ।
तदादौ किं व्रतं धृत्वा संचरेय समाहितः
तद् भवान् समुपादिस्य सर्वानस्मान् प्रबोधयन् ।
बोधिमार्गे समायुज्य चारयितुं शुभेर्हति
इति संप्रार्थितं तेन श्रुत्वा च सुगतात्मजः ।
जयश्रीस्तं महासत्त्वं सभामन्त्रैवमादिशत्
शृणु वत्सास्ति ते वांछा सम्बोधिसंवरे यदि ।
यथाक्रमं प्रवक्षामि संबोधिव्रतसाधनं
यो वांछा तत्र संसारे चरितुं बोधिसंवरं ।
स आदौ शरणं गत्वा सद्गुरुं समुपाश्रयेत
तदुपदेशमासाद्य यथाविद्यि समाहितः
तीर्थे स्नात्वा विशुद्धात्मा त्रिरत्नशरणं गताः ।
यथाविधि समभ्यर्च्य संबोधि निहिताशयः
उपोषधंव्रतमाधाय समाचरेज्जगद्धिते ।
एवं यश्चरते नित्यं संबोधिमानसः सुधीः
परिशुद्ध त्रिकायः स बोधिसत्त्वे भवेद् ।
बोधिसत्त्वो महासत्त्वः सर्व्वसत्त्व हितार्थभृत्
क्रमात्संबोधि संभारं संपूरयेत् समाहितः ।
एतत्पुण्याभियुक्तात्माचतुर्ब्रह्म विहारधृक्
निःक्लेशो निर्ज्जयन्मारोन संबोधिः समवाप्नुयात्
एवं सर्वत्र लोकेषु सद्धर्म संप्रकाशयन् ।
समाप्य सौगतंकार्य सुनिर्वृतिमवाप्नुयात्
ततो ऽर्हं सुगतो भूत्वा सर्व्वान्सत्त्वान्प्रवोधयन् ।
बोधिमार्गे प्रतिष्ठाप्य संवृत्तौ संप्रचारयेत्
एवं सर्वे ऽपि संबुद्धाः येतीता अप्यनागताः ।
वर्त्तमानाश्च ते हयेतद् व्रतपुण्य विपाकतः
बोधिप्राप्य जिना आसन्भविष्यन्ति भवन्त्यपि ।
एवं सर्वे महासत्त्वा बोधिसत्त्वा जिनात्मजाः
अर्हन्तो ऽपि था सर्वे परिशुद्धत्रिमण्डलाः ।
बोधिं प्राप्य सुनिर्वाणं याता यास्यन्ति यान्त्यतः
एवं यूयं परिज्ञाय यदेच्छथ सुनिवृतिं ।
त्रिरत्नशरणं गत्वा संचरध्वमिदं व्रतं
इति तेन समादिष्टं श्रुत्वा स सुगतात्मजः ।
जिनेश्वरं तमर्हन्तं सम्पश्यन्नेवमव्रवीत्
भदन्त श्रोतुमिछामि तद् व्रतस्थानमुत्तमं ।
एतद् व्रतं चरेत्कुत्र तद्देशं समुपादिशत्
इति संप्रार्थिते तेन जयश्रीः स महामतिः ।
जिनेश्वरं महासत्त्वं तं पश्यन्नेवमादिशत्
शृणु वत्स समाधायं व्रतस्थानसमुत्तमं ।
मुनीश्वरैर्यथाख्यातं तथा वक्षामि ते ऽधुना
पुण्यक्षेत्रेषु तीर्थेषु विहारे सुगताश्रमे ॥
बुद्धानां निवृतानांच चैत्येषु प्रतिमासु च
बुद्धक्षेत्रेषु सर्वत्र व्रतस्थानं समुत्तमं ।
एतेष्वमि समाख्यातं स्वयम्भूचैत्यं उत्तमं
एवं विज्ञाय यो धीमान्व्रतं चरितुमिच्छति ।
स स्वयम्भू जिनक्षेत्रं आश्रित्य चरतां व्रतं
स्वयम्भूक्षेत्रमाश्रित्य यश्चरति व्रतं मुदा ।
स लभेत् तन्महत् पुण्यमक्षयं बोधिसाधनं
एतत् पुण्यं विशुद्धात्मा भद्रश्री सद्गुणाश्रयः ।
बोधिसत्त्वो महाभिज्ञा भवज्जिनात्मजो ध्रुवं
दुर्गतिं न ब्रजेत् क्वापि संसारे स कदाचन ।
सदा सद्गतिसंजातो बोधिचर्याव्रतं चरेत्
एवं स संसरल्लोके कृत्वा सर्वत्र भद्रता ।
संबोधि प्रणिधिं धृत्वा संचरे तद्जगद्धिते
एवं च बोधि संभारं पूरयित्वा यथाक्रमं ।
त्रिविधां बोधिमासाद्यः निर्वृतिपदमाप्नुयात्
एवं यूयं परिज्ञात्वाः स्वयम्भूस्थान आश्रिता ।
त्रिरत्नशरणं गत्वा संचरथ व्रतोत्तमं
एतत्तेनार्हतादिष्टं श्रुत्वा स सुगतात्मजः ।
जयश्रियं तमर्हन्तं सम्पश्यन्नेवमब्रवीत्
भदन्त भवता दिष्टं श्रुत्वा मे रोचते मनः ।
स्वयम्भूचैत्यमाराध्य चरितुं व्रतमाभवं
स्वयम्भू चैत्यराजः श्रीधर्मधातु जिनालयः ।
कुत्रास्त्यत्र महीलोके तत् समादेष्टुमर्हति
इति सप्रार्थितं तेन श्रुत्वां सो ऽर्हन् यतिः सुधीः ।
जयश्री स्तं महासत्त्व समालोक्यैवमादिशत
विद्यते ऽत्र महीलोके उत्तरस्यां हिमालये ।
नेपाल इति विख्यातेः गोपुच्छाख्येर्नगोत्तमः
तद्गिरेर्नाम चातुर्ध्य चतुर्युगेषु वर्तते ।
तद्यथाभूद्युगे सत्ये पद्मगिरिरिति स्मृतः
त्रेतायां वज्रकूटाख्यो गोशृंगो द्वापरे स्मृतः ।
इदानीं तु कलौ ऽसौ गोपुच्छ इति विश्रुतः
सो ऽपिशैलो इदानीतु लोकै नेपाल देशकैः ।
साम्हेगुरिति विख्यात स्तथासंप्रस्थितो भुवि
स सर्वधातुरलादि सर्वद्रव्यमयोक्तमः ।
अश्वत्थ प्रमुखैर्सवैर्पादपैः संप्रशोभितः
सर्वत्र कुसुमैर्कान्तः संर्वोषधिफलद्रुमैः ।
सर्वपक्षिविरावैश्चः भ्रमद्भ्रमरनिस्वनैः
जन्तुभिः सकलः स्नेह निवद्धमैत्रमानसैः ।
तपस्विवद्धया भद्रचारिभिः सनिषेवितः
अष्टांग गुणसंपन्न संशुद्धामृतनिर्झरैः ।
शोभितः पुष्पगंधाधि संवासितैः समीरणैः
संसेवितः सदा दिव्य महोत्साहैर्विवाजितः ।
सर्वलोकाधिपैर्नित्यं संसेवितः समादरैः
तत्र रत्नमय पद्मः कर्ण्णिकायां समाश्रितः ।
दिव्य स्फटिकरत्नाभज्योतिरूपो निरञ्जनः
एकहस्तः प्रमानोच्चश्चैत्यरूपो जिनाश्रयः ।
स्वयम्भूः सर्वलोकानां भद्रार्थ समवस्थितः
ब्रह्म शक्रादिभिर्देवैः सर्वैल्लोकाधिपैरपि ।
सर्वैर्दैत्याधिपैश्चापि नागेन्द्रैः गरुडैरपि
सिद्धै विद्याधरैः साध्यैरूर्यक्षगन्धर्वकिन्नरैः ।
राक्षसेन्द्रैश्च रुद्रैश्च ग्रहैस्तारागणैरपि
वसुभिश्चाप्सरोभिश्चः सर्वैश्व त्रिदशाधिपैः ।
ऋषिभिर्यतिभिः सर्वै योगिभि ब्रह्मचारिभिः
सर्वैश्च तीर्थिकै विज्ञैस्तापसैश्चापिसज्जनैः ।
दिवानिशं चतुः संध्यं दृष्ट्वा स्मृत्वा प्रवन्दितः
नित्यकालं समागते समभ्यर्च्य समादरात् ।
संस्तुतिभिः महोत्साहैः संमानिताभिवन्दितः
एवं स त्रिजगन्नाथः स्वयम्भू धर्मधातुकः ।
सर्वलोक हितार्थेन संभाषयन्समास्थितः
इदानीन्तु कलौ लोका दुष्टाः क्रूराशया शठाः ।
दृष्टवेदं धर्मधातुं हि हरिष्यन्ति न संशयः
इत्यसौ शिलयाछाद्य गुप्ति कृत्वा प्रकाशितः ।
तदुपरिष्टीकाभिश्च विधाय चैत्यमुत्तम
छात्रध्वजपताकाभिरलंकृत्याध्यतिष्ठतं ।
तत्रापि सर्वलोकैश्च सर्वलोकाधिपैरपि
समागत्य समाराध्य समभ्यर्च्याभिवन्दितः ।
सत्कारैश्च महोत्साहैः स्तुतिप्रदक्षिणादिभिः
प्रणामैश्च समाराध्य सेवितो मानितो ऽर्चितः ।
एवं स त्रिजगन्नाथो धर्मधातु जिनालयः
सर्वसत्त्व शुभार्थेन संशोभिता व्यवस्थितः ।
तत्र ये शरणं गत्वा यान्ति शुद्धया मुदा
दुर्ग्गतिं ते न गछन्ति संसारे ऽत्र कदाचन ।
सद्गतावेव संजाता धर्म्मश्री संघशोभिता
बोधिसत्त्वा महासत्त्वाः परिशुद्धत्रिमण्डलाः ।
भद्रश्री सद्गुणधारा सर्वसत्त्व हितंकराः
बोधिचर्याव्रतं धृत्वा संचरे जगद्धिते ।
एवं यूयमपि ज्ञात्वा श्रद्धया शरण गताः
स्वयम्भूचैत्यमाराध्य संचरध्वं व्रतं सदा ।
एवं कृत्वात्र संसारे भद्रश्री सद्गुणाश्रया
बोधिसत्त्वा महासत्त्वा जिनात्मजा भविष्यथः ।
ततः संबोधिसंभारं पूरयित्वा यथाक्रमं
त्रिविधां बोधिमासाद्य संबुद्धपदमाप्स्यथः ।
इति तेन समादिष्टं निशंम्य स महामतिः
शास्तारं तं समालोक्य पुनरेवमवोचत ।
भदन्त श्रोतुमिच्छामि यत्स्वयम्भू जिनालयः
कदा स्वयं समुत्पन्नः कथं च तदुपादिश ।
इति संप्रार्थित तेन श्रुत्वा सो ऽर्हन् यतिः सुधीः
जयश्रीस्तं महासत्त्वं संपश्यन्नेवमादिशत् ।
साधु शृणु महाभाग यथा मया श्रुतं गुरोः
तथाहं ते प्रवक्षामि स्वयम्भूत्पत्तिसत्कथां ।
तद्यथा पाटलीपुत्रे पुरे ऽशोको नराधिपः
सद्धर्म साधनोत्साही त्रिरत्नसेवको ऽभवत् ।
स तत्र कुक्कुटारामे विहारे सुगताश्रमे
उपगुप्तं महाभिज्ञं वन्दितुं समुपाचरेत् ।
तदा सो ऽर्हन् महाभिज्ञः सर्वसंघपुरस्कृतः
सभामध्यासनासीनस्तस्थौ ध्यात्वा समाहितः ।
तमर्हतं सभासीनं सर्वसंघपुरस्कृतः
दृष्ट्वाशोकः स भूमीन्द्रो मुदितः समुपाचरत् ।
तत्र स सहसोपेत्य साञ्जलिरर्हतो यतीन्
सर्वान्नत्वोपगुप्तं तमष्टांगैः प्राणमन्मुदा ।
ततस्तं गुरुमर्हन्तं महोत्साहैः यथाविधिं
समभ्यर्च्य प्रणत्वा च धर्मं श्रोतुमुपाश्रयत् ।
तथा तत्मन्त्रिणः सर्वे सामात्यसचिवो जनाः
तमर्हन्तं यतिन्नत्वा तत्रैकान्तमुपाश्रयत् ।
ततः सो ऽर्हन् महाभिज्ञो दृष्ट्वा सर्वा समाश्रितान्
आदिमध्यान्तकल्याणं सद्धर्मसमुपादिशत् ।
तत्सद्धर्मामृतं पीत्वा सर्वे लोकाः प्रवोधिताः
धर्मविशेषमाज्ञाय संबोधिव्रतमीच्छिरे ।
ततः सो ऽपि महाराजः श्रुत्वा तद्धर्ममुत्तमं
संबोधिसाधनोचर्या संचरितुं समैच्छत ।
ततः स नृपती राजा साञ्जलिः समुपाश्रितः
तमर्हन्तं महासत्त्वं नत्वा पश्यं मुदावदत् ।
भदन्त श्रोतुमिच्छामि संबोधिसाधनं व्रतं
कुत्र पुण्यतमं क्षत्रं यत्राशु सिध्यते व्रतं ।
तद् भवान् समुपादिश्य सर्वांल्लोकान् प्रबोधयन्
बोधिमार्गे समायुज्य संचारयितुमर्हति ॥
इति संप्रार्थिते राज्ञा श्रुत्वा सो ऽर्हन् महामतिः
तमशोकं महीपालं सम्पश्यन्नेवमब्रवीत् ।
साधु शृणु महाराज यथा मे गुरुणोदितं
तथाहं ते प्रवक्षामि बोधिव्रतं यदीच्छसि ।
सर्वक्षत्रोत्तमो राजन्नुत्तरस्यां हिमालये
नेपाले इति विख्यातो यत्राशु सिध्यते व्रतं ।
तत्राप्यति महत्पुण्यक्षत्रं बुद्धैः प्रशंसितं
स्वयम्भूचैत्यराजस्य धर्मधातोः समाश्रयं ।
तत्र यद्यत्कृतं कर्म तत्तत्संसिध्यते दुतं
इति सर्वै महासत्त्वैः संसेवितं जिनैरपि ।
इति विज्ञाय राजेन्द्र सम्बोधिं यदि वाञ्छसि
तच्चैत्यशरणं गत्वा संचरस्व सुसंवरं ।
एतत्पुण्यविशुद्धात्मा भद्रश्री सद्गुणर्द्धिमान्
बोधिसत्त्वो महाभिज्ञो भवेः सर्वहितार्थभृत् ।
ततः क्रमेन सम्बोधिं संभारं परिपूरयन्
निःक्लेशो ऽर्हञ्जगन्नाथाः सम्बुद्धपदमाप्स्यसि ।
इति तेनार्हतादिष्टं निशम्य स नृपो मुदा
उपगुप्तं गुरुं नत्वा पप्रच्छैवं समादरात् ।
भदन्त श्रोतुमिछामि स्वयम्भूत्पत्ति सत्कथां
कदा स्वयं समुत्पन्नं स्तत्समादेष्टुमर्हति ।
इति संप्रार्थितं राज्ञा श्रुत्वा सो ऽर्हन् यतिः सुर्धीः
अशोकं तं महीपालं सम्पश्यन्नेवमादिशत् ।
साधु राजन् यथादिष्टं गुरुणा मे श्रुतं मया
तथाहं संप्रवक्षामि शृणुष्व तत्समाहितः ।
तदा चासौ जगच्छास्ता शाक्यमुनिस्तथागतः
सर्वज्ञो धर्मराजो ऽर्हन् मुनीश्वरो विनायकः ।
स सर्वः सांधिकैः सार्द्धं जनपदेषु संचरन्
एकस्मिन् समये तत्र नेपाले समुपाचरत् ।
गोपुच्छपर्व्वतपार्श्वे पश्चिमे श्रीस्वयम्भूवः
पुच्छाग्रो ऽभिध चैत्यस्यसंन्निधौ सुगताश्रमे ।
सर्वसत्त्वहितार्थेन पूर्णन्दुरिव भासयन्
सद्धर्म्म समुपार्देष्टुं विजहार ससांधिकः ।
यदा स भगवाञ्छास्तान् सत्त्वानां धर्म्म वृद्धये
सद्धर्म्म समुपादेष्टुं सभासने समाश्रयत् ।
तं दृष्ट्वा तदा तत्र मञ्जुश्रियः ममाश्रमे
विहारे वासिनी चूडाभिधानी ब्रह्मचारिणी ।
अर्हन्ती भिक्षुणी भद्रा सद्धर्म्मगुणवाञ्छिनी
सुप्रसन्नाश्रया शुद्धा काषाय चीवरावृता ।
दिव्यपूजोपचाराणि समादाय प्रमोदिता
तत्सद्धर्मामृतं पातुं तत्राशु समुपाचरत् ।
तदा तत्र महासत्त्वा बोधिसत्त्वा जिनात्मजाः
मैत्रेयप्रमुखाः सर्वे तद्धर्म श्रोतुमागताः ।
अर्हन्तो भिक्षवश्चापि श्रावका ब्रह्मचारिणः
भिक्षुण्यो ब्रह्मचारिण्यः चैलका व्रतिनो ऽपि च ।
त्रिरत्नशरणासीनाश्चोपासका उपासिकाः
बौद्धभक्तिरताः सर्वे तद्धर्मश्रोतुमागताः ।
सर्वे ते समुपायातास्तत्र सभासनाश्रितं
संबुद्धं तं समालोक्य मुदिताः समुपाचरन् ।
ते सर्वे ऽभ्यर्च्य तं नाथं नत्वा साञ्जलयोर्मुदा
तत्सद्धर्मामृत पातुं तत्सभायां समाश्रयन् ।
ब्रह्मशक्रादया देवाः सर्वे लोकाधिपा अपि
ग्रहास्तारागणाश्चापि सिद्धा विद्याधरा अपि ।
साध्या रुद्राश्च गन्धर्वा यक्षगुह्यककिन्नराः
दैत्येन्द्रा राक्षसेन्द्राच नागेन्द्रा गरुडा अपि ।
एवमन्येपि लोकेन्द्राः सर्वे तत्र मुदागताः
तं मुनीन्द्रं समभ्यर्च्य नत्वा तत्र समाश्रयन् ।
हारिती यक्षिणी चापि बोधिसत्त्वानुपालिनी
सा भवन्तं तमानस्य तत्सभायां समाश्रित ।
अथ स भगवानञ्छास्ता दृष्ट्वा सर्वान् समाश्रितान्
मैत्रेयं समुपामन्त्र्य सम्पश्यन्नेवमादिशत् ।
मैत्रेयेमं जगन्नाथं स्वयम्भूवं जिनालयं
धर्मधातुं त्रिरत्नायं पश्यध्वं यूयमादरात् ।
भजध्वं श्रद्धया नित्यं गत्वात्र शरणं मुदा
बोधिचर्याव्रतं धृत्वा संचरन्ते जगद्धिते ।
श्रद्धया ये भजन्त्यत्र शरणं समुपाश्रिताः
बोधिचर्याव्रतं धृत्वा संचरन्ते जगद्धिते ।
सर्वे विमुक्तपापास्ते परिशुद्ध त्रिमण्डलाः
बोधिसत्त्वा महाभिज्ञाः भवेयुः सद्गुणाश्रयाः ।
भद्रश्रीसुखसम्पन्नश्चतुर्ब्रह्मविहारिकाः
सर्वसत्त्व हितोद्युक्ताः संबोधिव्रतचारिणः ।
न क्वापि दुर्गतिंयायुः सदा सद्गतिसंभवाः
त्रिरत्नभजनोत्साहाः सद्धर्म्मसाधनोद्यमाः ।
ततः प्रव्रज्या संबुद्धशासने शरणं गताः
ब्रह्मचर्यां व्रतं धृत्वा संचरेरन् समाहिताः ।
ततस्ते निर्मलात्मानो निःक्लेशाः विजितेन्द्रियाः
त्रिविधां बोधिमासाध सम्बुद्धपद्माप्नुयुः ।
एवं विज्ञाय ये मर्त्या वाञ्छन्ति सौगतं पदं
ते भजन्तु सदात्रैव श्रद्धया शरणाश्रिताः ।
इत्यादिष्टं मुनीन्द्रेण निशम्य ते सभाश्रिताः
सर्वे लोकाः प्रमोदन्तस्तथा भजितुमीच्छीरे ।
मैत्रेयः स ततो धीमान् बोधिसत्त्व हि मोदितः
समुत्थाय मुनीन्द्रस्य पुरतः समुपाचरन् ।
उद्वहन्नुक्तरासंगं प्रणत्वा तं मुनीश्वरं
जानुभ्यां भुवि संघाय साञ्जलिरेतमव्रवीत ।
भगवान् नाथः सर्वज्ञ धर्मधातुजिनालयः
कदायं स्वयंमुत्पन्न स्तन्समादेष्टुमर्हति ।
इति संप्रार्थिते तेन मैत्रेयेण महात्मना
भगवन्तं महाविज्ञं संपश्यन्नेवमादिशत ।
साधु शृणु समाधाय मैत्रेयो ऽस्य स्वयम्भूवः
समुत्पत्तिकथां वक्षे सर्वलोकाभिबोधने ।
पुरास्मिन् भद्रकल्पे ऽभूद् विपश्वी नाम सर्ववित्
जगछास्ता मुनीन्द्रो ऽर्हन् धर्म्मराजस्तथागतः ।
अशीति वर्ष साहस्र परमायूंषि यदा नृणां
तदाहं सत्य धर्म्माख्या बोधिसत्त्वाभवंत् किल ।
यदा स भगवाञ्छास्ता वन्धुमत्याः पुरो ऽन्तिके
विहारे धर्म्ममादिश्च विजहार ससांधिकः ।
तदाहं तं जगन्नाथमाराध्य समुपस्थितः
तदात्रा भूत्सप्तकोश व्यायामविस्तरो ह्रदः ।
तदनुशासनां धृत्वा प्राचरं बोधि सम्वरं
अष्टांग गुण सम्पन्नः जलाश्रयो नगावृतः ।
पद्मोत्पलादि सौगन्धि नाना पुष्प प्रशोभितः
हंस सारस काडम्ब प्रमुख पक्षिमण्डितः ।
तीरोपान्तनगारुह सर्वर्त्तु पुष्पितैर्द्रुमैः
फलौषधादि बृक्षैश्च समन्तात् परिमण्डितः ।
मीनकच्छपमण्डूकप्रमुख जलवासिनां
जन्तूनां निलयो ऽगाधः सर्वनागाधिपालयः ।
तत्र सर्वाहिराजेन्द्रः कर्क्कोटकाभिधो महान्
एवं तदा महा तीर्थः पुण्यामृताश्रयो वभौ ।
सदा त्रत्रिदशाः सद्धर्मप्सरोभिः प्रमोदिताः
स्नात्वा संक्रीडमानाः सत्सौख्यं भुक्त्वा दिवं ययुः ।
तथा ब्रह्मादयः सर्वे महर्षयस्तपश्विनः
स्नान संध्यादिकं कर्म्म कृत्वा संसेविरे सदा ।
एवं लोकाधिपाश्चापि स्नात्वात्र सर्वदा मुदा
स्वस्व कुले समभ्यर्च्य महोत्साहैर्निसेविरे ।
एवंमन्येपि लोकाश्च व्रतिनो ब्रह्मचारिणः
स्नात्वात्र संवरं धृत्वाः पूतात्मानो दिवं ययुः ।
बोधिसत्त्वा तथानैके स्नानदानव्रतं मुदा
कृत्वात्र विमलात्मानः समाचारञ्जगद्धिते ।
एवं सर्वे मुनीन्द्रैश्च स्नान व्रतादि बीजंफलं
महत्पुण्यतरं श्रेष्ठमाख्यातं बोधिसाधनं ।
यत्र स्नात्वा त्रिरत्नानां शरणे समुपाश्रिताः
बोधिचर्या व्रतं धृत्वा प्राचरन्त जगद्धिते ।
ते आशु विमलात्मानो भद्रश्रीसत्गुणान्विताः
बोधिसत्त्वाः महासत्त्वा वभूवुः सुगतात्मजाः ।
केचिन्निः क्लेशितात्मानो भवसंचारे निस्पृहाः
श्रावकबोधिसत्त्वमासाद्य बभूवु ब्रह्मचारिणः ।
केचिच्च निर्मलात्मानो संसारे विरताश्रयाः
प्रत्येकबोधिमासाद्य सुनिर्वृतिं समाययुः ।
केचित् संबोधिचित्तं च प्राप्य सद्धर्मलालसाः
बोधिचर्याव्रतं धृत्वा समाचरञ्जगद्धिते ।
केचित् सर्वे भुक्त्वा दिव्यकामसुखान्यपि
सद्धर्मगुणसंरक्ताः प्राचरन् सर्वदा शुभे ।
केचित् सर्वे महीपालाः सुनीति धर्मचारिणः
कृत्वा सत्त्वहितार्थानि ययुरन्ते जिनालयं ।
अहमपि तदा तत्र स्नात्वाचरं व्रतं सदा
एतत्पुण्यविशुद्धात्मा द्रुतं सम्बोधिमाप्तवान् ।
यैश्चाप्यस्य जलं पीतं ते ऽपि निर्मुक्तपातकाः
परिशुद्धाशया भद्रा बभूवु बोधिभागिनः ।
एवमसौ महातीर्थः सर्वैरपि मुनीश्वरैः
समधिष्ठापितो ऽद्यापि प्रशंसितो महीतले ।
तत्र पश्चात् स्वयं धर्मधातुरुत्पत्स्यते ध्रुवं
इत्यादिश्य मुनीन्द्रौ ऽसौ भूया एरेवं समादिशत् ।
तदा तत्र समुपन्ने धर्मधातौ जिनालये
निरुत्पातं शुभोत्साहं प्रवर्तिष्यति सर्वदा ।
सर्वे लोकाश्च तं दृष्ट्वा धर्मधातुं स्वयम्भूवं
श्रद्धया शरणं गत्वा प्रभजिष्यन्ति सर्वदा ।
तदेतत्पुण्यलिप्तास्ते सर्वे लोकाः शुभेन्द्रियाः
भद्रश्री सत्सुखं भुक्त्वा यास्यन्त्यन्ते जिनालयं ।
इत्यादिष्टं मुनीन्द्रेण विपश्विना निशम्यते
सर्वे सभाश्रिता लोकाः प्राभ्यनन्दन् प्रवोधिताः ।
इति विपश्विना शास्ता समादिष्टं श्रुतं मया
तथा युष्मत्प्रोधार्थ समाख्यातं प्रवुद्ध्यतां ।
इत्यादिष्टं मुनीन्द्रेण श्रीघनेन निशम्यते
मूल पाठ: Svayaṃbhupurāṇa · Edition: Min Bahadu Shakyar & Shanta Harsa Bajracharya (trans.). Svayambhu Purāṇa. Nepal: Nagarjuna Institute of Exact Methods, 2001. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0