Svacchandatantra · अध्याय 14
मुद्राणं लक्षणं वक्ष्ये अस्मिंस्तन्त्रे यथास्थितम्
उत्तानमञ्जलिं कृत्वा कपालं परिकीर्तितम् ॥
तिर्यक्कृत्वा करं वामं कनिष्ठाद्यङ्गुलित्रयम्
अङ्गुष्ठेनाक्रमेद्देवि ऋज्वीं कृत्वा प्रदेशिनीम् ॥
पराङ्मुखं करं कृत्वा स्कन्धदेशे निवेशयेत्
खट्वाङ्गं कीर्तितं ह्येतत् खड्गमुद्रां निबोध मे ॥
अङ्गुष्ठेनाक्रमेद्देवि सकनिष्ठामनामिकाम्
मध्यमां तर्जनीं चोर्ध्वं खड्गमुद्रा प्रकीर्तिता ॥
मुष्टिं बद्ध्वा कनिष्ठां च प्रसार्येत वरानने
आत्मनः सम्मुखं कृत्वा स्फरस्ते कथितो मया ॥
मुष्टिं बद्ध्वा तु देवेशि तर्जन्यूर्ध्वं तु कुञ्चयेत्
अङ्कुशः कथितो ह्येष पाशमुद्रां निबोध मे ॥
तर्जनीं वर्तुलां कृत्वा मूले ऽङ्गुष्ठस्य योजयेत्
पाशस्तु कथितो ह्येष दुष्टजालनिबन्धकः ॥
मुष्टिं बद्ध्वा वरारोहे सम्प्रसार्य प्रदेशिनीम्
नाराचस्तु समाख्यातः समासात्तव भैरवि ॥
मुष्टिं बद्ध्वा प्रसार्येत तर्जन्यङ्गुष्ठकं प्रिये
अग्रे निकुञ्चयेत् किञ्चित् पिनाकं परिकीर्तितम् ॥
अग्रप्रसारितो हस्तः श्लिष्टशाखो वरानने
पराङ्मुखं तु तं कृत्वा त्व् अभयः परिकीर्तितः ॥
वामं भुजं प्रसार्यैव जानूपरि निवेशयेत्
प्रसृतं दर्शयेद्देवि वरः सर्वार्थसाधकः ॥
घण्टाकारं करं वामं कृत्वा चैव त्वधोमुखम्
दक्षहस्तस्य तर्जन्या घृषेद् घण्टा प्रकीर्तिता ॥
कनिष्ठिकां समाक्रामेद् अङ्गुष्ठेन समाहितः
प्रसार्य चाङ्गुलीस्तिस्रस् त्रिशूलं परिकीर्तितम् ॥
दण्डो वै मुष्टिबन्धेन वज्रमुद्रं निबोध मे
वामहस्तमधः कृत्वा उत्तानं तु समाहितः ॥
दक्षं चाधोमुखं कृत्वा त्व् अङ्गुष्ठं च कनिष्ठिकाम्
उभयोरपि सङ्घृष्य वज्रमुद्रां प्रदर्शयेत् ॥
डमरुं मुष्टिबन्धेन दक्षहस्तस्य सुव्रते
सुषिरेण समायुक्तं दर्शयेत्तु वरानने ॥
मुद्गरं तु प्रवक्ष्यामि हस्तौ द्वौ सम्प्रसारयेत्
मुद्गरः कथितो ह्येष वल्लकीं च निबोध मे ॥
हस्तौ प्रसारयेद्देवि उत्तानौ तु समाहितः
अनामे कुञ्चयित्वा तु वीणामुद्रा प्रकीर्तिता ॥
प्रसारयेदङ्गुलीस्तु कनिष्ठानाममध्यमाः
अङ्गुष्ठेनाक्रमेदाद्यां परशुः समुदाहृताः ॥
एता मुद्रा महादेवि भैरवस्य प्रदर्शयेत्
आवाहने निरोधे च तथा चैव विसर्जने ॥
कपालं चैव खट्वाङ्गम् अनुक्तेषु प्रदर्शयेत्
कपालं धवलं ज्ञेयं खट्वाङ्गं च तथैव हि ॥
त्रिशूलं चैव नाराचं खड्गो नीलोत्पलप्रभः
स्फरं रक्तं पिनाकं च कृष्णं सम्परिकीर्तितम् ॥
घण्टा हेमप्रभा ज्ञेयाङ् कुशो मरकतप्रभः
पाशो भिन्नाञ्जननिभः स्फटिकाभो ऽभयः स्मृतः ॥
वरश्चित्तप्रसादेन ध्यातव्यो वरवर्णिनि
डमरुं हेमसङ्काशं वीणां चैतत्समप्रभाम् ॥
दण्डं रक्तं विजानीयाद् वज्रं पीतं विचिन्तयेत्
राजावर्तनिभो देवि मुद्गरः परशुस्तथा ॥
मुद्रापीठं समाख्यातं चतुर्वर्गफलोदयम्
प्रणवासनमारूढा ओंकाराद्या वरानने ॥
स्वनामकृतविन्यासा नमस्कारावसानिकाः
साधयन्ति महादेवि फलानि विविधानि तु ॥
निर्विघ्नकरणं ख्यातं मुद्राणां लक्षणं प्रिये
वेदितव्यं प्रयत्नेन साधितव्यं महात्मना ॥
मूल पाठ: Svacchandatantra [or Svacchandabhairavatantra] · Edition: Chapter 1 typed in from Dwivedi's edition by Dominic Goodall; Chapter 2 typed in from KSTS edition by Mei Yang; Chapter 3 typed in from Dwivedi's edition by Dominic Goodall; Chapter 4 typed in from the KSTS edition by S.A.S. Sarma Chapters 5-6 typed in from Dwivedi's edition by Dominic Goodall; Chapter 7 typed in from KSTS edition by Mei Yang; Chapters 8-9 typed in from KSTS edition by Nibedita Ro · Data entry members of the Saiva reading group at the EFEO in Pondicherry · GRETIL (Göttingen) · CC BY-NC-SA 4.0