सुवर्णप्रभाससूत्र · अध्याय 6
इति श्रीसुवर्णप्रभासोत्तमसूत्रेन्द्रराजे कमलाकरसर्वतथागतस्तवपरिवर्तो नाम पञ्चमः ॥
॥ शून्यतापरिवर्तः ॥
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत ॥
अन्येषु सूत्रेषु अचिन्तियेषु अतिविस्तरं देशितशून्यधर्माः ।
तस्मादिमे सूत्रवरोत्तमे वः संक्षेपतो देशित शून्यधर्माः
सत्त्वो ऽल्पबुद्धिरविजानमानो न शक्य ज्ञातुं खलु सर्वधर्मा ।
पश्येह सूत्रेन्द्रवरोत्तमेन संक्षेपतो देशित शून्यधर्माः
अन्यैरुपायैर्नयहेतुभिश्च सत्त्वान कारुण्यवशोदयार्थम् ।
प्रकाशितं सूत्रवरेन्द्रमेतं यथाभिजानन्ति हि सर्वसत्त्वाः
अयं च कायो यथ शून्यग्रामः षड्ग्राम चोरोपम इन्द्रियाणि ।
तान्येकग्रामे निवसन्ति सर्वे न ते विजानन्ति परस्परेण
चक्षुरिन्द्रियं रूपमेतेषु धावति श्रोत्रेन्द्रियं शब्दविचारणेन ।
घ्राणेन्द्रियं गन्धविचित्रहारि जिह्वन्द्रियं नित्य रसेषु धावति
कायेन्द्रियं स्पर्शगतो ऽभिधावति मनेन्द्रियं धर्मविचारणेन ।
षडिन्द्रियाणीति परस्परेण स्वकं स्वकं विषयमभिधावति
चित्तं हि मायोपम चञ्चलं च षडिन्द्रियं विषयविचारणं च ।
यथा नरो धावति शून्यग्रामे संग्राम चौरेभि समाश्रितश्च
चित्तं यथा षड्विषयाश्रितं च प्रजानते इन्द्रिय गोचरं च ।
रूपं च शब्दं च तथैव गन्धं रसं च स्पर्श तथ धर्मगोचरम्
चित्तं च सर्वत्र षडिन्द्रियेषु शकुनिरिव चञ्चलं इन्द्रियसंप्रविष्टम् ।
यत्र यत्रेन्द्रियसंश्रितं च न चेन्द्रियं कुर्वतु जानमात्मकम्
कायश्च निश्चेष्ट निर्व्यापारं च असारकः प्रत्ययसंभवश्च ।
अभूतविकल्पसमुत्थितश्च स्थितकर्मयन्त्रं इवं शून्यग्रामः
क्षित्यम्भतेजो ऽनिलानि यथा चौरग्रामान्तः स्थित देशदेशे ।
परस्परेणैव सदा विरुद्धा यथैव आशीविष एकवेश्मनि
धातूरगास्ते च चतुर्विधानि द्वे ऊर्ध्वगामी द्वय हेष्टगामी ।
द्वयाद्वयं दिशि विदिशासु सर्वं नश्यन्ति ता धातुभुजङ्गमानि
क्षित्युरगश्च सलिलोरगश्च इमौ च हेष्टा क्षयतां व्रजेते ।
तेजोरगश्चानिलमारुतोरग इमौ हि द्वे ऊर्ध्वगतौ नभो ऽन्ते
चित्तं च विज्ञानमध्यस्थितं च गत्वा यथा पूर्वकृतेन कर्माणा ।
देवे मनुष्यएषु च त्रिष्वपाया यथाकृतं पूर्वभवे प्रवर्त्त्या
श्लेष्मानिलपित्तक्षयान्तप्राप्तः कायः शकृन्मूत्रपरीषपूर्णः ।
निराभिरामः कृमिक्षुद्रपूर्णः क्षिप्तः श्मशाने यथ काष्ठभूतः
पश्याहि त्वं देवत एभि एवं कत्यत्र सत्त्वस्तथ पुद्गलो वा ।
शून्या हि एते खलु सर्वधर्मा अविद्यतः प्रत्ययसंभवाश्च
एते महाभूत अभूत सर्वाश्च यस्मान्महाभूतप्रकृत्यभावा ।
तस्माच्च भूता हि असंभवाश्च अविद्यमाना न कदाचि विद्यते
अविद्यतः प्रत्ययसंभवाश्च अविद्यमानैव अविद्यवाचः ।
तस्मान्मया उक्त अविद्य एषा संस्कारविज्ञान सनामरूपम्
षडायतनस्पर्श तथैव वेदना तृष्णा उपादान तथा भवश्च ।
जातिजरामरणशोक उपद्रवाणां दुःखानि संस्कार अचिन्तियानि
संसारचक्रे च यथा स्थितानि अभूत संभूत असंभवाश्च ।
अयोनिशश्चित्तविचारणं तथा दृष्टीगतं छेत्स्यथ आत्मनैव
ज्ञानासिना छिन्दथ क्लेशजालं स्कन्धालयं पश्यथ शून्यभूतम् ।
स्पर्शेथ तं बोधिगुणं ह्युदारं विवर्त च मे अमृतपुरस्य द्वारम्
संदर्शि तं अमृतपुरस्य भाजनं प्रवेक्ष्य तं अमृतपुरालयं शुभम् ।
तर्पिष्य ह अमृततरसेन आत्मनां पराहता मे वरधर्मभेरीः
आपूरितो मे वरधर्मशङ्खः प्रज्वालिता मे वरधर्म उल्का ।
सुवर्षितं मे वरधर्मवर्षं पराजिता मे परक्लेशशत्रवः
उच्छ्रेपितं मे वरधर्मध्वजं प्रतारिता मे भवसत्त्वसमुद्राः ।
पिधितानि मे ऽपायपथानि त्रीणि क्लेशाग्निदाहं शमयित्व प्राणिनाम्
यस्माद्धि पूर्वमहमनेककल्पान् अचिन्तिया पूजित्व नायका हि ।
चरित्व बोधाय दृढव्रतेन सद्धर्मकायं परिवेषमाणः
हस्तौ च पादौ च परित्यजित्वा धनं हिरण्यं मणिमुक्तभूषणम् ।
नयनोत्तमाङ्गं प्रियदारपुत्रं सुवर्णवैडूर्यविचित्ररत्नानि
छिन्दित्वा त्रिसाहस्रायां सर्ववृक्षवनस्पतीम् ।
सर्वं च चूर्णयित्वा तत् कुर्यात् सूक्ष्मरजोपमम्
चूर्णराशिं करित्वा तु यावदाकाशगोचरम् ।
अशकद्भभागभिन्नाय धरणीरजःसमानि वा
सर्वसत्त्वा अनेके हि ज्ञानवत तथैव च ।
सर्वं गणयितुं शक्यं न तु ज्ञातं जिनस्य च
एकक्षणप्रवृत्तं तु यज्ज्ञानं च महामुनेः ।
अनेककल्पकोटीषु न शक्यं गणयितुं क्वचित्
मूल पाठ: Suvarṇaprabhāsasūtra · Edition: S. Bagchi: Suvarnaprabhasasutram, Darbhanga: The Mithila Institute, 1967. (Buddhist Sanskrit Texts, 8) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0