भाषा

ENहिગુ
ग्रंथ पाठ

सुवर्णप्रभाससूत्र · अध्याय 8

8.1

अथ खलु चत्वारो महाराजा भगवतो ऽन्तिकादिमा एवंरूपा गाथाः श्रुत्वाश्चर्यप्राप्ता बभूवुरद्भुतप्राप्ता उद्विल्यप्राप्तास्तद्धर्मवेगेन मुहूर्तमात्रं प्ररुदिता इवाश्रूणि च प्रवर्तयामासुः । ते च संमानैः शरीरै प्रफुल्लिभिरङ्गप्रत्यङ्गैरचिन्त्येन प्रीतिसुखसौमनस्येन समन्वागता भूत्वा पुनरपि भगवन्तं दिव्यमान्दारवैः कुसुमैरवकिरन्ति स्म । अवकिरित्वा प्रकिरित्वोत्थायासनेभ्य एकांसानि चीवराणि प्रावरित्वा दक्षिणानि जानुमण्डलानि पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचन् । वयमपि भदन्त भगवंश्चत्वारो महाराजा एकैको महाराजो वयं पञ्चयक्षशतपरिवारा धर्ममाणकस्य भिक्षोः सदानुबद्धा भविष्यामस्तं धर्मभाणकं मानयनाय परिपालनाय चेति ॥
इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजो चतुर्महाराज परिवर्तो नाम सप्तमः ॥
॥ सरस्वतीदेवीपरिवर्तः ॥
अथ खलु सरस्वती महादेव्येकांसं चीवरं प्रावृत्य दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् । अहमपि भदन्त भगवन् सरस्वती महादेवी तस्य धर्मभाणकस्य भिक्षोर्वाक्परिभूषणार्थाय प्रतिभाणकमुपसंहरिष्यामि । धारणीं चानुप्रदास्यामि । सुनिरुक्ततवराणां भावं संभावयिष्यामि । महान्तं च धर्मभाणकस्य भिक्षोर्ज्ञानावभासं करिष्यामि । यानि कानि चित्पदव्यञ्जनानीतः सुवर्णप्रभासोत्तमसूत्रेन्द्रराजात्परिभ्रष्टानि भविष्यन्ति । विस्मरितानि च तान्यहं सर्वाणि तस्य धर्मभाणकस्य भिक्षोः सुनिरुक्ततपदव्यञ्जनान्युपसंहरिष्यामि । धारणीं चानुप्रदास्यामि स्मृत्यसंप्रमोषणाय । यथा चायं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजस्तेषां बुद्धसहस्रावरुप्तकुशलमूलानां सत्त्वानामर्थाय चिरं जम्बुद्वीपे प्रचरेत् । न च क्षिप्रमन्तर्धापयेत् । अनेकानि च सत्त्वानीमं सुवर्णप्रभासोत्तमं सूत्रेन्द्रराजं श्रुत्वा चिन्त्य तीक्ष्णप्रज्ञा भवेयुः । अचिन्त्यं च ज्ञानस्कन्धं प्रतिलभन्ते च न दुष्टमेव चायुः । सम्पत्तिं प्रतिलभेयुः । जात्यनुग्रहं चापरिमितं च पुण्यस्कन्धं प्रतिगृह्णीयुः । सर्वशास्त्रकुशलाश्च भवेयुर्नानाशिल्पविधिज्ञाश्च ॥
तदिदं संयुक्तं स्नानकर्म भाषिष्यामि तस्य धर्मभाणकस्य भिक्षोस्तेषां च धर्मश्रवणिकानां सत्त्वानामर्थाय । सर्वग्रहनक्षत्रजन्ममरणपीडा कलिकलहकलुषडिम्बडमरदुःखप्नविषोदकपीडाः । सर्वकाखोर्दवेतालाः प्रशमं यास्यन्ति ।
औषधयो मन्त्रा येन स्नापयन्ति च पण्डिताः ।
वचा गोरोचना स्पृका शिरीषं श्याभ्यकं शमी ।
इन्द्रहस्ता महाभागा व्यामकमगरुः त्वचम्

8.2

नीवेष्टकं सर्जरसं सिह्लकं गुल्गुलूरसम् ।
तगरं पत्रशैलेयं चन्दनं च मनःशिला

8.3

समोचकं तुरुष्कं च कुङ्कुमं मुस्त सर्षपाः ।
नरदं चव्य सूक्ष्मेला उशीरं नागकेशरम्

8.4

एतानि समभागानि पुष्यनक्षत्रेण पीषयेत् ।
इमैर्मन्त्रपददैश्चूर्णं शतधा चाभिमन्त्रयेत्

8.5

तद्यथा । सुकृते करजातभागे हंसरण्डे इन्द्रजालमलिलक उपसदे अवतासिके कुत्र कुकलविमलमति शीलमति संधिबुधमति शिशिरि सत्यस्थित स्वाहा ॥
गोमयमण्डलं कृत्वा मुक्तपुष्पाणि स्थापयेत् ।
सुवर्णभाण्डे रूप्यभाण्डे मधुरेण स्थापयेत्

8.6

वर्मिताश्च पुरुषास्ते चत्वारि तत्र स्थापयेत् ।
कन्याः सुभूषिताः न्यस्ताश्चत्वारो घटधारिण्यः

8.7

गुग्गुलुं धूपयन्नित्यं पञ्चतूर्याणि योजयेत् ।
छत्रध्वजपताकैश्च सा देवी समलङ्कृता

8.8

आदर्शनपर्यन्ताश्च शरशक्तीर्नियोजयेत् ।
सीमाबन्धं ततः कुर्यात्पश्चात्कार्यं समारभेत् ।
अनेन मन्त्रपदक्रमेण सीमाबन्धं समारभेत्

8.9

स्याद्यथेदम् । अने नयने हिलि हिलि गिलि खिले स्वाहा ॥ भगवतः पृष्ठतः स्नात्वानेन मन्त्रजापेन स्नानशान्तिं योजयेत् । तद्यथा । सुगते विगते विगतावति स्वाहा ।
ये प्रस्थिता नक्षत्रा आयुः पालयन्तु चतुर्दिशे ।
नक्षत्रजन्मपीडा वा राशिकर्मभयावहम् ।
धातुसंक्षोभसंभूता शाम्यन्तु भयदारुणा

8.10

समे विषमे स्वाहा । सुगते स्वाहा । सागरसंभूताय स्वाहा ॥ स्कन्धमारुताय स्वाहा । नीलकण्ठाय स्वाहा । अपराहितवीर्याय स्वाहा । हिमवत्संभूताय स्वाहा । अनिमिषचक्राय
( बग्छि 57 ) स्वाहा । नमो भगवत्यै ब्राह्मण्यै नमः सरस्वत्यै देव्यै सिध्यन्तु मन्त्रपदास्तं ब्रह्म नमस्यन्तु स्वाहा ।
एतेन स्नानकर्मणा तस्य धर्मभाणकस्य भक्षोरर्थाय तेषां च धर्मश्रवणिकानां लेखकानामार्थाय स्वयमेवाहं तत्र गगणसिद्धयक्षदेवगणैः सार्धं तत्र च ग्रामे वा नगरे वा निगमे वा विहारे वा सर्वतो रोगप्रशमनं करिष्यामि । सर्वग्रहकलिकलुषनक्षत्रजन्मपीडान्वा दुःखस्वप्नविनायकपीडान्सर्वकाखोर्दवेतालान्प्रशमयिष्यामि । यथा तेषां सूत्रेन्द्रधारकाणां भिक्षुभिक्षुण्युपासकोपासिकानां जीवितानुग्रहो भवेत् । संसारनिर्वाणं प्रतिलभेयुः । अवैवर्तिकाश्च भवेयुरनुत्तरायाः सम्यक् संबोधेः ॥
अथ खलु भगवान्सरस्वत्यै महादेव्यै साधुकारमदात् । साधु साधु सरस्वति महादेवि बहुजनहिताय बहुजनसुखाय प्रतिपन्नो यत्त्वया हीमानि मन्त्रोषधिसंयुक्तानि भाषितानि । सा च सरस्वती महादेवी भगवतः पादावभिवन्दनां कृत्वैकान्ते निषण्णा ॥
अथ खल्वाचार्यव्याकरणप्राप्तः कौण्डिन्यो महाब्राह्मणस्तां सरस्वतीमावाहयति स्म ॥
सरस्वती महादेवी पूजनीया महत्तपाः ।
विख्याता सर्वलोकेषु वरदाता महागुणा

8.11

शिखरे समाश्रिता कान्ता दर्भचीवरवासिनी ।
शुभवस्त्रं धारयति एकपादेन तिष्ठति

8.12

सर्वदेवाः समागम्य तां सूत्रवचनं त्विदम् ।
जिह्वाभिमुखं च सत्त्वानां भाषन्तु वचनं शुभम्

8.13

स्याद्यथेदम् । सुरे विरे अरजे अरजवति हि गुले पिङ्गले पिङ्गले वतिमुखे मरीचिसुमति दिशमति अग्रामग्रीतलवितले च वडिविचरी मरिणिपाणये लोकज्येष्ठके प्रियसिद्धिव्रते भीममुखिशचिवरी अप्रतिहते अप्रतिहतबुद्धि नमुचि नमुचि महादेवि प्रतिगृह्ण नमस्कार । सर्वसत्त्वानां बुद्धिरप्रतिहता भवतु विद्या मे सिद्ध्यतु शास्रलोकतन्त्रपिटककाव्यादिषु । ( बग्छि 58 ) तद्यथा । महाप्रभावे हिलि हिलि मिलि मिलि । विचरतु मम विचरतु मे माया सर्वसत्त्वानां च भगवत्या देव्याः सरस्वत्या अनुभावेन कदारके युवति हिलि मिलि आवाहयामि महादेवि बुद्धसत्येन धर्मसत्येन संघसत्येन इन्द्रसत्येन वरुणसत्येन ये लोके सत्यवादिनः सन्ति । तेन तेषां सत्यवचेन आवाहयामि महादेवि । हिलि हिलि मिलि विचरन्तु मम मन्त्रिनो माया सर्वसत्त्वानाम् । नमो भगवत्यै सरस्वत्यै सिद्ध्यन्तु मन्त्रपदाः स्वाहा ॥
अथाचार्यव्याकरणप्राप्तः कौडिन्यो महाब्राह्मणः सरस्वतीं महादेवीमिमाभिर्गाथाभिरभ्यस्तावीत् ॥
शृण्वन्तु मे भूतगणा हि सर्वे स्तोष्यामि देवीं प्रवरोत्तमचारुवक्त्राम् ।
या मातृग्रामे प्रवराग्रदेवी । सदेवगन्धर्वसुरेन्द्रलोके

8.14

नानाविचित्रा समलंकृताङ्गा सरस्वती नाम विशालनेत्रा ।
पुण्योज्ज्वला ज्ञानगुणैर्विकीर्णा नानाविचित्रोत्तमदर्शनीया

8.15

स्तोष्यामि तां वाक्यगुणैर्विशिष्टैः सिद्धिकरायै प्रवरोत्तमायै ।
प्रशस्तभूताय गुणाकरायै विमलोत्तमायै कमलोज्ज्वलायै

8.16

सुलोचनायै नयनोत्तमायै शुभाअश्रयायै शुभदेशनायै ।
गुणैरचिन्त्यैः समलंकृतायै । चन्द्रोपमायै विमलप्रभायै

8.17

ज्ञानाकरायै स्मृतिसमग्रतायै सिंहोत्तमायै नरवाहनायै ।
रत्नमणिबाहुसमलंकृतायै पूर्णशशाङ्कोपमदर्शनायै

8.18

मनोज्ञवाक्याय मृदुस्वरायै गम्भीरप्रज्ञाय समन्वितायै ।
कार्याग्रसाधनसुसत्त्वतायै देवासुरैर्वन्दितपूजितायै ।
सर्वसुरासुरगणालयवन्दितायै भूतगणैः सदा संपूजितायै

8.19

नमः स्वाहा ॥
हे ऽहं देवि नमस्ते सा मे प्रयच्छतु गुण औघम् ॥
सर्वे सत्त्वा विशिष्टसिद्धिं प्रददातु सर्वकार्या ।
नित्यं च रक्षतू मां सर्वान्सत्त्वांश्च शत्रुमध्ये

8.20

एतान् समाप्ताक्षरपूर्णवाक्यान् कल्यं समुत्थाय पठेत्सुवीर्यः ।
सर्वाभिप्राये धनधान्यलाभी सिद्धिं च प्राप्नोति शिवामुदारामिति

मूल पाठ: Suvarṇaprabhāsasūtra · Edition: S. Bagchi: Suvarnaprabhasasutram, Darbhanga: The Mithila Institute, 1967. (Buddhist Sanskrit Texts, 8) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc