भाषा

ENहिગુ
ग्रंथ पाठ

Svacchandatantra · अध्याय 15

15.1

जपध्यानादियुक्तस्य चर्याव्रतधरस्य च
छुम्मकाः सम्प्रवक्ष्यामि साधकस्य वरानने ॥

15.2

भैरवस्तु स्मृतो धाम सर्वदस्तु गुरुः स्मृतः
साधकस्तु गिरिर्ज्ञेयः पुत्रको विमलः स्मृतः ॥

15.3

समयी कान्तदेहस्तु भगिन्यो बलदर्पिताः
मद्यं तु हर्षणं ज्ञेयं मुदिता तु सुरा स्मृता ॥

15.4

मत्य्सा जलचरा ज्ञेया मांसं च बलवर्धनम्
जातं प्ररूढमित्याहुर् मृतं चैव पराङ्मुखम् ॥

15.5

रक्तं त्वमृतमित्याहुः पद्मनालो ऽन्त्रसञ्चयः
शुक्रं चन्द्रः समाख्यातः स्नायुः सूत्रं प्रकीर्तितम् ॥

15.6

श्मशानं डामरं ज्ञेयं राक्षसस्तु भयङ्करः
पिशाचो रोमजननः रुहा ज्ञेया रजस्वला ॥

15.7

रात्रिं वै च्छादिकां विद्धि प्रकाशश्च दिनं भवेत्
नयने चञ्चले ज्ञेये जिह्वां संग्राहिकां विदुः ॥

15.8

करौ धनकरौ ज्ञेयौ पादौ सहचरौ विदुः
लिङ्गं सन्तोषजननं भगः प्रीतिविवर्धनः ॥

15.9

शस्त्रं विभागजननं कर्तरी कार्यसाधिका
दूती संवाहिका ज्ञेया धूपो ह्लादन उच्यते ॥

15.10

गन्धः सन्तोषजननो राजानो धारकाः स्मृताः
पशुर्विबोधको ज्ञेयश् चरुकः सार्वकामिकः ॥

15.11

अन्नं साधनमित्युक्तं वसा मण्डमिहोच्यते
दिशां मुखं तु श्रवणं त्वक् च संवेदनी स्मृता ॥

15.12

घ्राणं सुस्थितमित्युक्तं मुखं तु प्रविचारकम्
पशु प्रचारो विज्ञेयः माता धात्रीति कथ्यते ॥

15.13

पितरं सृष्टिकर्तारं भ्रातरं पालकं विदुः
भगिनी शुभकरी ज्ञेया सखी सर्वार्थसाधिका ॥

15.14

मित्रं गुणानां जननं गुणनाशं रिपुं विदुः
छित् स्फिजौ कीर्तितो देवि दृष्टिश्चक्षुः प्रकीर्तितम् ॥

15.15

दशनाः खण्डका ज्ञेया आधार उदरं स्मृतम्
हृदयं गुह्यमित्युक्तं कठिनं त्वस्थि विद्धि हि ॥

15.16

मेदो वसां विजानीयात् मज्जा पुष्टिकरः स्मृतः
विष्ठां विदूषिकां विद्धि मूत्रं स्नाव इहोच्यते ॥

15.17

कालेयकं तु कुसुमं धूमं धृतिकरं विदुः
मेलकं चैव सङ्घातः पुत्रः सोद्द्योतकः स्मृतः ॥

15.18

दुहिता ह्लादिका ज्ञेया क्षुब्धं वै चलितं विदुः
दूषको जार इत्युक्तः पीतं वन्दितमेव च ॥

15.19

भक्षितं प्राप्तमित्याहुश् छर्दितं विकृतीकृतम्
दूषितं कर्षितं ज्ञेयं सम्मतं समयं विदुः ॥

15.20

महल्लो रक्षको ज्ञेयश् छगलस्तु कनिष्ठकः
विनयो देहकर्म स्यात् साधनं तु जपः स्मृतः ॥

15.21

होमितं सिद्धिजननं विभागो रोचकः स्मृतः
कदम्बं वृन्दमित्याहुर् विरलो ऽश्लिष्ट उच्यते ॥

15.22

विमलः शिष्य इत्युक्त इच्छा चाज्ञा प्रकीर्तिता
देवतादर्शनं यत्तत् लब्धं शस्त्रहतं विदुः ॥

15.23

निशाचरो बिडालः स्यात् नखिनश्च विदारकाः
आनीतं सारितं ज्ञेयं रक्षितं पिहितं तथा ॥

15.24

शिखां संस्पृशते या तु सा तु शक्तिं विनिर्दिशेत्
शिरः प्रदर्शयेद्या तु सा च बिन्दुं विनिर्दिशेत् ॥

15.25

ललाटं दर्शयेद्या तु ईश्वरं सा विनिर्दिशेत्
तालुकं दर्शयेद्या तु तया रुद्रः प्रकीर्तितः ॥

15.26

जिह्वां प्रदर्शयेद्या तु विद्यां साथ विनिर्दिशेत्
सप्त कोटयस्तु मन्त्राणां तस्या ज्ञेयास्तु सुव्रते ॥

15.27

घण्टिकां दर्शयेद्या तु तस्यानन्तः प्रदर्शितः
कण्ठं तु संस्पृशेया सा कालतत्त्वं विनिर्दिशेत् ॥

15.28

हृत्पद्मं दर्शयेद्या तु पुरुषं सा विनिर्दिशेत्
नाभिं प्रदर्शयेद्या तु प्रकृतिं सा विनिर्दिशेत् ॥

15.29

तस्याधस्ताद् बुद्धितत्त्वं यदि स्याद्दर्शनं प्रिये
यदा गुह्यं स्पृशेद्देवि अहंकारो ऽधिदैवतम् ॥

15.30

कटिं सन्दर्शयेद्या तु व्योम तत्राधिधैवतम्
ऊरुकौ दर्शयेद्देवि पवनं सा विनिर्दिशेत् ॥

15.31

जानुनी दर्शयेद्या तु तया तेजः प्रकीर्तितम्
जङ्घे प्रदर्शयेद्या तु वरुणं सा विनिर्दिशेत् ॥

15.32

शरीरं दर्शयेद्देवि सर्ववेदमयं प्रिये
पूजाग्निजपयुक्तस्य ध्यानयुक्तस्य मन्त्रिणः ॥

15.33

समयाचारयुक्तस्य कालांशकविदः प्रिये
क्रियोपेतस्य देवेशि योगिन्यस्तु वरप्रदाः ॥

15.34

दर्शयन्ति महाध्वानं नानाभोगसमन्वितम्
गिरिराजस्य देवेशि यं गत्वा फलमश्नुते ॥

15.35

भैरवेण समाज्ञप्ताः शक्तयस्तु वरानने
अन्याश्च सिद्धीर्विविधा अधमा मध्यमोत्तमाः ॥

15.36

अन्यतन्त्रसमुत्थाश्च साधयन्ति न संशयः
एवं संक्षेपतः प्रोक्तं मेलकं तु वरानने ॥

15.37

सतताभ्यासयोगेन ददते चरुकं स्वकम्
यस्य सम्प्राशनाद्देवि वीरेशसदृशो भवेत् ॥

15.38

तस्माद् ध्यानार्चने होमं जपम् च वरवर्णिनि
कुर्वन्ति भावितात्मानस् ततः सिद्ध्यन्ति मन्त्रिणः ॥

मूल पाठ: Svacchandatantra [or Svacchandabhairavatantra] · Edition: Chapter 1 typed in from Dwivedi's edition by Dominic Goodall; Chapter 2 typed in from KSTS edition by Mei Yang; Chapter 3 typed in from Dwivedi's edition by Dominic Goodall; Chapter 4 typed in from the KSTS edition by S.A.S. Sarma Chapters 5-6 typed in from Dwivedi's edition by Dominic Goodall; Chapter 7 typed in from KSTS edition by Mei Yang; Chapters 8-9 typed in from KSTS edition by Nibedita Ro · Data entry members of the Saiva reading group at the EFEO in Pondicherry · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc