Svacchandatantra · अध्याय 2
अथार्चनं प्रवक्ष्यामि यथावदनुपूर्वशः
शौचं कृत्वा ततः स्नानं कर्तव्यं तु मृदम्भसा ॥
शुचिस्थानान्मृदं पूर्वं गृहीत्वास्त्रेण शोधिताम्
प्रक्षाल्य जलतीरं तु स्थापयेत्तां वरानने ॥
भागद्वयं ततो ऽस्त्रेण कर्तव्यं तु कृशोदरि
भागार्धेन कटिं चोरू जङ्घे पादौ तथैव च ॥
क्षालयेत यथान्यायं त्रिरन्तरितयोगतः
अवशिष्टं तु भागार्धं गृहीत्वास्त्राभिमन्त्रितम् ॥
सप्तवारान्वरारोहे अर्कदीप्तं तु कारयेत्
शिरःप्रभृति पादान्तम् आगुष्ठ्य स्नानमाचरेत् ॥
उत्तीर्योदकमध्यात्तु उपस्पृश्य यथाक्रमम्
संध्याया वन्दनं कुर्याच् छास्त्रदृष्टेन कर्मणा ॥
मलस्नानं भवेदेवं विधिस्नानं प्रचक्ष्महे
भागार्धं यत्स्थितं पूर्वं ततो भागत्रयं कुरु ॥
वामहस्तस्य पूर्वे च दक्षिणे चोत्तरे क्रमात्
पूर्वभागं ततो ऽस्त्रेण सप्तवारांस्तु मन्त्रयेत् ॥
दक्षिणस्थं तथा वक्त्रैर् अभिमन्त्र्य वरानने
उत्तरं चाभिमन्त्र्यैवं देवेनाङ्गयुतेन च ॥
पूर्वभागं गृहीत्वा तु दशदिक्षु विनिक्षिपेत्
उत्तरेण तु भागेन जलं चैवाभिमन्त्रयेत् ॥
बाहुमात्रप्रमाणेन भैरवेशमनुस्मरन्
आत्मानं गुण्ठयित्वा तु दक्षभागेन सुव्रते ॥
स्नायाद्राजोपचारेण सुगन्धामलकादिभिः
प्राणायामाभिषेकौ तु कर्तव्यौ भैरवेण च ॥
उत्तीर्योदकमध्यात्तु तद्वासः परिवर्तयेत्
उपस्पृश्य कृतन्यासो मूलमन्त्रमनुस्मरन् ॥
तीर्थं संगृह्य देवेशि आत्मनो ऽग्रे निधापयेत्
तत्रस्थो वन्दयेत्संध्यां मार्जनादिरनुक्रमात् ॥
अघमर्षः प्रकर्तव्य उपस्थानं दिवाकरे
जपं कृत्वा निवेद्यैवं प्रणम्य च वरानने ॥
मन्त्राणां तर्पणं कृत्वा देवानामृषिभिः सह
सर्वेषां भूतसंघानां ततस्तीर्थं तु संहरेत् ॥
मूलमन्त्रमनुस्मृत्य भस्मस्नानमतः परम्
मलस्नानं प्रकर्तव्यं भावितेनान्तरात्मना ॥
परिवृत्त्य ततो वासः संध्यां प्रागिव वन्दयेत्
विधिस्नानं ततः कुर्याद् भैरवेशमनुस्मरन् ॥
शिरो वक्त्रं च हृद्गुह्यं पादान्तं च विभागशः
भैरवेणाङ्गयुक्तेन समुद्धूल्यं यथाक्रमम् ॥
अभिषेकं प्रकुर्वीत परं तत्त्वमनुस्मरन्
संध्याया वन्दनं कुर्याद् यथापूर्वं वरानने ॥
ततो यागगृहं गत्वा हस्तौ पादौ च क्षालयेत्
शिखां बद्ध्वा शिखां स्मृत्वा उपस्पृश्य विधानतः ॥
सकलीकृतदेहस्तु पुष्पमादाय सुव्रते
दिङ्मातृभ्यो नमस्कृत्य द्वारं संप्रोक्ष्य यत्नतः ॥
शिवाम्भसास्त्रमन्त्रेण विघ्नप्रोच्चाटनं भवेत्
द्वारशाखोर्ध्वतो देवं गणेशं च श्रियं तथा ॥
संपूज्य गन्धपुष्पाद्यैर् धूपादिभिरनुक्रमात्
अर्घ्यपाद्योपहारैश्च ततो द्वारस्य चोत्तरे ॥
नन्दिगङ्गे समभ्यर्च्य महाकालं च दक्षिणे
कालिन्दीं चैव संपूज्य यथानुक्रमयोगतः ॥
भैरवास्त्रं समुच्चार्य पुष्पं संगृह्य भावितः
सप्ताभिमन्त्रितं कृत्वा ज्वलदग्निशिखाकुलम् ॥
नाराचास्त्रप्रयोगेण प्रविशेद्गृहमध्यतः
निवारितं तेन सर्वं विघ्नजालमनन्तकम् ॥
ततो रक्षार्थमन्त्रं च दशदिक्षु विनिक्षिपेत्
मध्ये सम्पूज्य ब्रह्माणं गन्धैः पुष्पैरनुक्रमात् ॥
दक्षिणायां ततो मूर्तौ प्रणवासनसंस्थितः
उपविश्यासनं बद्ध्वा स्वभ्यस्तं वै पुरःस्थितम् ॥
गन्धदिग्धौ करौ कृत्वा अस्त्रेण परिशोधयेत्
कवचेनावगुण्ठ्यैतौ प्लावयेदमृतेन तु ॥
परां शक्तिं तु संक्षोभ्य ततो ऽनन्तं प्रकल्पयेत्
मूर्तिं न्यस्यानुवक्त्राणि स्वच्छन्दं परिकल्पयेत् ॥
अङ्गुष्ठादिकनिष्ठान्तं विन्यसेदङ्गपञ्चकम्
भैरवानपि संकल्प्य परं तत्त्वमनुस्मरेत् ॥
प्राणायामत्रयं कार्यं देहसंशुद्धिकारणम्
अशुद्धः स्वमरुद्रेच्यः शुद्धेनापूरयेत्तनुम् ॥
कुम्भकं रेचकं कृत्वा व्योम्न्यात्मानं निधापयेत्
खद्योतकनिभं सूक्ष्मं करणैस्तु विवर्जितम् ॥
कार्येणैव विहीनं च मायाप्रध्वस्तगोचरम्
शिवीकार्यस्तथात्मैव यथा भवति तच्छृणु ॥
परं भावं तु संगृह्य ततः शोष्या तनुः प्रिये
संहारेण यभिन्नेन रुद्रबीजयुतेन च ॥
तेनैव दहनं कार्यम् ऊर्ध्वाधो ऽग्नियुतेन च
अधो विष्णुसमायुक्तो वायुवर्णः सबिन्दुकः ॥
उत्पूयनकरो ह्येष प्लावने वारुणः स्मृतः
बिन्दुमस्तकसंभिन्नः शक्तिन्यासस्ततो भवेत् ॥
आनयेत्तं यथानीतं प्लावयेदमृतेन तु
मलप्रध्वस्तचैतन्यं कलाविद्यासमाश्रितम् ॥
रागेण रञ्जितात्मान कालेन कलितं तथा
नियत्या यमितं भूयः पुंभावेनोपबृंहितम् ॥
प्रधानाशयसंपन्नं गुणत्रयसमन्वितम्
बुद्धितत्त्वसमासीनम् अहङ्कारसमावृतम् ॥
मनसा बुद्धिकर्माक्षैस् तन्मात्रैः स्थूलभूतकैः
प्रणवेन तु सर्वं तच् छरीरोत्पत्तिकारणम् ॥
न्यसेत्क्रमेण देवेशि त्रिंशदेकं च संख्यया
षट्तत्त्वी त्वात्मसंबद्धा ज्ञातव्यात्र वरानने ॥
प्रधानावनिपर्यन्तं शरीरं च विनिर्मितम्
चतुर्विंशतितत्त्वानि चैतन्यरहितानि तु ॥
द्रष्टव्यानि वरारोहे पुरुषाधिष्ठितानि तु
सचेतनानि सर्वाणि ज्ञातव्यानि सदैव हि ॥
पञ्चविंशकमेतच्च प्राकृतं समुदाहृतम्
ततो मूर्तिं न्यसेद्देवि मूलमन्त्रसुलक्षितम् ॥
सकलं भैरवं न्यस्य द्वात्रिंशार्णं सुलोचने
मुखानि कल्पयेत्पश्चान् मूर्धादिचरणावधि ॥
वक्त्राणि कल्पयेत्पश्चाद् ऊर्ध्वं पूर्वं च दक्षिणम्
उत्तरं पश्चिमं चैव यथावत्प्रविभागशः ॥
कलाभेदं यथापूर्वं शोध्याध्वानं प्रकल्पयेत्
नवतत्त्वं त्रितत्त्वं च विद्याङ्गा लोचनत्रयम् ॥
वर्गातीतेन क्षुरिकाम् ऊर्ध्वाधो ऽग्निप्रदीपिताम्
षोडशान्तर्हता सा तु रक्षि"का विघ्ननाशिका ॥
नवकं कल्पयेत्पूर्वं मूर्ध्नि वक्त्रे च कण्ठके
हृदये नाभिदेशे च गुह्य ऊर्वोश्च जानुतः ॥
पादान्तं चैव विन्यस्य स्वध्यानगुणसंयुतम्
क्रियाज्ञाने तथेच्छा च दक्षे वामे च मध्यतः ॥
विद्याराजः स्मृतो ह्येष भैरवो मन्त्रनायकः
निष्कलं तु तथावाह्य अङ्गान्येवं यथाक्रमम् ॥
गन्धैर्धूपैस्तथा पुष्पैर् विविधैर्भक्ष्यभोजनैः
पूजयेद्देवदेवेशं मनसैव प्रकल्पितैः ॥
आत्मानं भैरवं ध्यात्वा ततो हृद्यागमाचरेत्
नाभौ कन्दं समारोप्य नालं तु द्वादशाङ्गुलम् ॥
हृदन्तं कल्पयेद्यावत् तत्र पद्मं विचिन्तयेत्
अष्टपत्रं महादीप्तं केसरालं सकर्णिकम् ॥
कन्दं शक्तिमयं तत्र नाले वै कण्टकास्तु ये
भुवनानि च तान्येव रुद्राणां वरवर्णिनि ॥
मायात्मको भवेद्ग्रन्थिर् अशुद्धाध्वव्यवस्थितः
विद्यापद्मं महादीप्तं कर्णिकाबीजराजितम् ॥
पुष्कराणि च देवेशि तत्र विद्येश्वराः स्मृताः
एवं ध्यात्वा महापद्मं सर्वदेवमयं शुभम् ॥
शक्तिन्यासो भवेत्पूर्वं कन्दं तु तदनन्तरम्
अङ्कुरं नालविन्यासम् अनन्तं परिकल्पयेत् ॥
तेजोमयं महाशुभ्रं स्फुरत्किरणभास्वरम्
धर्मं ज्ञानं च वैराग्यम् ऐश्वर्यं च क्रमान्न्यसेत् ॥
सितरक्तपीतकृष्णा आग्नेय्यादीशदिग्गताः
पादकाः सिंहरूपास्ते त्रिनेत्रा भीमविक्रमाः ॥
शिवशक्तिमया मन्त्रा न्यस्तव्या वीरविन्दते
अधर्माज्ञानावैराग्यम् अनैश्वर्यं च प्राग्दिशः ॥
उत्तरान्तं निवेश्यं तु गात्रकाः सितवर्णकाः
संधानकीलकाश्चैव अतसीपुष्पसंनिभाः ॥
वेदा युगाश्च ते चैव ज्ञातव्याः क्रमशः प्रिये
अधश्छादनमूर्ध्वं च रक्तं शुक्लं विचिन्तयेत् ॥
मध्ये तमो विजानीयाद् गुणास्त्वेते व्यवस्थिताः
सितं पद्मं विजानीयात् केसराणि विचिन्तयेत् ॥
सितरक्तप्रपीतानि मूलमध्याग्रदेशतः
कर्णिका हेमसंकाशा बीजानि हरितानि तु ॥
वामां पूर्वदले न्यस्य ज्येष्ठां वह्निदलाश्रिताम्
रौद्रीं दक्षिणपत्रे तु कालीं नैरृतगोचरे ॥
कलविकरणीं देवीं विन्यस्येद्वारुणे दले
बलविकरणीं देवीं वायव्यदलमाश्रिताम् ॥
बलप्रमथनीं देवीम् उत्तरे विनियोजयेत्
सर्वभूतदमनीं च ऐशान्यां विनियोजयेत् ॥
मध्ये मनोन्मनीं देवीं कर्णिकायां निवेशयेत्
शक्रचापनिभं देवि ध्यातव्यं शक्तिमण्डलम् ॥
मध्ये सूर्यसहस्राभां चिन्तयेत्तु मनोन्मनीम्
सूर्याध्वमण्डलं पत्रे सोमं संयोज्य केसरे ॥
वह्निमण्डलकं देवि कर्णिकायां निवेशयेत्
ब्रह्मा विष्णुर्हरश्चैव मण्डलेष्वधिपाः स्मृताः ॥
ब्रह्मा चतुर्मुखो रक्तश् चतुर्बाहुविभूषितः
कृष्णाजिनोत्तरीयश्च राजीवासनसंस्थितः ॥
कमण्डलुधरो देवि दण्डहस्तस्तथैव च
अक्षमालाधरो देवः पद्महस्तः सुलोचनः ॥
ध्यात्वा पत्रेषु तं न्यस्येत् सर्वकिल्विषनाशनम्
अतसीपुष्पसंकाशं शङ्खचक्रगदाधरम् ॥
पीताम्बरधरं देवं वनमालाविभूषितम्
स्फुरन्मुकुटमाणिक्यं किङ्किणीजालमण्डितम् ॥
दिव्यकुण्डलधर्तारं गरुडासनसंस्थितम्
ध्यात्वा विष्णुं महात्मानं केसरेषु निवेशयेत् ॥
शङ्खकुन्देन्दुधवलं शूलहस्तं त्रिलोचनम्
दशबाहुं विशालाक्षं नागयज्ञोपवीतिनम् ॥
सिंहचर्मपरीधानं शशाङ्ककृतभूषणम्
नीलकण्ठं वृषारूढं रुद्रं ध्यात्वा वरानने ॥
निवेशयेत्कर्णिकायां महापातकनाशनम्
महाप्रेतं न्यसेत्पश्चात् प्रहसन्तं सचेतनम् ॥
रक्तवर्णं सुतेजस्कं नेत्रत्रयविभूषितम्
प्रणवेन न्यसेत्सर्वम् आसनं भैरवस्य तु ॥
गन्धैः पुष्पैः समभ्यर्च्य ततो मूर्तिं प्रकल्पयेत्
कदम्बकुसुमाकारां तुषारकिरणत्विषम् ॥
मूर्त्यूर्ध्वे भैरवं देवं सकलं परिकल्पयेत्
द्वात्रिंशद्वर्णकचितं स्फुरत्तडिदिवोज्ज्वलम् ॥
वक्त्राणि कल्पयेद्देवि स्वध्यानेन महेश्वरि
मूर्धादिचरणं यावत् प्रणवादिनमोन्ततः ॥
अष्टात्रिंशत्कलाभेदं शोध्याध्वानं प्रकल्पयेत्
नवतत्त्वं त्रितत्त्वं च नवकं भैरवाभिधम् ॥
विद्याङ्गा लोचनं चैव क्षुरिकां च प्रकल्पयेत्
शक्तित्रयं ततो न्यस्येद् दक्षदिग्वामगोचरे ॥
मध्यप्रदेशे देवेशि ततो रूपमनुस्मरेत्
त्रिपञ्चनयनं देवं जटामुकुटमण्डितम् ॥
चन्द्रकोटिप्रतीकाशां चन्द्रार्धकृतशेखरम्
पञ्चवक्त्रं विशालाक्षं सर्पगोनासमण्डितम् ॥
वृश्चिकैरग्निवर्णाभैर् हारेण तु विराजितम्
कपालमालाभरणं खड्गखेटकधारिणम् ॥
पाशाङ्कुशधरं देवं शरहस्तं पिनाकिनम्
वरदाभयहस्तं च मुण्डखट्वाङ्गधारिणम् ॥
वीणाडमरुहस्तं च घण्टाहस्तं त्रिशूलिनम्
वज्रदण्डकृताटोपं परश्वायुधहस्तकम् ॥
मुद्गरेण विचित्रेण वर्तुलेन विराजितम्
सिंहचर्मपरीधानं गजचर्मोत्तरीयकम् ॥
अष्टादशभुजं देवं नीलकण्ठं सुतेजसम्
ऊर्ध्ववक्त्रं महेशानि स्फटिकाभं विचिन्तयेत् ॥
आपीतं पूर्ववक्त्रं तु नीलोत्पलदलप्रभम्
दक्षिणं तु विजानीयाद् वामं चैव विचिन्तयेत् ॥
दाडिमीकुसुमप्रख्यं कुङ्कुमोदकसंनिभम्
चन्द्रार्बुदप्रतीकाशं पश्चिमं तु विचिन्तयेत् ॥
स्वच्छन्दभैरवं देवं सर्वकामफलप्रदम्
ध्यायते यस्तु युक्तात्मा क्षिप्रं सिध्यति मानवः ॥
ततः परमबीजेन परं परमकारणम्
सुशान्तं निष्कलं देवं सर्वव्यापिनिरञ्जनम् ॥
आवाहयेत्सुहृष्टात्मा तव देवि वदाम्यहम्
हृत्कण्ठतालुभ्रूमध्य नादान्तान्तसमाश्रितम् ॥
निष्कम्पं कारणातीतम् आवाह्य परमेश्वरम्
संस्थाप्य विधिवद्देवम् अङ्गषट्कं ततो न्यसेत् ॥
पाद्यमाचमनं चार्घं स्वागतं तदनन्तरम्
संनिधानं च देवेशि निष्ठुरया निरोधयेत् ॥
गन्धैः पुष्पैस्तथा धूपैर् धूपयित्वा तमर्चयेत्
मुद्रां प्रदर्शयेत्पश्चात् त्रिधा त्रैकाल्यकर्मणि ॥
ततः स्नानादिकं कर्म कृत्वा चैव वरानने
परिधाप्य सुवस्त्राणि नेत्रपट्टोद्भवानि च ॥
विलिप्यागुरुकर्पूरैर् मुकुटाद्यैर्विभूषयेत्
पुष्पैर्नानाविधैः शुभ्रैर् अर्चयेद्भूषयेत्पुनः ॥
अर्घं दत्त्वा महेशानि पुनर्मुद्रां प्रदर्शयेत्
प्रणम्य भैरवं देवं स्वच्छन्दं विश्वनायकम् ॥
ततो ह्याभरणं बाह्ये विनिवेश्यं वरानने
ऐशान्यां पूर्वतो याम्यां उत्तराप्यावसानकम् ॥
विन्यसेत्पञ्च वक्त्राणि पञ्चवक्त्रयुतानि च
बाहुभिर्दशभिश्चैव शशाङ्कमुकुटैः सह ॥
ध्यातव्यानि स्वरूपाणि वराभयकराणि तु
अग्नीशरक्षोवायव्य चतुर्दिक्षु च तं न्यसेत् ॥
हृच्छिरश्च शिखा वर्म अस्त्रं च प्रविभागशः
हृदयं रक्तवर्णाभं शिरो गोरोचनप्रभम् ॥
तडिद्वलयसंकाशां शिखां देवीं विचिन्तयेत्
आधूम्रं कवचं विद्यात् कपिशं चास्त्रमेव च ॥
ज्योतीरूपप्रतीकाशं नेत्रं मध्ये च संस्थितम्
पञ्चवक्त्राः स्मृताः सर्वे दशबाह्विन्दुभूषिताः ॥
नानाभरणसंयुक्ता नानास्रग्गन्धलेपनाः
नानावस्त्रपरीधाना मुकुटैरुज्ज्वलैः शुभैः ॥
रत्नमालावनद्धाश्च हारकेयूरभूषिताः
द्विरष्टवर्षकाकाराः सुरूपाः स्थिरयौवनाः ॥
भैरवाद्याः स्मृता मन्त्राः पीठेशाः पीठमर्दकाः
या सा पूर्वं मया ख्याता अघोरी शक्तिरुत्तमा ॥
भैरवं पूजयित्वा तु तस्योत्सङ्गे तु तां न्यसेत्
यादृशं भैरवं रूपं भैरव्यास्तादृगेव हि ॥
ईषत्करालवदनां गम्भीरविपुलस्वनाम्
प्रसन्नास्यां सदा ध्यायेद् भैरवीं विस्मितेक्षणाम् ॥
द्वितीयावरणे देवि विन्यसेद्भैरवाष्टकम्
कपालीशं तु पूर्वायाम् आग्नेय्यां शिखिवाहनम् ॥
दक्षिणे क्रोधराजं तु विकरालं तु नैरृते
मन्मथं पश्चिमे भागे मेघनादेश्वरं तथा ॥
वायव्ये देवि विन्यस्य सोमराजं तथोत्तरे
विद्याराजं तथैशान्यां विन्यसेत्तु सुभावितः ॥
पञ्चवक्त्रास्त्रिनेत्राश्च दशबाह्विन्दुशेखराः
कपालमालाभरणाः स्फुरन्माणिक्यमण्डिताः ॥
पूर्वं पीतं स्मृतं देवि रक्तमाग्रेयगोचरे
दक्षिणे नीलमेघाभं नैरृत्यां ज्वलनप्रभम् ॥
श्यामं चापरदिग्भागे धूम्रं वायव्यगोचरे
चन्द्रबिम्बप्रभं सौम्ये ईशाने स्फटिकप्रभम् ॥
तृतीये चैव लोकेशान् सास्त्रान्संपरिकल्पयेत्
नामानि तेषां वक्ष्यामि यथावदनुपूर्वशः ॥
इन्द्राग्नियमनिरृति वरुणाश्च समीरणः
सोमराजः कुबेरश्च ईशानः परमेश्वरः ॥
भैरवाष्टकरूपेण ध्यातव्यास्तु वरानने
वज्रं शक्तिस्तथा दण्डः खड्गः पाशस्तथैव च ॥
ध्वजो गदा त्रिशूलं च लोकपालयुधानि वै
वज्रं चानेकवर्णाढ्यं शक्तिं हेमसमप्रभाम् ॥
दण्डं भिन्नाञ्जनाभं च खड्गं नीलोत्पलप्रभम्
किंशुकाभं तथा पाशं ध्वजं शुक्लं विचिन्तयेत् ॥
गदां तु विद्रुमाभां वै शूलं विद्युत्समप्रभम्
संपूज्यावरणं सर्वं संधानं मन्त्रनायके ॥
अस्त्राणि लोकपालाश्च भैरवाष्टकमेव च
पञ्च ब्रह्मान्यथाङ्गानि एतान्यावरणानि तु ॥
क्रमेणोच्चारयेत्सर्वं यावत्तद्गर्भमैश्वरम्
मूलमन्त्रेण कर्तव्यं नाडीसंधानमेव च ॥
परान्तं यावदाभाव्य नैवेद्यानि निवेदयेत्
घारिका वटकांश्चैव शष्कुलीर्मोदकांस्तथा ॥
खण्डलड्डुशरावाणि भक्ष्याणि विविधानि च
शाल्योदनं मुद्गसूपम् आज्याक्तं संप्रकल्पयेत् ॥
कौशल्यां मण्डकापूपांस् तथा क्षौद्रशिरांसि च
घृताक्तांश्चिल्लकांश्चैव लवणान्परिकल्पयेत् ॥
अवदंशान्यनेकानि कटूनि मधुराणि च
रसालां च दधि क्षीरम् आसवं विविधं तथा ॥
मत्स्यमांसान्यनेकानि लेह्यपेयानि यानि च
अग्रमापूरयेच्छंभोर् वित्तशाठ्यविवर्जितः ॥
पश्चादर्घः प्रदातव्यः सुरया सुसुगन्धया
मुद्रां प्रदर्शयेत्पश्चात् त्रिधा त्रैकाल्यकर्मणि ॥
प्रणिपातं ततः कृत्वा जपं पश्चात्समाचरेत्
अक्षमालां तु संगृह्य गन्धैः पुष्पैः समर्चिताम् ॥
वाङ्निरुद्वः सुचित्तात्मा राजीवासनसंस्थितः
मूलमन्त्रं समुच्चार्य नादे लीनं विचिन्तयेत् ॥
उन्मील्याक्षाणि संचिन्त्य ततस्तु जपमारभेत्
अक्षराक्षरसन्तानं न द्रुतं न विलम्बितम् ॥
जपः प्राणसमः कार्यः दिनस्थो मुक्तिकाङ्क्षिभिः
संहारः स तु विज्ञेयः शिवधामफलप्रदः ॥
व्योम्नि प्राप्तो यदा नादः पुनरेव निवर्तते
शर्वरी सा तु विज्ञेया हृदब्जं यावदागतः ॥
सृष्टिरेषा समाख्याता सर्वसिद्धिफलोदया
आत्मनो भैरवं रूपं सदा भाव्यं वरानने ॥
तस्य विघ्ना विनश्यन्ति जपश्च सफलो भवेत्
जप्त्वा निवेदयेद्देवि भैरवाय वरानने ॥
पूरकेण प्रयोगेण त्रिस्थं च त्रितयान्वितम्
त्रिसिद्धिसिद्धिदं देवि सरहस्यमुदाहृतम् ॥
शान्तिके मानसो जप्य उपांशुः पौष्टिके स्मृतः
सशब्दश्चाभिचारे ऽसौ प्रागुदग्दक्षिणामुखः ॥
आत्मा न शृणुते यं तु मानसो ऽसौ प्रकीर्तितः
आत्मना श्रूयते यस्तु तमुपांशुं विजानते ॥
परे शृण्वन्ति यं देवि सशब्दः स उदाहृतः
अष्टोत्तरशतेनैव अक्षमाला समेरुका ॥
रुद्राक्षशङ्खपद्माक्ष पुत्रजीवकमौक्तिकैः
स्फाटिकी मणिरत्नोत्था सौवर्णी वैद्रुमी तथा ॥
दशाक्षमाला देवेशि गृहस्थानां प्रकीर्तिताः
सूत्रं ध्यात्वा परां शक्तिम् अध्वभागांस्ततो मणीन् ॥
व्यक्तिस्थानं शिवस्याध्वा ततस्तद्धर्मिणीं स्मरेत्
सप्तविंशतिभिः कुर्याद् द्विगुणैर्वा चतुर्गुणैः ॥
समैस्तु संहतैरेकं शिवतत्त्वात्मकं मुखे
न तं विलङ्घयेद्विद्वान् सृष्टिसंहारकारणम् ॥
वीरस्थानरतानां हि वीराणां वरवर्णिनि
महाशङ्खाक्षसूत्रं तु सर्वकामफलप्रदम् ॥
गृहस्थेन न कर्तव्यम् उद्वेगजननं परम्
तस्मात्तु स्फाटिकी माला जप्तव्या साधकोत्तमैः ॥
साधयेद्विविधान्कामान् अधमान्मध्यमोत्तमान्
एवं हृदम्बुजावस्थो यष्टव्यो भैरवो विभुः ॥
सबाह्याभ्यन्तरं कृत्वा पश्चाद्यजनमारभेत्
तत्रार्घपात्रमादौ वै सौवर्णं राजतं तथा ॥
शाङ्खं शाम्बूकं शौक्तं वा ताम्रं मृण्मयमेव वा
पद्मपत्रपलाशोत्थं गृहीत्वा क्षाल्य वारिणा ॥
अस्त्रजप्तेन देवेशि प्रलिप्यागुरुचन्दनैः
मृष्टधूपेन संधूप्य वारिणापूरयेत्ततः ॥
वस्त्रपूतेन शुद्धेन ताडयेदस्त्रमुच्चरन्
वर्मावगुण्ठितं कृत्वा यागं तत्रैव विन्यसेत् ॥
पूर्वोक्तेन विधानेन प्रोक्ष्यस्तेन समासतः
यागार्थो द्रव्यसंघातः ततो यजनमारभेत् ॥
शक्तिं न्यस्य ततश्चादौ व्योमाकारां सुजाज्वलाम्
सकलव्यापिकां सूक्ष्मां शिवाधारां तु सर्वगाम् ॥
ओंकारदीपितां देवीं नमस्कारावसानिकाम्
अनन्तं चैव विन्यस्य धर्मं ज्ञानं तथैव च ॥
वैराग्यं च तथैश्वर्यम् आग्नेय्यादिक्रमेण तु
अधर्मं च तथाज्ञानम् अवैराग्यमनैश्वरम् ॥
संधानकीलकांश्चैव अधश्छादनमूर्ध्वगम्
पद्मं सकेसरं देवि कर्णिकां पुष्कराणि च ॥
मण्डलत्रितयं देवाञ् शक्तीश्चापि शिवान्तकम्
मूर्तिं ब्रह्मकलाजालं नवतत्त्वं त्रितत्त्वकम् ॥
भैरवाष्टकविद्याङ्ग लोचनं क्षुरिकां तथा
शक्तित्रयं परं देवम् अङ्गषट्कसमन्वितम् ॥
विन्यस्य भावयेद्देवि सततं विधिपूर्वकम्
निर्वर्त्य तु यथान्यायं प्रहृष्टेनान्तरात्मना ॥
स्वागतं चार्ध्यपाद्यं च सन्निधानं तथैव च
रोधं निष्ठुरया कुर्यान् मूलमन्त्रमनुस्मरन् ॥
पूजा सुविपुला कार्या गन्धधूपस्रगादिभिः
मुद्रां प्रदर्शयेत्पश्चात् त्रिधा त्रैकाल्यकर्मणि ॥
तत आवरणं बाह्ये विनिवेश्यं वरानने
ईशपूर्वयाम्यसौम्य वरुणान्तं प्रकल्पयेत् ॥
वक्त्राणां पञ्चकं देवि स्वध्यानगुणसंयुतम्
आग्नेयैशानरक्षःसु सामीरैन्द्रदिशोरपि ॥
उत्तरान्तं निवेश्यं तु अङ्गानां पञ्चकं तथा
नेत्रं तु कर्णिकायां वै पूर्वस्यां दिशि संस्थितम् ॥
स्वमन्त्रेण तु सर्वेषाम् अर्ध्यं पाद्यं समाहितः
मन्त्रसंकरपुष्पाणि न कुर्यात्साधकः सदा ॥
न बाहुं पृष्ठतो वापि मन्त्राणां परिकल्पयेत्
परिपाट्या तु दातव्यं न मन्त्रांल्लङ्घयेत्क्वचित् ॥
स्वमुद्रामन्त्रसंयुक्तान् युगपत्परिकल्पयेत्
अर्ध्यं पाद्यं च धूपं च नित्यं तावत्समाचरेत् ॥
सर्वेषामेव मन्त्राणां विधिरेष प्रकीर्तितः
भैरवाष्टकलोकेशान् सास्त्रान्संपरिकल्पयेत् ॥
बाह्ये श्मशानविन्यासं प्रणवादिनमोन्तगम्
पूर्वादीशानपर्यन्तं कल्पयेत विधानतः ॥
आमर्दकं च पूर्वं वै श्मशानाधिपतिं विभुम्
श्मशानैः सकबन्धैश्च सशूलोद्बन्धभीषणैः ॥
चितिभिः प्रज्वलन्तीभिः शिवारावैः सुभीषणैः
अग्निकं दक्षिणे भागे कालाख्यं पश्चिमे तथा ॥
एकपादं तथा सौम्ये आग्नेय्यां त्रिपुरान्तकम्
नैरृत्यामग्निजिह्वं तु वायव्यां तु करालिनम् ॥
ऐशान्यां भीमवक्त्रं तु श्मशानेशाः प्रकीर्तिताः
तर्पयेन्मत्स्यमांसाद्यैर् आसवैर्विविधैस्तथा ॥
गन्धं पुष्पं तथा धूपं सर्वेषां तु प्रदापयेत्
प्रणिपातं ततः कृत्वा जप्त्वा मन्त्रं सुभावितः ॥
रेचकेन प्रयोगेन निवेद्य विधिपूर्वकम्
हुड्डुङ्कारनमस्कारान् कृत्वा चैव ततो व्रजेत् ॥
अग्निकुण्डसमीपं तु अर्घहस्तः सुभावितः
कुण्डं तु लक्षणोपेतं प्रोक्षयेदस्त्रवारिणा ॥
कवचेनावगुण्ठ्यैतद् अस्त्रदर्भेण चोल्लिखेत्
उद्धृत्य प्रोक्षयेत्पश्चाद् अस्त्रमन्त्रेण भामिनि ॥
पूरणं तेन कर्तव्यं समीकरणमेव च
सेचनं कुट्टनं चैव लेपनं तेन कारयेत् ॥
प्रोक्षणं शोषणं चैव तथास्त्रेणैव कारयेत्
पूजनं गन्धपुष्पाद्यैः असिना चाभिमन्त्रणम् ॥
वज्रीकरणमस्त्रेण रेखाः पूर्वापरास्त्रयः
याम्यसौम्यमुखी चैका वज्रमेतत्प्रकीर्तितम् ॥
वज्रीकरणमस्त्रेण रेखास्तिस्रस्तु पूर्वगाः
याम्यसौम्यमुखा त्वेका वज्रमेतत्प्रकीर्तितम् ॥
असिनैवाग्निकुण्डं तद् दर्भैः पूर्वाग्रसंस्तरैः
सबाह्याभ्यन्तरं छाद्यं गृहहेत्वर्थमीश्वरि ॥
कुण्डस्य दक्षिणे भागे शुष्कगोमयमासनम्
दर्भेण विष्टरं पुष्पं प्रणवेन प्रकल्पयेत् ॥
स्वनामपदसंयुक्तं स्वध्यानेन नमोन्तगम्
आमन्त्रणपदेनैव ब्रह्माणं स्थाप्य पूजयेत् ॥
पुष्पादिभिः सुधूपाद्यैर् ध्रुवेण तु यथाक्रमम्
चतुष्पथं कुण्डमध्ये दर्भाभ्यां प्रणवेन तु ॥
पूर्वसौभ्याग्रभागाभ्यां विष्टरं तस्य चोपरि
पुष्पं तस्योपरिष्टात्तु हृदयेनैव पूजयेत् ॥
वागीशीं च समाहूय प्रणवादिनमोन्तगाम्
नीलोत्पलदलश्यामाम् ऋतुमच्चारुलोचनाम् ॥
सर्वलक्षणसंपूर्णां सर्वावयवभूषिताम्
ध्यात्वा चैवंविधां देवीं स्थापयेत्कुण्डमध्यतः ॥
ऋतुकाल इवोत्तानां शिरसैशानसंस्थिताम्
पूजयेद्गंधपुष्पाद्यैर् भवमन्त्रमनुस्मरन् ॥
ततो मुद्रां दर्शयेत संनिधानाय मन्त्रवित्
ततो ऽग्निपात्रमादाय शिवाम्भो ऽस्त्रेण प्रोक्षयेत् ॥
कवचेनावगुण्ठ्यापि प्रणवेनैव पूजयेत्
अरण्यादिसमुद्भूतं लोकाग्न्यन्तं विधानतः ॥
अग्निं तु शुक्रवद्ध्यात्वा चैतन्यं प्रणवेन तु
षडङ्गेनैव संपूज्य अमृतत्वं ध्रुवेण तु ॥
आत्मानं भैरवं ध्यात्वा अग्निं ध्यात्वा तु बीजवत्
ध्रुवेण कुण्डबाह्ये तु त्रिधाभ्राम्यावतारयेत् ॥
योनौ तु बीजवत्क्षिप्त्वा भैरवेण शिवाम्भसा
अस्त्रमुच्चार्य संप्रोक्ष्य योनिं प्रच्छादयेद्बुधः ॥
दर्भेण ध्रुवमन्त्रेण अक्षवाटं ततो न्यसेत्
अस्त्रेणैव चतुर्दिक्षु दर्भैरेव प्रकल्पयेत् ॥
सप्तवारास्त्रमन्त्रेण दर्भेणैव तु कङ्कणम्
दक्षहस्ते तु बध्नीयाद् अस्त्रमन्त्रमनुस्मरन् ॥
रक्षार्थमग्निगर्भस्य गर्भाधानमतो भवेत्
अपरास्यत्रिराहुत्या पूजनं हृदयेन तु ॥
हृदा त्रिराहुतिं दत्त्वा गर्भाधानं कृतं भवेत्
हृदा वै जलबिन्दुं तु दर्भाग्रेणात्र पातयेत् ॥
गन्धपुष्पादिभिः पूजां शिखया कारयेत् ततः
त्रिराहुतिं चोत्तरेण शिखया च त्रिराहुतिम् ॥
पुंसः कल्पनमेवं हि न स्त्री गर्भे तु जन्यते
सीमन्तं दक्षिणास्येन दर्भाग्रेण प्रकल्पयेत् ॥
ग्रीवामंसौ कटिं चैव बाहू जङ्घे प्रकल्पयेत्
प्रत्यङ्गानि च संकल्प्य सीमन्तोन्नयनं भवेत् ॥
गन्धपुष्पादिभिः पूजा शिरसा चाहुतित्रयात्
पूर्वमध्यापरान्वह्नौ त्रीन्भागान्परिकल्पयेत् ॥
मुखहृत्पाददेशांस्तु होमात्तच्च त्रितत्त्वकम्
शिरांसि पञ्चाहुत्यैव ऊर्ध्वास्येन त्रिभिस्त्रिभिः ॥
पञ्चवक्त्रं तु संकल्प्य मध्यप्राग्याम्यसौम्यकम्
अपरं चाप्याहुतिभिः पूर्वास्येन त्रिसंख्यया ॥
वक्त्राणां निष्कृतिं तद्वद् आहुतीनां त्रिसंख्यया
नेत्रं नेत्रेण संकल्प्य मुखेष्वेवं त्रयं त्रयम् ॥
आहुतित्रितयेनैव तिलैः सर्वं तु कारयेत्
ततः कलासमूहं च पञ्च चाथ चतुष्टयम् ॥
अष्टाङ्गानि तथा त्रीणि दश चाष्टावनुक्रमात्
शेषास्यैः संप्रकल्प्यैवं कलामूर्तिस्ततो भवेत् ॥
अङ्गानि विन्यसेत्पश्चात् हृदाद्यानि यथाक्रमम्
त्रिराहुतिं दक्षिणेन शिरसा चाहुतित्रयम् ॥
सीमन्तोन्नयनं ह्येवं जातकर्म त्वथोच्यते
अस्त्रेण वीजयेदग्निम् अस्त्रेणैव तु पूजयेत् ॥
त्रिराहुतिं तु पूर्वेण अस्त्रेणैवाहुतित्रयम्
एवं मन्त्रद्वयेनैव जातकर्म कृतं भवेत् ॥
अस्त्रेण प्रोक्षयेत्कुण्डं सद्यः सूतकशुद्धये
वक्त्राण्युद्धाटयेत्पश्चाद् वक्त्रेणैवाहुतित्रयात्
वक्त्राणि शोध्यान्यसिना आहुतित्रययोगतः ॥
वक्त्राभिघारो वक्त्रैस्तु वक्त्रे वक्त्रे त्रयं त्रयम्
प्रोक्षयेत्कुण्डपार्श्वानि सास्त्रेणैव शिवाम्भसा ॥
दर्भानास्तीर्य पूर्वाग्रान् दक्षिणोत्तरसंस्थितान्
सौम्याग्रान्पूर्ववारुण्योः परिधीन्विष्टरांस्तथा ॥
अस्त्रमन्त्रेण ते सर्वे ब्रह्माणं पूर्वविष्टरे
रुद्र च दक्षिणे स्थाप्य विष्णुं पश्चिमविष्टरे ॥
सदाशिवं चोत्तरे ऽथ स्वनामपदचिह्नितम्
आदौ ध्रुवं स्मरेद्देवि नमश्चान्ते प्रकल्पयेत् ॥
गन्धपुष्पादिभिः पूज्याः स्वरूपं तेष्वनुस्मरेत्
मेखलोपरि लोकेशान् पूजयेत्प्रणवेन तु ॥
रक्षार्थं जातबालस्य ब्रह्माद्याः पूजितास्तु ये
ततः कङ्कणकं मुक्त्वा दक्षहस्तव्यवस्थितम् ॥
पुष्पं संगृह्य देवेन शिवाग्नेर्नाम कल्पयेत्
कवचेनोपचारं तु गन्धपुष्पादिधूपकैः ॥
ऊर्ध्वास्येनाहुतीस्तिस्रः कवचेन त्रयं पुनः
शिवनामाङ्कितं वह्निं जनयित्वा सुरांस्ततः ॥
विसर्जयेत्तु स्वस्थानं सावित्रीं प्रणवेन तु
पुष्पादिभिः समभ्यर्च्य होमैरेव त्रिभिस्त्रिभिः ॥
धाम्नैवेध्मास्तु होतव्या हस्तमात्रप्रमाणतः
चतुर्विंशतिसंख्याताः शिवाग्नेस्तर्पणाय तु ॥
स्रुक्स्त्रुवौ संप्रताप्याग्नौ शिवाम्भो ऽस्त्रेण प्रोक्षयेत्
कवचेनावगुण्ठ्यैतौ शिवाग्नौ भ्रामयेत्त्रिधा ॥
अस्त्रेण मार्जयेदद्भिर् दर्भाग्रेणाथ संस्पृशेत्
पुनरग्नौ परिभ्राम्य प्रोक्षयेत्तौ शिवाम्भसा ॥
दर्भमध्येन संस्पृश्य भूयो ऽग्नौ भ्राम्य तापयेत्
शिवाम्भसा मार्जयित्वा दर्भमूलेन संस्पृशेत् ॥
स्रुक्स्रुवाभ्यां ततो मूलं स्थापयेत्तावधोमुखौ
दर्भाणां पृष्ठतः पूज्यौ दक्षिणे ऽग्नेः सदा बुधैः ॥
आज्यसंस्करणं कुर्याद् आज्याधिश्रयणादिकम्
आज्यं संप्रोक्ष्य चास्त्रेण कवचेनावगुण्ठयेत् ॥
शिवाग्नौ ताप्यमस्त्रेण उद्वास्यं कवचेन तु
कुण्डस्य परितो देवि त्रिधा भ्राम्य तु स्थापयेत् ॥
योनिसंस्थं चाज्यपात्रं उद्प्लवं संप्लवं ततः
दर्भाग्रद्वयमादाय प्रादेशं मध्यग्रन्थितम् ॥
पवैत्रमेतद्विहितम् उत्प्लवं तेन संप्लवम्
अङ्गुष्ठानामिकाभ्यां तु गृहीत्वैतत्पवित्रकम् ॥
पराङ्मुखं तु त्रीन्वारान् संमुखं त्रींस्तथैव च
अस्त्रेणैव तु मन्त्रेण अवद्योतः शिवाग्निना ॥
दर्भोल्मुकं तु संगृह्य आज्यपात्रं निरीक्षयेत्
नीराजनं ततः कुर्यात् पर्यग्निकरणं ततः ॥
धाम्नास्त्रमन्त्रमुच्चार्य तमग्नावुल्मुकं क्षिपेत्
धाम्नैव विधिना मन्त्री प्रोक्षयेदस्त्रवारिणा ॥
अभिमन्त्र्य षडङ्गेन अमृतत्वं शिवेन तु
सकृदुच्चारयोगेन पूजयेद्भैरवेण तु ॥
वक्त्रसंधानकं वक्त्रैर् आहुतित्रितयेन तु
अपरास्येन तद्वक्त्र संधानं तु समाचरेत् ॥
एवं सौम्यस्य वक्त्रस्य संधानं तु कृतं भवेत्
त्रिराहुतिप्रयोगेण दक्षिणस्याप्ययं विधिः ॥
पूर्ववक्त्रे ऽप्यथैवं स्याद् ऊर्ध्ववक्त्रं शिवान्वितम्
त्रिराहुतिप्रयोगेण वक्त्रसंधिः प्रकीर्तितः ॥
मुख्यमूर्ध्वं स्मृतं वक्त्रं गुणत्वमितरेषु तु
मुक्तिकामस्य दीक्षायाम् ऊर्ध्ववक्त्रस्य मुख्यता ॥
पादलेपाञ्जनाद्या वै सिद्धीस्तु विविधाश्च याः
सदाशिवान्तगाः सर्वाः पूर्ववक्त्रे तु होमयेत् ॥
मारणोच्चाटनादौ तु विद्वेषे स्तम्भने तथा
दक्षिणे चैव वक्त्रे तु होमात्सिद्धिः परा भवेत् ॥
शान्तिकं पौष्टिकं चैव सौभाग्याकर्षणानि च
सौभाग्यारोहसिद्धिं तु उत्तरे होमयेत्सदा ॥
पश्चिमे नित्यकर्माणि विनियोगः प्रकीर्तितः
आज्यभागो हि होतव्य ऊर्ध्ववक्त्रे तु पश्चिमे ॥
आज्यपात्रस्य मध्ये तु दर्भो वै भैरवेण तु
न्यसितव्यो वरारोहे ततो वै वर्त्मकल्पना ॥
उच्चार्य भैरवं पात्रे संपातं पात्य वर्त्मना
नाडीत्रयेण युगपत् पात्रे भागत्रयं न्यसेत् ॥
सुषुम्नां मध्यमार्गस्थां दक्षे पिङ्गां प्रकल्पयेत्
इडाभागे तु यत्तेजो वामे सौम्यं प्रकल्पयेत् ॥
एवं त्रिभागं संकल्प्य स्रुवमापूर्य होमयेत्
भैरवेणैव मन्त्रेणा ग्नये स्वाहान्तमेव च ॥
अग्निभागात्तु संगृह्य स्रुवेणाज्याहुतिं क्षिपेत्
सोमभागस्तु सोमाय स्वाहेत्यन्ते समुच्चरन् ॥
धामादिप्रणवाद्यं च स्रुवेणाज्याहुतिं क्षिपेत्
अग्नीषोमेति संज्ञे द्वे स्वाहान्ते धाम चादितः ॥
प्रणवाद्याज्यमध्यात्तु स्रुवमापूर्य होमयेत्
शुक्लपक्षे विधिर्ह्येष कृष्णपक्षे ऽन्यथा भवेत् ॥
सोमभागे भवेत्सूर्यो ह्य् अग्निसंज्ञा तु पूर्ववत्
अग्नेः सूर्यस्य मध्याद्वै आहुतिं प्रतिपादयेत् ॥
यतः सूर्यस्य मध्ये वै अमावस्यां विशेच्छशी
प्राशनार्थमतो होमो वक्त्राणां भैरवेण तु ॥
चूडाद्या ये तु संस्कारा अग्नेर्बालान्तसंस्थिताः
प्रापणार्थाय सर्वेषां पूर्णामेकां प्रदापयेत् ॥
भैरवं तु समुच्चार्य शिवाग्निः सर्वसिद्धिदः
अग्निं तु प्रोद्धरेत्पश्चात् पात्रे संस्थाप्य रक्षयेत् ॥
कुण्डस्य चोत्तरे भागे विष्टरस्य च बाह्यतः
प्रणीतं कल्पयेत्तत्र चमसं वारिपूरितम् ॥
पुष्पाक्षततिलैर्युक्तं पवित्रं तत्र विन्यसेत्
प्रणवादि समावाह्य विष्णुनाम ततो नमः ॥
आमन्त्रणपदेनैव विष्णुं संस्थाप्य पूजयेत्
स्वागतासनपाद्यार्घैः ततो विज्ञापयेत्तु तम् ॥
पश्वर्थं यज्ञ आरब्ध आत्मार्थं वाथ साधकैः
भगवंस्त्वत्प्रसादेन यागे निश्छिद्रतास्तु नः ॥
ततो ऽग्नौ यजनं कृत्वा भैरवं तु प्रपूजयेत्
स्थण्डिलोक्तविधानेन अनन्तादीन्प्रकल्पयेत् ॥
ध्यात्वा वक्त्राणि पञ्चादौ येन यत्कर्म वाञ्छितम्
तन्मुख्यवक्त्रं संकल्प्य मुखं कुण्डप्रमाणतः ॥
भावयेन्नव जिह्वासतु वक्त्रेवक्त्रे प्रतिष्ठिताः
प्रागाद्यष्टौ मध्य एका काम्यार्थे दिग्गतास्तु याः ॥
राज्यार्था दाहजननी मृत्युदा शत्रुकारिका
वशीकर्त्र्युच्चाटनी स्याद् अर्थदा मुक्तिदायिका ॥
सर्वसिद्धिप्रदा मध्ये तस्मान्मध्ये तु होमयेत्
पूणा तु भैरवेणैव जिह्वानां कल्पनाय च ॥
पुनः पूर्णाहुतिं चैव भैरवेण प्रदापयेत्
ज्वालाग्रं तु हृदागृह्य वह्निचैतन्यकल्पितम् ॥
आत्महृत्स्थं तु संकल्प्य योगपीठं तु कल्पयेत्
मध्यजिह्वानुसारेण अग्निनाभौ तु कन्दकम् ॥
नालं हृदवधि ध्यात्वा पद्मं तत्र विचिन्तयेत्
पत्राष्टकसमोपेतं सितवर्णं सुतेजसम् ॥
अनन्तं कल्पयेत्तत्र धर्मादिचरणान्तिकम्
ओंकारेण शिवान्तं च अग्निमूर्तिं प्रकल्पयेत् ॥
शिखा हृदि स्थिता या तु ध्रुवेणोत्कीलयेत्पुनः
रेचकेण क्षिपेद्वह्नौ सा मूर्तिर्भैरवात्मिका ॥
मूर्तिभूतं प्रकल्प्यैवम् अष्टात्रिंशत्कलायुतम्
शोध्याध्वानं तु विन्यस्येद् दीक्षाकाले वरानने ॥
भैरवं पूजयित्वा तु शास्त्रदृष्टेन कर्मणा
वक्त्रसंधिश्च वक्त्रभ्यां शिववक्त्राग्निवक्त्रयोः ॥
संधाय चैवं जिह्वाभ्यां नाडीसंधिरतो भवेत्
मूलमन्त्रं समुच्चार्य अग्निनासाविनिर्गतम् ॥
स्थण्डिलस्थशिवालीनम् एकार्थं चैव संधयेत्
शुद्धाज्येनाहुतिशतम् अष्टोत्कृष्टं वरानने ॥
भैरवस्य तु होतव्यं वक्त्राङ्गानां दशांशकम्
भैरवाष्टकलोकेशान् दशमांशेन होमयेत् ॥
मूलमन्त्रं समुच्चार्य पूर्णामेकां प्रपातयेत्
भैरवाप्यायनार्थाय तथा पूर्णां प्रपातयेत् ॥
पुनर्न्यूनातिरिक्तार्थं निश्छिद्रकरणाय च
पश्चाद्धोमः प्रकर्तव्यो यथेच्छं तु वरानने ॥
सर्वकामप्रदो होमस् तिलैः शस्तो घृतान्वितैः
धान्यैर्धनार्थसिद्ध्यर्थं घृतगुग्गुलहोमतः ॥
जायते विपुला सिद्धिर् अधमा मध्यमोत्तमा
श्वेतारविन्दैराज्याक्तैः बिल्वैश्च श्रियमाप्नुयात् ॥
क्शीराक्ततिलहोमेन शान्तिकर्म वरानने
सितरक्तपीतकृष्णैः शमनाकृष्टिपौष्टिकम् ॥
मारणं च वरारोहे क्रमेण परिकल्पयेत्
कुन्दपुष्पैः सुतार्थाय अशोकैः प्रियसंगमः ॥
जातिकुट्मलकैः कन्या गान्धर्वी बकुलोद्भवैः
नागैस्तु नागकन्या वै सिद्धार्थैः सिद्धकन्यका ॥
चण्यकैश्चाप्यप्सरसो नरेन्द्रः फल्गुषेण तु
घृताक्तेन वरारोहे समन्त्री सपुरोहितः ॥
राज्ञी पुत्रसमोपेता वशं याति वरानने
यक्षिणी वशमायाति पुष्पैश्चैव कदम्बजैः ॥
विद्याधरी कुय्यकैश्च साधयेन्नात्र संशयः
मृगीं बद्ध्वा तिलैर्होमः पद्मबिल्वैरधिष्ठितम् ॥
भक्ष्यैर्ग्रासप्रमाणैस्तु धन्यैः प्रसृतिसंमितैः
एवं होमानुसारेण साधको विधिसंस्थितः ॥
पूजाहोमरतो नित्यं यान्यान्कामान्समीहते
तांस्तान्स साधयत्येव भैरवस्य वचो यथा ॥
मूल पाठ: Svacchandatantra [or Svacchandabhairavatantra] · Edition: Chapter 1 typed in from Dwivedi's edition by Dominic Goodall; Chapter 2 typed in from KSTS edition by Mei Yang; Chapter 3 typed in from Dwivedi's edition by Dominic Goodall; Chapter 4 typed in from the KSTS edition by S.A.S. Sarma Chapters 5-6 typed in from Dwivedi's edition by Dominic Goodall; Chapter 7 typed in from KSTS edition by Mei Yang; Chapters 8-9 typed in from KSTS edition by Nibedita Ro · Data entry members of the Saiva reading group at the EFEO in Pondicherry · GRETIL (Göttingen) · CC BY-NC-SA 4.0