Svacchandatantra · अध्याय 1
कैलासशिखरासीनं भैरवं विगतामयम्
चण्डनन्दिमहाकाल गणेशवृषभृङ्गिभिः ॥
कुमारेन्द्रयमादित्य ब्रह्मविष्णुपुरःसरैः
स्तूयमानं महेशानं गणमातृनिषेवितम् ॥
सृष्टिसंहारकर्तारं विलयस्थितकारकम्
अनुग्रहकरं देवं प्रणतार्तिविनाशनम् ॥
मुदितं भैरवं दृष्ट्वा देवी वचनमब्रवीत्
यत्त्वया कथितं मह्यं स्वच्छन्दं परमेश्वर ॥
शतकोटिप्रविस्तीर्णं भेदानन्त्यविसर्पितम्
चतुष्पीठं महातन्त्र चतुष्टयफलोदयम् ॥
न शक्नुवन्ति मनुजा अल्पवीर्यपराक्रमाः
अल्पायुषो ऽल्पवित्ताश्च अल्पसत्त्वाश्च शंकर ॥
तदर्थं संग्रहं तस्य स्वल्पशास्त्रार्थविस्तरम्
भुक्तिमुक्तिप्रदातारं कथयस्व प्रसादतः ॥
कीदृशं वै गुरुं विद्यात् साधकं च महेश्वर
भयाभयप्रदातारं शिष्यं भूमिं च कीदृशीम् ॥
मन्त्रांश्चैव समासेन कालं चैव समासतः
यजनं हवनं चैव अधिवासं रजांसि च ॥
पञ्चगव्यं चरुं चैव दन्तकाष्ठं च मण्डलम्
दीक्षा चाध्वाभिषेकौ च समयान्साधनानि च ॥
कलिमासाद्य सिध्यन्ति तथा ब्रूहि महेश्वर
साधु साधु महाभागे यत्त्वया परिचोदितम् ॥
अनुग्रहाय मर्त्यानां साम्प्रतं कथयामि ते
आदौ तावत्परीक्षेत आचार्यं शुभलक्षणम् ॥
आर्यदेशसमुत्पन्नं सर्वावयवभूषितम्
शिवशास्त्रविधानज्ञं ज्ञानज्ञेयविशारदम् ॥
देवकर्मरतं शान्तं सत्यवादिदृढव्रतम्
सत्त्ववद्वीर्यसम्पन्नं दयादाक्षिण्यसंयुतम् ॥
त्यागिनं दम्भनिर्मुक्तं शिवशास्त्रेषु भावितम्
ईदृशं तु गुरुं प्राप्य सिद्धिमुक्ती न दूरतः ॥
क्रोधनश्चपलः क्षुद्रो दयादाक्षिण्यवर्जितः
केकरो दन्तुरः काणः पापिष्ठः शास्त्रवर्जितः ॥
अतिदीर्घस्तथा ह्रस्वः कृशः स्थूलः क्षयान्वितः
तार्किको दम्भसंयुक्तः सत्यशौचविवर्जितः ॥
अन्यशास्त्ररतो यस्तु नासौ मुक्तिफलप्रदः
शिष्यो दयान्वितो धीरो दम्भमायाविवर्जितः ॥
देवाग्निगुरुभक्तश्च शास्त्रभक्तो दृढव्रतः
गुरुशुश्रूषणपरः सुशान्तेन्द्रियसंयुतः ॥
ईदृशो वै भवेच्छिष्.यः सो ऽत्रानुग्रहभाजनम्
मायान्वितः शठः क्रूरो निःसत्यः कलहप्रियः ॥
कामी च लोभसम्पन्नः शिवभक्तिविवर्जितः
दूषको गुरुशास्त्राणां दीक्षितो ऽपि न मुक्तिभाक् ॥
सन्तापं क्रोधने विन्द्याच् चपले चपलाः श्रियः
मन्त्रसिद्धिं हरेत् क्षुद्र आचार्यस्तु वरानने ॥
दयाहीनेन दौर्भाग्यम् अदक्षे दस्युपीडनम्
केकरेण भवेद्व्याधिर् दन्तुरः कलिकारकः ॥
काणो विद्वेषजननः खल्वाटश्चार्थनाशनः
शास्त्रहीने न सिद्धिः स्याद् दीक्षादौ वीरवन्दिते ॥
दीर्घे राजभयं ज्ञेयं ह्रस्वः पुत्रविनाशनः
कृशः क्षयकरो ज्ञेयः स्थूल उत्पातकारकः ॥
क्षयान्वितेन मृत्युः स्यात् तार्किके वधबन्धनम्
दाम्भिकः पापजनको वेदितव्यो वरानने ॥
मन्तास्तस्य न सिद्ध्यन्ति यः सत्यादिविवर्जितः
सर्वे ते न शुभा देवि इह लोके परत्र च ॥
सितरक्तपीतकृष्णां भूमिं प्लवविशोधिताम्
विशल्यां लक्षणैर्युक्तां सर्वकामार्थसाधिकाम् ॥
सुगन्धिगन्धसंयुक्तां पुष्पप्रकरलालिताम्
सुधूपामोदबहलां वितानोपरिशोभितम् ॥
आचार्यस्तु शुचिर्भूत्वा चन्दनागुरुचर्चितः
सुधूपितः प्रसन्नात्मा खटिकाकरसंयुतः ॥
प्राङ्मुखोदङ्मुखो वापि एकचित्तः समाहितः
मातृकां प्रस्तरेत्तत्र आदिक्षान्तामनुक्रमात् ॥
आदिः षोडशभेदेन साक्षाद्वै भैरवः स्मृतः
कवर्गश्चटवर्गौ च तपयाः शस्तथैव च ॥
संहारेण समोपेतौ योनिर्वै भैरवी स्मृता
मातृकाभैरवं देवम् अवर्गेण प्रपूजयेत् ॥
भैरवी कादिना पूज्या मातृवर्गैः प्रपूजयेत्
अवर्गे तु महालक्ष्मीः कवर्गे कमलोद्भवा ॥
चवर्गे तु महेशानी टवर्गे तु कुमारिका
नारायणी तवर्गे तु वाराही तु पवर्गिका ॥
ऐन्द्री चैव यवर्गस्था चामुण्डा तु शवर्गिका
एताः सप्त महामातृः सप्तलोकव्यवस्थिताः ॥
सर्वान् कामानवाप्नोति देव्येवं भैरवो ऽब्रवीत्
अन्ते ऽस्य उद्धरेन्मन्त्रान् यथाक्रमनियोगतः ॥
त्रयोदशं बिन्दुयुतम् अनन्तासनमुत्तमम्
अनेन योजयेत्सर्वं सोमसूर्याग्निमध्यगम् ॥
ब्रह्मविष्णुमहेशानं शवान्तं परिकल्पयेत्
मूर्तिं हंसाक्षरेणैव बिन्दुभिन्नेन कल्पयेत् ॥
अर्धचन्द्रकृताटोपां स्वस्वनां तुहिनप्रभाम्
तदूर्ध्वे सकलं देवं स्वच्छन्दं परिकल्पयेत् ॥
ओंकारमुच्चरेत्पूर्वम् अघोरेभ्यो अनन्तरम्
थ घोरेभ्यो समालिख्य ततो ऽन्यत्तु समालिखेत् ॥
घोरघोरतरेभ्यश्च सर्वतः शर्व उच्चरेत्
सर्वेभ्यः पदमन्यच्च नमस्ते रुद्र एव च ॥
रूपेभ्यश्च समालिख्य नमस्कारावसानकम्
मन्त्रराजः समाख्यातः अघोरः सुरपूजितः ॥
सकृदुच्चारितो देवि नाशयेत् सर्वकिल्बिषम्
जन्मकोटीसहस्रैस्तु भ्रमद्भिः समुपार्जितम् ॥
स्मरणान्नाशयेद्देवि तमः सूर्योदये यथा
यकारादिवकारान्ताः संहारेण समायुताः ॥
बिन्दुमस्तकसम्भिन्ना भैरवस्य मुखानि च
ब्रह्मभङ्ग्या नियोज्यानि मूर्धादिचरणावधि ॥
पुनश्चोर्ध्वं मुखं कल्प्यं प्राग्दक्षिणमथोत्तरम्
अपरं कल्पयित्वा तु कलाभेदेन विन्यसेत् ॥
पूर्वं च दक्षिणं चैव उत्तरं पश्चिमं तथा
ऊर्ध्वमूर्ध्ना तु संयुक्तं क्षकारं त्वीशरूपिणम् ॥
एवं वक्त्रं चतुर्धा तु वक्त्रेष्वेव नियोजयेत्
पञ्चमं यद्भवेद्वक्त्रं क्षकारेणैव निर्दिशेत् ॥
हृदि ग्रीवांसपृष्ठे तु नाभौ च जठरे तथा
पृष्ठे चोरसि विन्यसेद् अघोरेण यथाक्रमम् ॥
गुह्ये तथा गुदे चैव तथोर्वोर्जानुनोरपि
जङ्घयोश्च स्फिजोः कट्यां पार्श्वयोरुभयोरपि ॥
विन्यसेच्चैव वामेन शरीरे तु यथाक्रमम्
पादौ हस्तौ तथा नासां शिरश्चैव भुजावथ ॥
सद्येन कल्पयेद्देवि सर्वमेतद्यथाक्रमम्
तासां नामानि वक्ष्यामि यथावदनुपूर्वशः ॥
तारा सुतारा तरणी तारयन्ती सुतारणी
ईशानस्य कला पञ्च निरञ्जनपदानुगा ॥
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च
पुरुषस्य कला ह्येताश् चतस्रः परिकीर्तिताः ॥
तमा मोहा क्षुधा निद्रा मृत्युर्माया भया जरा
अघोरस्य कला ह्येता अष्टौ वै वरवर्णिनि ॥
रजा रक्षा रतिः पाल्या काम्या तृष्णा मतिः क्रिया
ऋद्धिर्माया च रात्रिश्च भ्रामिणी मोहनी तथा ॥
मनोन्मनी कला ह्येता वामदेवे त्रयोदश
सिद्धिरृद्धिर्द्युतिर्लक्ष्मीर् मेधा कान्तिः सुधा स्थितिः ॥
सद्योजातकलास्त्वेवम् अष्टौ सम्परिकीर्तिताः
पुनश्च साधको देवि सर्वाङ्गेषु यथाक्रमम् ॥
नवतत्त्वं त्रितत्त्वं च ध्रुवेण परिकल्पयेत्
विद्याङ्गानि पुनर्न्यस्य तेषां मन्त्रान् शृणु प्रिये ॥
अघोरेभ्यो समालिख्य थ घोरेभ्यो द्वितीयकम्
घोरघोरतरेभ्यश्च तृतीयं परिकल्पयेत् ॥
सर्वतः शर्व सर्वेभ्यो चतुर्थं परिकल्पयेत्
नमस्ते रुद्ररूपेभ्यः पञ्चमं च विधानतः ॥
ओंकारमुच्चरेत्पूर्वं जुं सश्च तदनन्तरम्
नेत्रत्रयं प्रकल्पेत विद्यादेहस्य भामिनि ॥
विद्याङ्गानि विजानीयात् नामानि च निबोध मे
सर्वात्मा तु ब्रह्मशिरो ज्वालिनी पिङ्गलं तथा ॥
दुर्भेद्यं पाशुपत्यं च ज्योतीरूपं तथैव च
क्रिया ज्ञानं तथैवेच्छा तासां मन्त्रान्निबोध मे ॥
चतुर्थस्वरसंयुक्तं हान्तं बिन्दुविभूषितम्
क्रियाशक्तिः समाख्याता सर्वसृष्टिप्रकाशिका ॥
शकारस्य तृतीयं तु षष्ठयुक्तं सबिन्दुकम्
ज्ञानशक्तिः स्मृता ह्येषा प्रबोधजननी शुभा ॥
क्षादिं द्विस्वरसम्भिन्नं त्रिपञ्चेन तु मूर्छितम्
इच्छाशक्तिः समाख्याता भैरवस्यामितात्मिका ॥
हंसाख्यो बिन्दुसंयुक्तः षष्ठस्वरविभेदितः
बालेन्दुनादशक्त्यन्तः स्वच्छन्दो निष्कलः स्मृतः ॥
अस्योच्चरणमात्रेण ये युक्ताः सर्वपातकैः
शुद्धस्फटिकसंकाशाः पदं गच्छन्त्यनामयम् ॥
सान्तं दीर्घस्वरैः षड्भिर् भिन्नजातिविभेदितम्
हृच्छिरश्च शिखा वर्म लोचनास्त्रं प्रकल्पयेत् ॥
ओंकारो दीपनस्तेषाम् अन्ते जातिं प्रकल्पयेत्
नमः स्वाहा तथा वौषट् हुं वषट् फट् क्रमेण तु ॥
एष भैरवराजस्तु सर्वकामार्थसाधकः
हर ईम अकारश्च ङादिरोस्वरसंयुतः ॥
यान्त एकारसंयुक्तः षादिर्लान्तविभेदितः
लादिस्त्रिस्वरसम्भिन्नो हंसो बिन्दुसमायुक्तः ॥
षष्ठस्वरसमोपेतः फट्कारान्तविकल्पितः
अघोरेश्वरीति विख्याता स्वच्छन्दोत्सङ्गगामिनी ॥
भैरवाङ्गसमोपेता वक्त्रपञ्चकसंयुता
हान्तो यादिर्यकारान्तो रादिः षष्ठकलान्वितः ॥
बिन्दुनादसमायोगात् कपालेशः प्रकीर्तितः
सान्तो बिन्दुरधो ह्यग्निः षष्ठयुक्तस्तु कीर्तितः ॥
शिखिवाहनसंज्ञस्तु ज्ञातव्यो ऽसौ वरानने
संहारः षष्ठसंयुक्तः षडन्तेन समन्वितः ॥
क्रोधराजः समाख्यातः - - - - - - - -
- - - - - - - तथान्यं कथयामि ते
ञादिः षष्ठस्वरोपेतस् त्रिपदेन समायुतः ॥
बिन्दुमस्तकसम्भिन्नो विकरालो वरानने
सान्तः शाद्येन संयुक्तः षष्ठस्वरयुतो ऽप्यधः ॥
चतुर्दशस्वराक्रान्तो बिन्दुनादान्तभूषितः
मन्मथः कथितो ह्येष सुरसिद्धनमस्कृतः ॥
येनेदं तु निजं सर्वं जगत्स्थावरजङ्गमम्
हररादिसमायुक्तः ऊकाराधः सबिन्दुकः ॥
मेघनादेश्वरो ह्येष भैरवः सम्प्रकीर्तितः
क्षसान्तर्बिन्दुसंयुक्तः पञ्चमेन विभेदितः ॥
सोमेश्वरः समाख्यातो जन्ममृत्युविनाशनः
क्षादिर्यान्तसमोपेतो हान्तेनाधोनियोजितः ॥
भान्तो वादिर्लकारान्तो राद्यो ऽधो रुद्रयोजितः
बिन्द्वर्धेन्दुसमायुक्तो नादशक्तिसमन्वितः ॥
विद्याराजः समाख्यातो महापातकनाशनः
भैरवाष्टकमेतद्धि परिवारः प्रकीर्तितः ॥
लोकपालांस्तथोद्धृत्य स्वनामप्रणवादिकान्
नमस्कारावमानांश्च सास्त्रान्सम्परिकल्पयेत् ॥
मूल पाठ: Svacchandatantra [or Svacchandabhairavatantra] · Edition: Chapter 1 typed in from Dwivedi's edition by Dominic Goodall; Chapter 2 typed in from KSTS edition by Mei Yang; Chapter 3 typed in from Dwivedi's edition by Dominic Goodall; Chapter 4 typed in from the KSTS edition by S.A.S. Sarma Chapters 5-6 typed in from Dwivedi's edition by Dominic Goodall; Chapter 7 typed in from KSTS edition by Mei Yang; Chapters 8-9 typed in from KSTS edition by Nibedita Ro · Data entry members of the Saiva reading group at the EFEO in Pondicherry · GRETIL (Göttingen) · CC BY-NC-SA 4.0