सुवर्णप्रभाससूत्र · अध्याय 7
इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे शून्यतापरिवर्तो नाम षष्ठः ॥
॥ चतुर्महाराजपरिवर्तः ॥
अथ खलु वैश्रवणो महाराजो धृतराष्ट्रो महाराजो विरूढको महाराजो विरूपाक्षो महाराज उत्थायसनेभ्य एकांसेन चीवराणि प्रावृत्य दक्षिणजानुमण्डलानि पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचन् । अयं भगवन्, सुवर्णप्रभासोत्तमसूत्रेन्द्रराजः सर्वतथागतभाषितः सर्वतथागतावलोकितः सर्वतथागतसमन्वागतः सर्वबोधिसत्त्वगणनमस्कृतः सर्वदेवगणपूजितः सर्वेदेवेन्द्रगणसंप्रहर्षकः सर्वलोकपालस्तुतः स्तवितो वर्णितः प्रशंसितः सर्वदेवभवनावभासितः सर्वसत्त्वानां परमसुखप्रदायकः सर्वनरकतिर्यग्योनियमलोकदुःखसंशोधकः सर्वभयप्रतिशमनः सर्वपरचक्रप्रतिनिवर्तको दुर्भिक्षकान्तारप्रशमनो व्याधिकान्तारप्रणाशको ज्ञानप्रकाशकः परमशान्तिकरः शोकायासप्रशमनो विविधनानोपद्रव्यप्रशमयितोपद्रवशतसहस्रप्रणाशयिता । इममस्य भदन्त भगवन् सुवर्णप्रभासोत्तमसूत्रेन्द्रराजस्य विस्तरेण पर्षदि संप्रकाश्यमानस्यास्माकं चतूर्णां महाराजानां सबलपरिवाराणाम् । एतेन च धर्मश्रवणेन धर्मामृतरसेन च दिव्यात्मभावमहातेजसा विवर्धयिष्यन्ति ॥ अस्माकं कायेषु वीर्यं च बलं स्थाम च संजनितं भविष्यन्ति । तेजश्च श्रियं च लक्ष्मीं चास्माकं कायेष्वाविशन्ति । वयं भगवंश्चत्वारो महाराजा धार्मिकाश्च धर्मवादिनश्च धर्मराजा धर्मेण वयं भदन्त भगवन् देवनागयक्षगन्धर्वासुरगरुडनरमहोरगाणां राजत्वं कारयिष्यामः । ते वयं भगवन्, चत्वारो महाराजाः सार्धमष्टाविंशतियक्षसेनापतिभिरनेकैश्च यक्षशतसहस्रैः सततसमितं सर्वे जम्बुद्वीपं दिव्येन विशुद्धेनातिक्रान्तमानुष्यकेण व्यवलोकयिष्याम आरक्षयिष्यामः परिपाचयिष्यामः । तेन हेतुना भदन्त भगवन्नस्माकं चतुर्णां महाराजानां लोकपाल इति संज्ञोत्पादिता ॥
ये केचिद्भदन्त भगवन्नस्मिन् जम्बुद्वीपे विपर्यासाः परचक्रेण चोपहता भविष्यन्ति, दुर्भिक्षकान्तरेण वा नानाविधैरुपद्रवशतैरुपद्रवसहस्रैरुपद्रवशतसहस्रैरुपहता भविष्यन्ति, ते वयं भदन्त भगवन् चत्वारो महाराजा इदमस्य सुवर्णप्रभासोओत्तमसूत्रेन्द्रराजस्य तेषां च सूत्रेद्रधारिणां भिक्षूणां संचोदनां करिष्यामः । यदा चेमे भदन्त भगवन् धर्मभाणका भिक्षवो ऽस्माकं चतुर्णां महाराजानां संचोदनया बुद्धाधिष्ठानेन च येषु विषयेषूपसंक्रमेयुस्तेषु ते विषयेषुः चेमं सुवर्णप्रभासोत्तमसूत्रेन्द्रराजं विस्तरेण संप्रकाशयेयुः । य इमान्येवंरूपाणि विषयगताति नानाविधान्युपद्रवशतान्युपद्रवसहस्रान्युपद्रवशतसहस्राणि च प्रशमयिष्यन्ति ॥
यस्य च भदन्त भगवन् मनुष्यराजस्य विषये ते सूत्रेन्द्रधारका भिक्षवा धर्मभाणाका उपसंक्रान्ता भविष्यन्ति । अयं च मनुष्यराज इमं सुवर्णप्रभाससूत्रेन्द्रराजं शृण्यात् । श्रुत्वा च तेषां सूत्रेन्द्रधारकाणां भिक्षूणां सर्वप्रत्यर्थिकेभ्य आरक्षां कुर्यात् परित्राणं परिग्रहं परिपालनं कुर्यात् । ते वयं भदन्त भगवन् चत्वारो महाराजास्तस्य मनुष्यराजस्य सर्वविषयगतानां च सत्त्वानामारक्षां करिष्यामः परित्राणं परिग्रहं परिपालनं शान्तिस्वस्त्ययनं करिष्यामः । यदा च भदन्त भगवन् सर्वमनुष्यराजः सूत्रेन्द्रधारकाणां भिक्षुभिक्षुण्युपासकोपासिकानां सर्वसुखोपधानैः सुखतां कुर्यात् । ते वयं भदन्त भगवन् चत्वारो महाराजास्तं मनुष्यराजं सर्वराजेभ्यः सत्कृततरं करिष्यामो गुरुकृतं च करिष्यामो मानितं च पूजितं च सर्वविषयेषु च प्रसंशनीयं करिष्यामः ।
अथ खलु भगवांश्चतुर्णां महाराजानां साधुकारमदात् । साधु साधु महाराजाः साधु साधु युष्माकं महाराजाः । यथापि ते यूयं पूर्वजिनकृताधिकारा अवरोपितकुशलमूला बहुबुद्धकोटीनियुतशतसहस्रपर्युपासिता धर्मिकाश्च धर्मवादिनश्च धर्मेण देवानां च मनुष्याणां च राजत्वं कारयध्वम् । यथापि पूर्वदीर्घरात्रं सर्वसत्त्वानां हितचित्ताः सुखमैत्रीचित्ताः सर्वसत्त्वहितसुखाध्याशयप्रतिपन्नाः ( बग्छि 38 ) सर्वाहितप्रतिषेधिकाः सर्वसत्त्वानां सर्वहितोपसंहाराभियुक्ताः । ते यूयं चत्वारो महाराजास्तेषां मनुष्यराजस्य च सुवर्णप्रभासोत्तमसूत्रेन्द्रराजस्य पूजासत्काराभियुक्तानामारक्षां करिष्यत परित्राणं परिग्रहं परिपालनं शान्तिस्वस्त्ययनं करिष्यत । तेन युष्माभिश्चतुर्महाराजैः सबलपरिवारैरनेकैश्च यक्षशतसहस्रैरतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां धर्मनेत्र्यारक्षिता भविष्यति परिपालिता च परिगृहीता च भविष्यति । तेन युष्माकं चतुर्णां महाराजानां सबलपरिवाराणमनेकेषां यक्षशतसहस्राणां देवानां देवासुरसंग्रामे जयो भविष्यति, असुराणां च परिजयो भविष्यति । सर्वपरचक्रप्रमर्दकस्य सुवर्णप्रभासोत्तमसूत्रेन्द्रराजस्यार्थाय तेषां सूत्रेन्द्रधारकाणां भिक्षुभिक्षुण्युपासकोपासिकानामारक्षां करिष्यत परित्राणं परिग्रहं परिपालनं शान्तिस्वस्त्ययनं करिष्यत ॥
अथ वैश्रवणो महाराजो धृतराष्ट्रो महाराजो विरुढको महाराजो विरूपाक्षो महाराज उत्थायासनेभ्य एकांसानि चीवरैः प्रावृत्य दक्षिणानि जानुमण्डलानि पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचन् । अयं भदन्त भगवन्, सुवर्णप्रभासोत्तमसूत्रेन्द्रराजो ऽनागते ऽध्वनि यत्र ग्रामनगरनिगमजनपदराष्ट्रराजधानीषु प्रचरिष्यति यस्य यस्य मनुष्यराजस्य विषयमनुप्राप्तो भविष्यति । कश्चिद्भदन्त भगवन्मनुष्यराजो भगवन् येनानेन देवेन्द्रसमयेन राजशास्रेण राजत्वं कारयेत् । अस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य श्रोता भवंस्ताश्च सूत्रेन्द्रधारका भिक्षुभिक्षुण्युपासकोपासिकाः सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेत्सततसमितं सुवर्णप्रभासोत्तमसूत्रेन्द्रराजं शृणुयात् । अनेन धर्मश्रवणेन संचोदनधर्मामृतपुण्यात्मकानामस्माकं चतुर्णां महाराजानां सकलपरिवाराणामनेकेषां च यक्षराक्षसशतसहस्राणामिमान् दिव्यात्मभावान् महतौजसा विवर्धयेत् । महान्तं वीर्यं च स्थाम च बलं चास्माकं कायेषु तेजःश्रियश्च लक्ष्मी चास्माकं विवर्धयेत् । तेन वयं भदन्त भगवंश्चत्वारो महाराजाः सबलपरिवारा अनेकैः ( बग्छि 39 ) यक्षशतसहस्रैरदृश्यद्भिः कायात्मभावैरेतर्हि चानागते ऽध्वनि यत्र ग्रामनगरनिगमजनपदराष्ट्रराजधानीषूपसंक्रमिष्यामः तत्रायं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजः प्रचरिष्यति । तेषां च मनुष्यराजानामस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य श्रोतॄणां मातापितॄणां चारक्षां करिष्यामः । परित्राणं परिपालनं दण्डपरिहारं शस्रपरिहारं शान्तिस्वस्त्ययनं च करिष्यामः । तेषां च राजकुलानां तेषां च राष्ट्राणां तेषां च विषयाणामारक्षां करिष्यामः । परित्राणं परिग्रहं परिपालनं दण्डपरिहारं शस्रपरिहारं शान्तिस्वस्त्ययनं करिष्यामः । तांश्च विषयान् सर्वभयोपायासेभ्यः परिमोचयिष्यामः परचक्राणि च प्रतिनिवर्तयिष्यामः ।
यः कश्चित् तस्य मनुष्यराजस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य श्रोतुर्मानयितुः पूजयितुरन्यः सामन्तकः प्रतिशत्रुराजा भवेत् । यदा च भदन्त भगवंस्तस्य सामन्तकस्य प्रतिशत्रो राज्ञ एवं चित्तमुत्पादेत् । सो ऽहं चतुरङ्गेन बलकायेन सार्धमस्य विषयमुपसंक्रमेयं विनाशयितुम् । तेन खलु पुनर्भदन्त भगवान् कालेन तेन समयेनास्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य तेजो ऽनुभावेन तस्य सामन्तकस्य प्रतिशत्रुराजस्यान्यै राजभिः सार्धं संग्रामे भविष्यति । स्वविषयगताश्च विषयविलोपाश्च भविष्यन्ति । दारुणाश्च राजसंक्षोभा भविष्यन्ति । ग्रहरोगाश्च विषये प्रादुभूता भविष्यन्ति । नानाव्याक्षेपशतानि विषये प्रादुर्भूतानि भविष्यन्ति । यदा च भदन्त भगवंस्तस्य सामन्तकस्य प्रतिशत्रुराजस्य स्वविषयगतान्येवंरूपाणि नानोपद्रवशतानि नानाव्यक्षेपशतानि भवेयुः । स च भदन्त भगवन् सामन्तकप्रतिशत्रुराजश्चतुरङ्गीणीं सेनां योजयित्वा परचक्रगमनाय स्वविषयान्निष्क्रान्तो भवेत् । यत्रायं सुवर्णप्रभासोत्तमः सुत्रेन्द्रराजो भवेत् स प्रतिशत्रुराजः सार्धं चतुरङ्गबलकायेन तं विषयमुपसंक्रमितुकामो भवेत् । तं विनाशितुकामो भवेत् । ते वयं भदन्त भगवञ्चत्वारो महाराजाः सबलपरिवारा अनेकैर्यक्षराक्षसशतसहस्रैरदृश्यैरात्मभावैस्तत्रोपसंक्रमिष्यामः तं परचक्रमध्वानं मार्गप्रतिपन्नं ( बग्छि 40 ) तथैव प्रतिनिवर्तयिष्यामो नानाव्याक्षेपशतानि चोपसंहरिष्यामो विघ्नांश्च करिष्यामः । यथा च तत्परचक्रं न शक्ष्यति तत्र विषय उपसंक्रमितुम् । कुतः पुनर्विनाशं करिष्यति ॥
अथ खलु भगवांस्तेषां चतुर्णां महाराजानां साधुकारमदात् । साधु साधु महाराजाः साधु खलु पुनर्युष्माकं महाराजानाम् । यद्यूयमत्या असंख्येयकल्पकोटीनियुतशतसहस्रसमुदानीताया अनुत्तरायाः सम्यक्संबोधेरर्थाय तेषां मनुष्यराजानामस्य च सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य श्रोतॄणामारक्षां करिष्यथ । परित्राणं परिग्रहं परिपालनं शान्तिस्वस्त्ययनं करिष्यथ । तानि च राजकुलानि तानि नगराणि तानि च राष्ट्राणि तानि च विषयाण्यारक्षयिष्यथ । परित्राणं परिग्रहं परिपालनं दण्डपरिहारं शस्रपरिहारं शान्तिस्वस्त्ययनं करिष्यथ । तानि च विषयाणि सर्वमयोपद्रवोपसर्गापायासेभ्यः परिमोचयिष्यथ । परचक्राणि च निवर्तयिष्यथ । सर्वजम्बुद्वीपगतानां चास्य मनुष्यराजस्याकलहयाभण्डनयाविग्रहया विवादयौत्सुक्यमपपद्यथ । यथा च ते युष्माकं चतुर्णां महाराजानां सबलपरिवाराणामस्मिञ्जम्बुद्वीपे तेषु चतुर्षु नगरसहस्रेषु तानि चतुरशीतिनगरसहस्राणि तेषु तेषु विषयेष्वभिरमेयुस्तेन च राज्यैश्वर्येणाभिरमेयुस्तेन च धनस्कन्धेन परस्परं न विहेठयेयुः । न परस्परं विहेठं जनयेयुः । स्वेन च यथा पूर्वकर्मोपचयेन राजत्वं प्रतिलभेयुः । स्वेन च राज्यैश्वर्येण च तुष्टा भवेयुः । न च परस्परेण विनाशयेयुः । न विषेय विनाशाय परक्रमेयुः ॥
यथा चास्मिञ्जम्बुद्वीपे तेषु चतुरशीतिषु विषयनगरसहस्रेषु तानि चतुरशीतिराज सहस्राणि परस्परेण हितचित्तानि मैत्रीचित्तानि सुखचित्तानि परस्परेण कलहयाभण्डनयाविग्रहयाविवादया स्वेषु स्वेषु विषयेष्वभिरमेरन्तेन पुण्येन चतुर्णां महाराजानां सबलपरिवाराणामयं च जम्बुद्वीपः स्फीतो भविष्यति । सुभिक्षश्च रमणीयश्च बहुजनसमाकीर्णश्चर्द्धश्चौजोवतरश्च भविष्यति । ऋतुमासार्धमाससंवत्सराणि च सर्वाणि समाचारयुक्तानि भविष्यन्ति । अहोरात्रं ग्रहनक्षत्रचन्द्रसूर्याश्च समाग्रहिष्यन्ति । कालेन च वर्षधाराः पृथिव्यां निपतिष्यन्ति । सर्वजम्दुद्वीपगतानि च सत्त्वानि सर्वधनधान्यसमृद्धानि भविष्यन्ति । महाभोगानि चामत्सराणि च भविष्यन्ति । परित्यागवन्ति दशकुशलकर्मपथसमन्वागतानि च भविष्यन्ति । यद्भूयसा सुगतौ स्वर्गलोक उपपत्स्यन्ते । देवभुवनानि चाकीर्णानि भविष्यन्ति देवैर्देवपुत्रैश्च ॥
यत्कश्चिन्महाराजो भवेद् य इत्थमस्य सुवर्णप्रभासत्तमस्य सूत्रेन्द्रराजस्य श्रोता भवेन्मानयिता च पूजयिता च तेषां च सूत्रेन्द्रधारकाणां भिक्षुभिक्षुण्युपासकोपासिकानामौत्सुक्यं सत्कुर्याद् गुरुकुर्यान्मानयेत्पूजयेत् । युष्माकं चतुर्णां महाराजानां सबलपरिवाराणामनेकेषां च यक्षशतसहस्राणामनुकम्पार्थाय सततसमितं सुवर्णप्रभासोत्तमं सूत्रेन्द्रराजेन्द्रं शृण्वन् । अनेन धर्मश्रवणसलिलोदकेन युष्माकमेतान्यात्मभावानि संतर्पयेत् । महतौजसा युष्माकमेतानि शरीराणि विवर्धयेत् । महच्च युष्माकं वीर्यं च स्थाम बलं च वपुषः संजनयेत् । तेजश्च श्रियश्च लक्ष्मीश्च युष्माकं विवर्धयेत् । तेन च मनुष्यराजेन मम शाक्यमुनेस्तथागतस्यार्हतः सम्यक्संबुद्धस्याचिन्त्या महाविपुलविस्तीर्णा पूजा कृता भविष्यति । तेन तस्य मनुष्यराजेनातीतानागतप्रत्युत्पन्नानां बुद्धानामनेकेषां तथागतानां कोटीनियुतशतसहस्राणामचिन्त्या महती विस्तीर्णा सर्वोपकरणैः पूजा कृता भविष्यति । तेन तस्य मनुष्यराजस्य महत्यारक्षा कृता भविष्यति । तेन च तस्य राज्ञो रक्षां परित्राणं परिग्रहं परिपालनं दण्डपरिहारं शस्रपरिहारं शान्तिस्वस्त्ययनं कृतं भविष्यति । अग्रमहिष्याश्च राजपुत्राणां च सर्वान्तःपुरस्य च राजकुलस्य च सर्वस्य महत्यारक्षा कृता भविष्यति । परित्राणं परिग्रहं परिपालनं शान्तिस्वस्त्ययनं कृतं भविष्यति । राजकुलनिवासन्यश्च सर्वदेवता ओजोवत्तराश्च चित्तेन सुखसौमनस्येन समन्वागता भवितारो रतिमनुभविष्यन्ति । तानि च राष्ट्राणि तानि च विषयाणि चारक्षितानि भविष्यन्ति । परिपाचितानि चानुत्पीडितानि चाकण्टकानि भविष्यन्ति । सर्वपरचक्रान्यवमर्दितानि चानुपसर्गाणि चानुपायासानि चेति ॥
एवमुक्ते वैश्रवणो महाराजो धृतराष्ट्रो महाराजो विरूढको महाराजो विरूपाक्षो महाराजस्ते सर्वे भगवन्तमेतदवोचन् । तेन च भगवन्मनुष्यराजेन सुस्नातगात्रेण भवितव्यं सुगन्धवासनधारिणा नवरुचिरवस्त्रप्रावृतेन नानालंकारविभूषितेन भवितव्यम् । आत्मनश्च नीचतरमासनं प्रज्ञपयितव्यम् । तत्रासने निषीदित्वा राज्यमदमत्तेन न भवितव्यम् । न चोच्चै राज्ञा स्वयं प्रज्ञपयितव्यम् । शाठ्यमानमददर्पविवर्जितेन चित्तेनायं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजः श्रोतव्यः । तस्य च धर्मभाणकस्य भिक्षोरन्तिके शास्तृसंज्ञोत्पादयितव्या । तेन मनुष्यराजेन तस्मिन्काले तस्मित्समये ऽग्रमहिषी राजपुत्राश्च राजदुहितरश्च सर्वान्तःपुरगणाश्च ( बग्छि 42 ) प्रियहिताभ्यां प्रेक्षितव्याः । प्रियवचनैश्चाग्रमहिषी राजपुत्राश्च राजदुहितरश्च सर्वान्तःपुरगणाश्च आलपयितव्याः । नानाविचित्राश्च धर्मश्रवणपूजा आज्ञापयितव्याः । अचिन्त्ययातुल्यया प्रीत्यात्मानं संतर्पयितव्यम् । अचिन्त्येन प्रीतिसुखेन सुखापयितव्यम् । सुखेन्द्रियेण च भवितव्यम् । आत्मनश्च महाबलेन भवितव्यम् । महता प्रहर्षेणात्मा प्रहर्षयितव्यः । महता प्रेमजातेन धर्मभाणकः प्रत्युत्थातव्यः ॥
एवमुक्ते भगवांस्तांश्चतुरो महाराजानेतदवोचत् । तस्मिंश्च खलु पुगर्महारजाः काले तस्मिन्समये तेन मनुष्यराजेन सर्वश्वेतानि पाण्डुराणि नवरुचिवस्त्राणि प्रावरितव्यानि । नानाविभूषणालंकारैरात्मा समलंकर्तव्यं । महता राजानुभावेन महता राजव्यूहेन नानाविचित्ररत्नमङ्गलपरिगृहीतैस्ततो राजकुलादभिनिष्क्रमितव्यम् । तस्य च धर्मभाणकस्य भिक्षोः प्रत्युद्गमनाय गन्तव्यम् । तत्कस्य हेतोः? यावन्ति मनुष्यराजस्तत्र पदानि भावयति तावन्ति कल्पकोटीनियुतशतसहस्राणि संसारात्पराङ्मुखानि करिष्यति तावतां चक्रवर्तिराजकुलकोटीनियुतशतसहस्राणां लाभी भविष्यति । यावन्ति स तत्र पदान्यतिक्रमिष्यति तावतां चैव दृष्टधार्मिकेणाचिन्त्येन महता राज्यैश्वर्येण विवर्धिष्यते । अनेककल्पकोटीनियुतशतसहस्राणामुदारोदाराणां चावस्थानानां सप्तरत्नमयानां दिव्यविमानानां लाभी भविष्यति । अनेकेषां च दिव्योदाराणां मानुष्यकाणां राजकुलपुत्रशतसहस्राणां लाभी भविष्यति । सर्वत्र च जातिषु महैश्वर्यप्राप्तो भविष्यति । दीर्घायुष्कश्च भविष्यति । चिरंजीवी च भविष्यति । प्रतिभाणवांश्चादेयवचनश्च यशस्वी च सुविशालकीर्तिश्च भविष्यति । सदेवमानुषासुरस्य लोकस्य सुखितश्च भविष्यति । उदारोदाराणां च दिव्यमानुष्यकाणां सुखानां लाभी भविष्यति । महाबलश्च महानग्नबलवेगधारी चाभिरूपः प्रासादिको दर्शनीयः परमया शुभवर्णपुष्करतया समन्वागतश्च भविष्यति । सर्वत्र जातिषु तथागतसमवधानगतो भविष्यति । सर्वकल्याणमित्राणि च प्रतिलप्स्यते । अपरिमितपुण्यस्कन्धस्य परिगृहीतो भविष्यति ॥
इमन्येवंरूपाणि महाराजगुणानुशंसानि संपश्यमानेन तेन राज्ञा धर्मभाणको योजनात्प्रत्युत्थातव्यः । तस्य धर्मभाणकस्यान्तिके शास्तृसंज्ञोत्पादयितव्या । एवं चित्तमुत्पादयितव्यम् । अद्य मम शाक्यमुनिस्तथागतो ऽर्हन्सम्यक्संबुद्ध इह राजकुले प्रवेक्ष्यति । अद्य मम शाक्यमुनिस्तथागतो ऽर्हन्सम्यक्संबुद्ध इह राजकुले स्वजनमनुशसिष्यते । सर्वलोकविप्रत्ययनीयं धर्मश्रवणं श्रोष्यामि । ( बग्छि 43 ) अद्याहमनेन धर्मश्रवणेनावैवर्तिको भविष्याम्यनुत्तरायां सम्यक्संबोधौ । अद्य मया तथागतकोटीनियुतशतशस्राण्यारागितानि भविष्यन्ति । अद्य मयातीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतामचिन्त्या महती विपुला विस्तीर्णा पूजा कृता भविष्यति । अद्य मम नरकगतितिर्यग्योनियमलोकदुःखान्यन्तशः समुच्छिन्नानि भविष्यन्ति । अद्य मयानेकानां ब्रह्मेन्द्रराजत्वकोटीनियुतशतसहस्रात्मभावप्रतिलब्धानां कुशलमूलबीजान्यवरोपितानि भविष्यन्ति । अद्य मयानेकानां शक्रकोटीनियुतशतसहस्रात्मभावप्रतिलब्धानां कुशलमूलान्यवरोपितानि भविष्यन्ति । अद्य मयानेकानि चक्रवर्तिराजकोटीनियुतशतसहस्रात्मभावप्रतिलब्धानां कुशलमूलबीजान्यवरोपितानि भविष्यन्ति । अद्य मया सत्त्वकोटीनियुतशतसहस्राणि संसारात्परिमोचितानि भविष्यन्ति । अद्य मयाचिन्त्यसुविपुलविस्तीर्णापारमितपुण्यस्कन्धः परिगृहीतो भविष्यन्ति । अद्य मम सर्वान्तःपुरस्य महत्यारक्षा कृता भविष्यन्ति । अद्य मम राजकुले ऽचिन्त्या समबिशिष्टानुत्तरा महती शान्तिः कृता भविष्यति स्वस्त्ययनं च । अद्य ममायं सर्वविषय आरक्षितो भविष्यति । परिपालितश्चानुत्पीडितश्चानुत्कण्ठिकश्च सर्वपरचक्रानवमर्दितश्चानुपसर्गश्चानुपायासश्च भविष्यति ॥
यदा च महाराजाः स मनुष्यराजो ऽनेनैवंरूपेण सद्धर्मगौरवेण सुवर्णप्रभासोत्तमसूत्रेन्द्रराजधारका भिक्षुभिक्षुण्युपासकोपासिकाः सत्कुर्याद्गुरुकुर्यान्मानयेद्युष्माकं चतुर्णां महाराजानां सबलपरिवाराणां तेषां च देवगणानामनेकेषां च यक्षशतसहस्राणां महा तथा धर्माङ्गप्रत्यक्षं दद्यात् येन चैवासौ मनुष्यराजः पुण्यभिसंस्कारेण कुशलाभिसंस्कारेण च तेनैव चात्मभावेन च दृष्टधार्मिकेणाचिन्त्येन महता राज्यैश्वर्येण विवर्धयिष्यति । दृष्टधार्मिकेणाचिन्त्येन महता राजतेजसा समन्वागतो भविष्यति । श्रिया च तेजसा च लक्ष्म्या चालंकृतो भविष्यति । सर्वप्रत्यर्थिकाश्च सर्वशत्रवश्च सहधर्मेण सुनिगृहीता भविष्यन्ति ॥
एवमुक्ते चत्वारो महाराजा भगवन्तमेतदवोचन् । यः कश्चिद्भदन्त भगवन्मनुष्यराजो भवेत् सो ऽनेनैवंरूपेण धर्मगौरवेणेमं सुवर्णप्रभासोत्तमं सूत्रेन्द्रराजं शृणुयात् । ताश्च सूत्रेन्द्रधारका भिक्षुभिक्षुण्युपासकोपासिकाः सत्कुर्याद्गुरुकुर्यान्मानयेत्पूजयेत् । अस्माकं चतुर्णां महाराजानामर्थाय तद्राजकुलं सुशोधितं शोधयेत् । नानागन्धोदकसंसिक्तं कुर्यात् । तं च धर्मश्रावणमस्माभिश्चतुर्भिश्च महाराजैः सार्धं साधारणं शृण्यादात्मनो ऽर्थाय सर्वदेवता च किंचिन्मात्रं कुशलं प्रत्यक्षं दद्यात् । समन्तरनिषण्णस्य च भदन्त भगवंस्तस्य भिक्षोर्धमासनगतस्य तेन मनुष्यराजेनास्माकं चतुर्णां महाराजानामर्थाय नानागन्धा धूपयितव्याः । सहधूपितेषु भदन्त भगवंस्तस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य पूजार्थाय नानागन्धेषु नानागन्धधूपलता निश्चरन्ति । तस्मिन्नेव क्षणलवमुहूर्ते ऽस्माकं चतुर्णां महाराजानां स्वकस्वकभवनगतान्युपर्यन्तरीक्षे नानागन्धधूपलताछत्राणि संस्थास्यन्ति । उदारांश्च गन्धानाघ्रास्यन्ति । सुवर्णवर्णमयाश्चावभासाः प्रादुर्भविष्यन्ति । तेन चावभासेनास्माकं भवनान्यवभासितानि भविष्यन्ति । ब्रह्मणः सहांपतेः शक्रस्य च देवानामिन्द्रस्य सरस्वत्याश्च महादेव्या दृढायाश्च महादेव्याः श्रियश्च महादेव्याः संजयस्य च महायक्षसेनापतेरष्टाविंशतीनां च महायक्षसेनापतीनं महेश्वरस्य च देवपुत्रस्य वज्रपाणेश्च महायक्षसेनापतेर्माणिभद्रस्य च महायक्षसेनापतेर्हारीत्याश्च पञ्चपुत्रशतपरिवाराणामनवतप्तस्य च नागराजस्य चैतेषां भदन्त भगवन्स्वकस्वकभवनगतानाम् । तेन क्षणलवमुहूर्तेनोपर्यन्तरीक्षे नानागन्धधूपलताछत्राणि संस्थास्यन्ति । उदारांश्च नानागन्धानाघ्रास्यन्ति । सुवर्णवर्णमयाश्चावभासाः प्रादुर्भविष्यन्ति । तया चावभासया सर्वभवनान्यवभासितानि भविष्यन्ति ॥
एवमुक्ते भगवांश्चतुरो महाराजानेतदवोचत् । न केवलं युष्माकं चतुर्णां महाराजानां स्वकस्वकभवनगतानामुपर्यन्तरीक्षगताति नानागन्धधूपलताछत्राणि संस्थास्यन्ति । तत्कस्य हेतोः? सहप्रधूपिताश्च महाराजास्तेन मनुष्यराजेन नानागन्धा अस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य पूजोपस्थानाय । ततश्चैव धूपकुण्डहस्तपरिगृहीता नानागन्धधूपलता निश्चरिष्यन्ति । तेन क्षणलवमुहूर्तेन सर्वस्यामस्यां त्रिसाहस्रमहासाहस्रायां लोकधातौ यत्र कोटीशतं चन्द्राणां ( बग्छि 45 ) कोटीशतं सुमेरूणां पर्वतराजानां कोटीशतं चक्रवाडमहाचक्रवाडानां पर्वतराजानां कोटीशतं चतुर्महाद्वीपानां कोटीशतं चतुर्महाराजकायिकानां देवानां कोटीशतं त्रयस्त्रिंशानां देवानां कोटीशतं यावन्नैवसंज्ञायतनोपगानां देवानाम् । सर्वत्र च तेषु त्रिसाहस्रमहासाहस्रलोकधातुकोटीशतेषु त्रयस्त्रिंशेषु देवनिकायेषु सर्वेषां च देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगाणां च भवनगतानां चोपर्यन्तरीक्षगतानि नानागन्धधूपलताछत्राणि संस्थास्यन्ति । उदारांश्च नानागन्धानाघ्रास्यन्ति । सुवर्णवर्णमयाश्चावभासाः प्रादुर्भविष्यन्ति । ताभिश्चावभासाभिः सर्वभवनान्यवभासितानि भविष्यन्ति । रत्नच्छत्राणि संस्थास्यन्ति । उदारोदाराञ्च गन्धानाघ्रास्यन्ति सर्वदेवभवनेषु सुवर्णवर्णावभासाः प्रादुर्भविष्यन्ति । तेन चावभासेन सर्वदेवभवनान्यवभासितानि भविष्यन्ति । यथा त्रिसाहस्रमहासाहस्रायां लोकधातौ सर्वदेवभवनान्युपर्यन्तरीक्षे तानि नानागन्धधूपलताछत्राणि संस्थास्यन्ति । तथा चास्य महाराजाः सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य तेजसा कुण्डहस्तेन धूपितास्तेन मनुष्यराजेन नानागन्धा अस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य पूजार्थाय नानागन्धधूपलताछत्राणि संस्थास्यन्ति । तेन क्षणलवमुहूर्तेन समन्ताद्दशसु दिक्ष्वनेकेषु गङ्गानदीवालुकोपमेषु बुद्धक्षेत्रकोटीनियुतशतसहस्रेष्वनेकेषां गङ्गानदीवालुकासमानां तथागतकोटीनियुतशतसहस्राणामुपर्यन्तरीक्षे तानि नानागन्धधूपलताछत्राणि संस्थास्यन्ति । तेषु वालुकोपमेषु बुद्धकोटीनियुतशतसहस्रेष्वुदारोदारान्नानागन्धधूपानाघ्रास्यन्ति । सुवर्णवर्णमयावभासाः प्रादुर्भविष्यन्ति । तेन चावभासेन तान्यनेकानि गङ्गानदीवालुकोपमानि बुद्धक्षेत्रकोटीनियुतशतसहस्राण्यभासितानि भविष्यन्ति । समनन्तरप्रादुर्भूतानि च महाराजा इमान्येवंरूपाणि महाप्रातिहार्याणि तान्यनेकानि गङ्गानदीवालुकासमानि बुद्धक्षेत्रकोटीनियुतशतसहस्राणि प्रतिष्ठितास्तथागतास्तं च धर्मभाणकं समन्वाहरिष्यन्ति । साधुकाराणि च प्रदास्यन्ति साधु साधु सत्पुरुष साधु पुनस्त्वं सत्पुरुष । यस्त्वमिममेवंरूपं गम्भीरमेवं गम्भीरार्थमेवं गम्भीरावभासमेवमचिन्त्यगुणधर्मसमन्वागतं सुवर्णप्रभासोत्तमं सूत्रेन्द्रराजं विस्तरेण संप्रकाशयितुकामः । ( बग्छि 46 ) न चैते सत्त्वा इतरेण कुशलमूलेन समन्वागता भविष्यन्ति । य इमं सुवर्णप्रभासोत्तमं सूत्रेन्द्रराजमन्तशः श्रोष्यन्ति, प्रागेवोद्ग्रहीष्यन्ति धारयिष्यन्ति लिखिष्यन्ति लिखापयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति । विस्तरेण पर्षदि संप्रकाशयिष्यन्ति देशयिष्यन्त्युद्देक्ष्यन्ति स्वाध्यायिष्यन्ति योनिशो मनसि भावयिष्यन्ति । तत्कस्य हेतोः? सहश्रवणेनास्य पुरुषस्य सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्यानेकानि बोधिसत्त्वकोटीनियुतशतसहस्राण्यवैवर्तिकानि भविष्यन्त्यनुत्तरायाः सम्यक्सबोधेः ॥
अथ खलु तानि समन्ताद्दशसु दिक्षु गङ्गानदीवालुकोपमेषु बुद्धक्षेत्रकोटीनियुतशतसहस्रेष्वनेकानि तथागतकोटीनियुतशतसहस्राणि स्वकस्वकेषु बुद्धक्षेत्रेषु प्रतिष्ठितानि तेन कालेन तेन समयेनैकपादेनैकवाचैकस्वरनिर्घोषेण तस्य धर्मभाणकस्य भिक्षोर्धर्मासनगतस्यैतदूचुः । उपसंक्रमिष्यसि त्वं सत्पुरुषानागते ऽध्वनि बोधिमण्डम् । प्रदर्शयिष्यसि त्वं सत्पुरुष बोधिमण्डवराग्रगतो द्रुमराजमूलोपविष्टः सर्वत्रैलोक्यप्रतिविशिष्टानि सर्वसत्त्वांस्त्रिकालान्तराणि व्रततपश्चरणबलाधानान्यधिष्ठानान्यधिष्ठितान्यनेकानि दुष्करकल्पकोटीनियुतशतसहस्राणि समलंकरिष्यसि त्वं सत्पुरुष बोधिमण्डम् । परित्रायिष्यसि त्वं सत्पुरुष सर्वांस्त्रिसाहस्रमहासाहस्रलोकधातून् । पराजयिष्यसि त्वं सत्पुरुष द्रुमराजमूलोपविष्टः कृतिमरूपपरमबीभत्सदर्शनं नानाविकृतरूपमचिन्त्यमारसैन्यम् । अभिसंभोत्स्यसि त्वं सत्पुरुष बोधिमण्डवराग्रगतो ऽनुपमप्रशान्तविरजस्कगम्भीरामनुत्तरां सम्यक्संबोधिम् । प्रवर्तयिष्यसि त्वं सत्पुरुषार्यसारदृढवज्रासनोपविष्टः सर्वजनाभिसंस्तुतं परमगम्भीरं द्वादशाकारमनुत्तरधर्मचक्रम् । पराहनिष्यसि त्वं सत्पुरुषानुत्तरं धर्मगञ्जवाद्यम् । आपूरयिष्यसि त्वं सत्पुरुषानुत्तरं महाधर्मशङ्खम् । उच्छ्रयिष्यसि त्वं सत्पुरुष महाधर्मध्वजम् । प्रज्वलयिष्यसि त्वं सत्पुरुषानुत्तरां धर्मोल्काम् । प्रवर्षयिष्यसि त्वं सत्पुरुषानुत्तरं महाधर्मवर्षम् । पराजयिष्यसि त्वं सत्पुरुषनेकानि क्लेशशतसहस्राणि । प्रतारयिष्यसि त्वं सत्पुरुषानेकानि सत्त्वकोटीनियुतशतसहस्राणि सुभीमान्महाभयसमुद्रात् । परिमोचयिष्यसि त्वं सत्पुरुषानेकानि सत्त्वकोटीनियुतशतसहस्राणि संसारचक्रात् । आरागयिष्यसि त्वं सत्पुरुषानेकानि तथागतकोटीनियुतशतसहस्राणि ॥
एवमुक्ते चत्वारो महाराजा भगवन्तमेतदवोचन् । अस्य भदन्त भगवन्सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्येमान्येवंरूपाणि दृप्धार्मिकाणि मारपराजयिकानि च गुणानि संपश्यमानस्य बुद्धसहस्रावरुप्तकुशलमूलस्य मनुष्यराजस्यानुकम्पाच्चापरिमितपुण्यस्कन्धपरिग्रहं संपश्यमानास्ते वयं भदन्त भगवंश्चत्वारो महाराजाः सबलपरिवारा अनेकैर्यक्षशतसहस्रैः सार्धं स्वभवनगता नानागन्धधूपलताछत्राः संचोदिताः समाना अदृश्यैरात्मभावैर्येन तस्य मनुष्यराजस्योपगतसंस्कारकूटसुशोधितं नानागन्धोदकसुसंसिक्तं नानालंकारसमलंकृतं राजकुलं तेनोपसंक्रमिष्यामो धर्मश्रवणाय । ब्रह्मा च सहांपतिः शक्रश्च देवानामिन्द्रः सरस्वती च महादेवी श्रीश्च महादेवी दृढा च पृथिवीदेवता संजयश्च महायक्षसेनापतिरष्टाविंशतिमहायक्षसेनापतयश्च महेश्वरश्च देवपुत्रो वज्रपाणिश्च गुह्यकाधिपतिर्माणिभद्रश्च महायक्षसेनापतिर्हारीती च पञ्चपुत्रशतपरिवारा अनवतप्तश्च नागराजः सागरश्च नागराजः । अनेकानि च देवकोटीनियुतशतसहस्राण्यदृश्यैरात्मभावैर्येन तस्य मनुष्यराजस्य तत्र त नानालंकारसमलंकृतं राजकुलं यत्र तस्य धर्मभाणकस्य भिक्षोः पुष्पाभिकीर्णायां धरण्यां शौचप्रगृहीतं नानालंकारसमलंकृतं यत्र यत्र धर्मभाणकस्य भिक्षोः पुष्पाभिकीर्णायं धरण्यां शौचप्रगृहीतं नानालंकारसमलंकृतं यत्र यत्र धर्मासनं प्रज्ञप्तं तत्र भविष्यन्ति धर्मश्रवणाय ॥
ते वयं भदन्त भगवंश्चत्वारो महाराजा अनेकैर्यक्षशतसहस्रैरेभिश्च सर्वैः सार्धं समग्रा भविष्यामस्तस्य मनुष्यराजस्य कल्याणमित्रसहायकस्य कल्याणसंप्रापकस्यानुत्तरमहारसोदारदातुरनेन धर्मामृतरसेन संतर्पिताः संतर्प्य तस्य मनुष्यराजस्यारक्षां करिष्यामः । परित्राणं परिग्रहं परिपालनं शान्तिस्वस्त्ययनं करिष्यामः । तस्य राजकुलस्य च नगरस्य च विषयस्य च रक्षां करिष्यामः । परित्राणं परिग्रहं परिपालनं शान्तिस्वस्त्ययनं करिष्यामं । तच्च विषयं सर्वोपद्रवोपसर्गोपायासेभ्यः परिमोचयिष्याम इति ॥
यः कश्चिद्भदन्त भगवन्मनुष्यराजो भवेत् । यस्य च मनुष्यराजस्य विषये ऽयं सूत्रेन्द्रराजं संप्रचरेत् । यदा चासौ भदन्त भगवन्मनुष्यराजः सुवर्णप्रभासोत्तमस्य सूत्रेन्द्रराजस्य ( बग्छि 48 ) धारकान् भिक्षुभिक्षुण्युपासकोपासिका न सत्कुर्यान्न गुरुकुर्यान्न मानयेन्न पूजयेत् । अस्माकं चतुर्णां महाराजानामनेकानि यक्षकोटीनियुतशतसहस्स्राण्यनेन धर्मश्रवणेनैनेन धर्मामृतरसेन न संतर्पयेरन्न प्रतिमानयेरन् । इमानि दिव्यात्मभावानि महता तेजसा न विवर्धयेन्न चास्माकं वीर्यं च बलं च संजनयेत् । तेजश्च श्रियश्च लक्ष्मीं चास्माकं कायेषु न विवर्धयेत् । न ते ऽपि वयं भदन्त भगवंश्चत्वारो महाराजाः सबलपरिवारा अनेकैर्यक्षकोटीनियुतशतसहस्रैस्तस्य च विषये रक्षां करिष्यामः । भदन्त भगवन्विषयमस्माकमुपेक्षन्तः सर्वविषयवासिनो देवगणास्तं विषयमुपेक्ष्यन्ति । देवताश्च भदन्त भगवन्तं विषयमुपेक्ष्यन्ते ॥
तत्र तत्र विषये नानाविधा विषयलोपा भविष्यन्ति । दारुणानि च राजसंक्षोभानि भविष्यन्ति । सर्वविषयगतानि च सत्त्वानि कलहजातानि भविष्यन्ति । भण्डनजातानि विगृहीतानि विवादमापन्नानि नानाविधाश्च ग्रहरोगा विषये प्रादुर्भाविष्यन्ति । नानादिगभ्य आगताश्चोल्कापाताः प्रादुर्भविष्यन्ति । ग्रहनक्षत्राणि च परस्परेण विरुद्धानि भविष्यन्ति । सूर्यप्रतिरूपकाणि शशिन उत्पादयिष्यन्ति । चन्द्रग्रहाश्च भविष्यन्ति । सूर्यग्रहाश्च सततसमितं गगनान्तरगतौ सूर्यचन्द्रमसौ नो दृक्यथगतौ भविष्यतः । उल्कापातसदृशवर्णानि परिवेशकानि गगनान्तरे कालेन कालं प्रादुर्भविष्यन्ति । पृथिवीकम्पाश्च भविष्यन्ति । कूपाश्च पृथिवीगताः संक्षेपन्तः शोक्ष्यन्ति । विषमवाताश्च वास्यन्ति । विषमवर्षाश्च भविष्यन्ति । दुर्भिक्षकान्तारश्च सर्वविषये भविष्यति । परचक्राणि च तद्विषयं वेक्ष्यन्ति । आयासबहुलं भविष्यति । तेषामस्माकं भदन्त भगवंश्चतुर्णां महाराजानां सबलपरिवाराणामनेकेषां च यक्षशतसहस्राणां विषयवासिनां च देवनागानां तं विषयमुपेक्षतस्तत्र विषय इमान्येवं रूपाणि नानाविधान्युपद्रवशतानि भविष्यन्त्युपद्रसहस्राणि वा ॥
यः कश्चिद्भदन्त भगवन्मनुष्यराजो भवेत् । य आत्मनो महतीमारक्षां कर्तुकामो भवेत् । चिरं च नानाविधानि राजसौख्यान्यनुभवितुकामो भवेत् । सर्वसुखसमर्पितो न चिरेण राजत्वं कर्तुकामो भवेत् । सर्वविषयवासिनां च सत्त्वानां सुखापयितुकामो भवेत् । सर्वपरचक्राणि च पराजयितुकामो भवेत् । सर्वसुखेन विषयं परिपालयितुकामो भवेत् । धर्मेण राजत्वं कारयितुकामो भवेत् । स्वविषयं च सर्वभयोपद्रवोपसर्गोपायासेभ्यः परिमोचयितुकामो भवेत् ॥
तेन च भदन्त भगवन्मनुष्यराजेनायं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजः श्रोतव्यः । श्रुत्वा चैतास्तद्धारका भिक्षुभिक्षुण्युपासकोपासिकाः सत्कर्तव्या गुरुकर्तव्या मानयितव्याः पूजयितव्याः । वयं चत्वारो महाराजाः सबलपरिवारा अनेनैव धर्मश्रवणकुशलमूलोपचयेनानेन धर्माकृतरसेन संतर्पयितव्याः । अस्माकं चेमानि दिव्यात्मभावानि महातेजसा विवर्धयितव्यानि । तत्कस्य हतोः? यद्भदन्त भगवंस्तेन मनुष्यराजेनावश्यमयं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजः श्रोतव्यः ॥
यावन्ति भदन्त भगवन्ब्रह्मेन्द्रेण लौकिकलोकोत्तराणि च नानाविधानि शास्त्राण्युपदर्शितानि । यावन्ति च शक्रेण देवेन्द्रेण नानाविधानि शास्त्राण्युपदर्शितानि । यावन्ति च नानाविधैः पञ्चभिज्ञै ऋषिर्भिर्लौकिकलोकोत्तराणि च सत्त्वानामर्थाय शास्त्राण्युपदर्शितानि । भदन्त भगवंस्तेभ्यो ब्रह्मेन्द्रशतसहस्रेभ्यो ऽनेकेभ्यश्च शक्रकोटीनियुतशतसहस्रेभ्यः सर्वेभ्यश्च पञ्चाभिज्ञेभ्य ऋषिकोटीनियुतशतसहस्रेभ्यस्तथागतो ऽग्रतरश्च विशिष्टतरश्चेमं सुवर्णप्रभासोत्तमसूत्रेन्द्रराजं विस्तरेण सत्त्वानामर्थाय संप्रकाशयितः ॥
यथायं सर्वजम्बुद्वीपगतानां मनुष्यराजानां राजत्वं कारयितव्यम् । यथा च सर्वसत्त्वानि सुखार्पितानि भविष्यन्ति । यथा च सर्वविषयानुत्पीडिताश्च भविष्यन्त्यकण्टकाः । यथा परचक्राणि पराजितानि भविष्यन्ति । पराङ्मुखीभूतानि । यथा च ते विषया अनुपायासाश्च । यथा च सर्वविषयधर्मा अनुपायासाश्च भविष्यन्त्यनुपद्रुताश्च । यथा च तैर्मनुष्यराजैः स्वेषु विषयेषु महती धर्मोल्काः प्रज्वलिता भविष्यन्त्यादीपिताश्च । यथा च सर्वदेवताभवनानि
( बग्छि 50 ) आदीपितानि भविष्यन्ति देवैर्देवपुत्रैश्च । यथ च वयं चत्वारो महाराजाः सबलपरिवारा अनेकानि यक्षशतसहस्राणि सर्वजम्बुद्वीपगताश्च देवगणाः संतर्पिता भविष्यन्ति संप्रसादिताश्च । यथा चास्माकं काये महान्तं वीर्यं च बलं च स्थाम च संजनितं भविष्यन्ति । यथा चास्माकं काये तेजश्च श्रीश्च लक्ष्मीश्च भूयस्या मात्रयाभिनिचिशन्ति । यथा च सर्वजम्बुद्वीपः सुभिक्षो भविष्यति रमणीयश्च बहुजनाकीर्णमनुष्यश्च । यथा च सर्वजम्बुद्वीपगतानि सत्त्वानि सर्वसुखानि भविष्यन्ति । नानारतिमनुभविष्यन्ति । यथा च सत्त्वान्यनेककल्पकोटीनियुतशतसहस्राण्ययिन्त्यान्युदारोदाराणि सुखान्यनुभविष्यन्ति । बुद्धैश्च भगवद्भिः सार्धं समवधानगतानि भविष्यन्ति । अनागते ऽध्वन्यनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते । तत्सर्वमेतर्हि भगवता तथागतेनार्हता सम्यक्संबुद्धेन महता कारुण्यबलाधिष्ठानेन शक्रकोटीनियुतशतसहस्राणि दिव्यातिरेकतरे ऽनुत्तरे तथागतज्ञाने नानाविधानेकसर्वपञ्चाभिज्ञर्षिगणकोटीनियुतशतसहस्राणि चातिरेकसम्यक्संबुद्धेन ब्रह्मेन्द्रकोटीनियुतशतसहस्राणि चातिरेकव्रततपो ऽधिष्ठानेन स भगवता तथागतोनार्हता सम्यक्संबुद्धेनायं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजो विस्तरेण सर्वसत्त्वानामर्थायेह जम्बुद्वीपे संप्रकाशितः ॥
तेन मनुष्यराजेन सर्वजम्बुद्वीपगतानि लौकिकलोकोत्तराणि राजकार्याणि राजशास्राणि राजकरणानि निर्यातानि । यैरिमे सत्त्वाः सुखिनो भविष्यन्ति । तानि सर्वाणि भगवता तथागतेनार्हता सम्यक्संबुद्धेनायं सुवर्णप्रभासोत्तमसूत्रेन्द्रराज उपदर्शितः परिदीपितः संप्रकाशितः । तेन भदन्त भगवन्हेतुना तेन प्रत्ययेन च तेन मनुष्यराजेनावश्यमायं सुवर्णप्रभासोत्तमः सूत्रेन्द्रराजः सत्कृत्य श्रोतव्यः सत्कृत्य मानयितव्यः सत्कृत्य पूजयितव्यः ॥
एवमुक्ते भगवांश्चतुरो महाराजानेतदवोचत् । तेन हि चत्वारो महाराजाः सबलपरिवारा अवश्यं तेषां मनुष्यराजानामस्य सुवर्णप्रभासोत्तमय सूत्रेन्द्रराजस्य श्रोतॄणां पूजयितॄणां महान्तमौत्सुक्यं करिष्यन्ति रक्षार्थम् एताश्च महाराजाः सूत्रेन्द्रधारका भिक्षुभिक्षुण्युपासकोपासिका बुद्धक्षेत्रमारात्प्रदर्शन्ते देवमानुषासुरस्य लोकस्य बुद्धकृत्यानि ( बग्छि 51 ) करिष्यन्ति । इमं सुवर्णप्रभासोत्तमं सूत्रेन्द्रराजं विस्तरेण संप्रकाशयिष्यन्ति । अवश्यं युष्माभिश्चतुर्भिर्महाराजैस्तेषां सूत्रेन्द्रेधारकाणां भिक्षुभिक्षुण्युपासकोपासिकानामारक्षा कर्तव्या । परिपालनं परित्राणं परिग्रहं दण्डपरिहारं शस्त्रपरिहारं शान्तिस्वस्त्ययनं कर्तव्यम् । यथा च सूत्रेन्द्रधारका भिक्षुभिक्षुण्युपासकोपासिका आरक्षिता भवेयुरनुत्पीडिता अनुसर्गोपायासां सुखचित्ताः । इमं सुवर्णप्रभासोत्तमसूत्रेन्द्रराजं विस्तरेण सत्त्वानां संप्रकाशयितुम् ॥
अथ खलु वैश्रवणो महाराजो धृतराष्ट्रो महाराजो विरूढको महाराजो विरूपाक्षो महाराजोत्थायासनेभ्य एकांसानि चीवराणि प्रावृत्योत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य तस्यां वेलायामभिमुखं सारूप्याभिर्गाथाभिर्भगवन्तमभितुष्टुवुः ॥
जिनचन्द्रविमलवपुषं जिनसूर्यसहस्रकिरणाभम् ।
जिनकमलविमलनेत्रं जिनकुमुदतुषारविरजदशनाग्रम्
जिनगुणसागरकल्प अनेकरत्नाकर जिनसमुद्रम् ।
ज्ञानाम्बुसलिलपूर्णं समाधिशतसहस्रसंकीर्णम्
जिनचरणचक्रचित्रं समन्तनेभिस्तथा सहस्राभम् ।
करचरणजालचित्रं हंसेन्द्र यथा चरणजालम्
काञ्चनगिरिप्रकाशं सुवर्णकनकामलं जिनगिरीन्द्रम् ।
सर्वगुणमेरुकल्पं बुद्धगिरीन्द्रजिन नमस्यामः
आकाशचन्द्रसदृशमुदकचन्द्रनिभं तथागतशशाङ्कम् ।
मायामरीचिकल्प विमलजिन नमस्यामः
अथ खलु भगवांश्चतुरो महाराजान्गाथाभिर्बभाषे ॥
अयं -
सुत्रेन्द्रराजप्रवरः सुवर्णप्रभासोत्तमो दशबलानाम् ।
युष्माभि लोकपालैः पालयितव्यम् ----------
येनायं सूत्ररतनगम्भीरः सर्वसत्त्व सुखदाता ।
सत्त्वान हितसुखार्थं चिरं च प्रचरेज्जम्बूद्वीपे ऽस्मिन्
ये च तृसाहस्रमहासाहस्रे लोकधातौ हि ।
सत्त्वा अपायदुःखा शमयित्वा नरकदुःखानि
ये चेह जम्बुद्विपे गता हि सर्वे राजानस्तु महतः प्रहर्षजाता ।
धर्मेण च पालयन्तु विषया येनायं जम्बूद्वीपः क्षेमश्च भवेत्
सूभिक्षो रमणीयः सर्वे जम्बूद्वीपे सुखितानि भवन्ति सर्वसत्त्वानि ।
यस्या नास्ति नरपतेर्विषये प्रियात्मसौख्य प्रयता च राजत्वम्
ऐश्वर्यं प्रियता च श्रोतव्यस्तेन सूत्रराजः परमशत्रुक्षयकरम् ।
परचक्रनिवर्तनकरपरमभयव्यसहारः परमशुभकरो ऽयं सूत्रेन्द्रराज
यथा रत्नवृक्षः सुरुचिरस्तु सर्वगुणसंभवः सुगृहः संस्थः ।
तथैवायं सूत्रेन्द्रराज द्रष्टव्यो राजगुणादीनाम्
यथा शीतलहिमसलिलं धर्मतं प्रतिलभत उष्ण अपहरणम् ।
तथैवायं सूत्रवरेन्द्रो गुणसुखदाता भवति नरपतीनाम्
यथैव हि रत्नकरण्डः सर्वरत्नाकरः करतलस्थः ।
तथैवायं सूत्रेन्द्रराज स्वर्णप्रभासोत्तमो नृपगणानाम्
देवगण अर्चितो ऽयं देवेन्द्रनमस्कृतश्च सूत्रेन्द्रः ।
आरक्षितश्चतुर्भिर्महर्द्धिकैर्लोकपालैश्च
बुद्धैहि दशदिशस्थैः सदा समन्वाहृतो ऽयं सूत्रेन्द्रः ।
सूत्रमिदं देशयतः साधूकार ददन्ति संबुद्धाः
यक्षशतसहस्राणी रक्षन्ति च विषयं दशसु दिशासु ।
शृण्वन्ति सूत्रेन्द्रमिमं प्रमुदितचित्ताः प्रहृष्टाश्च
जम्बुद्वीपगतानि विविक्तानि देवगणानि ।
ते सर्वे देवगणाः शृण्वन्तु सूत्रमिदं प्रमुदिताश्च
तेजोबलं वीर्यबलं च लभन्ते तेन धर्मश्रवणेन ।
महतौजसा च देवां कायान्विवर्धयिष्यन्ति
मूल पाठ: Suvarṇaprabhāsasūtra · Edition: S. Bagchi: Suvarnaprabhasasutram, Darbhanga: The Mithila Institute, 1967. (Buddhist Sanskrit Texts, 8) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0