भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 6.9

6.9.1

अथातो वाताभिष्यन्दप्रतिषेधं व्याख्यास्यामः॥

6.9.2

यथोवाच भगवान् धन्वन्तरिः॥

6.9.3

पुराणसर्पिषा स्निग्धौ स्यन्दाधीमन्थपीडितौ।
स्वेदयित्वा यथान्यायं सिरामोक्षेण योजयेत्॥

6.9.4

संपादयेद्बस्तिभिस्तु सम्यक् स्नेहविरेचितौ।
तर्पणैः पुटपाकैश्च धूमैराश्च्योतनैस्तथा॥

6.9.5

नस्यस्नेहपरीषेकैः शिरोबस्तिभिरेव च।
वातघ्ननूपजलजमांसाम्लक्वाथसेचनैः॥

6.9.6

स्नेहैश्चतुर्भिरुष्णैश्च तत्पीताम्बरधारणैः।
पयोभिर्वेसवारैश्च साल्वणैः पायसैस्तथा॥

6.9.7

भिषक् संपादयेदेतावुपनाहैश्च पूजितैः।
ग्राम्यानूपौदकरसैः स्निग्धैः फलरसान्वितैः॥

6.9.8

सुसंस्कृतैः पयोभिश्च तयोराहार इष्यते।
तथा चोपरि भक्तस्य सर्पिःपानं(पाने) प्रशस्यते॥

6.9.9

त्रिफलाक्वाथसंसिद्धं केवलं जीर्णमेव वा।
सिद्धं वातहरैः क्षीरं प्रथमेन गणेन वा॥

6.9.10

स्नेहास्तैलाद्विना सिद्धा वातघ्नैस्तर्पणे हिताः।
स्नैहिकः पुटपाकश्च धूमो नस्यं च तद्विधम्॥

6.9.11

नस्यादिषु स्थिराक्षीरमधुरैस्तैलमिष्यते।
एरण्डपल्लवे मूले त्वचि वाआजं पयः शृतम्॥

6.9.12

कण्टकार्याश्च मूलेषु सुखोष्णं सेचने हितम्।
सैन्धवोदीच्ययष्ट्याह्वपिप्पलीभिः शृतं पयः॥

6.9.13

हितमर्धोदकं सेके तथाआश्च्योतनमेव च।
ह्रीबेरवक्रमञ्जिष्ठोदुम्बरत्वक्षु साधितम्॥

6.9.14

साम्भश्छागं पयो वापि शूलाश्च्योतनमुत्तमम्।
मधुकं रजनीं पथ्यां देवदारुं च पेषयेत्॥

6.9.15

आजेन पयसा श्रेष्ठमभिष्यन्दे तदञ्जनम्।
गैरिकं सैन्धवं कृष्णां नागरं च यथोत्तरम्॥

6.9.16

द्विगुणं पिष्टमद्भिस्तु गुटिकाञ्जनमिष्यते।
स्नेहाञ्जनं हितं चात्र वक्ष्यते तद्यथाविधि॥

6.9.17

रोगो यश्चान्यतोवातो यश्च मारुतपर्ययः।
अनेनैव विधानेन भिषक् तावपि साधयेत्॥

6.9.18

पूर्वभक्तं हितं सर्पिः क्षीरं वाप्यथ भोजने।
वृक्षादन्यां कपित्थे च पञ्चमूले महत्यपि॥

6.9.19

सक्षीरं कर्कटरसे सिद्धं चात्र घृतं पिबेत्।
सिद्धं वा हितमत्राहुः पत्तूरार्तगलाग्निकैः॥

6.9.20

सक्षीरं मेषशृङ्ग्या वा सर्पिर्वीरतरेण वा।
सैन्धवं दारु शुण्ठी च मातुलुङ्गरसो घृतम्॥

6.9.21

स्तन्योदकाभ्यां कर्तव्यं शुष्कपाके तदञ्जनम्।
पूजितं सर्पिषश्चात्र पानमक्ष्णोश्च तर्पणम्॥

6.9.22

घृतेन जीवनीयेन नस्यं तैलेन चाणुना।
परिषेके हितं चात्र पयः शीतं ससैन्धवम्॥

6.9.23

रजनीदारुसिद्धं वा सैन्धवेन समायुतम्।
सर्पिर्युतं स्तन्यघृष्टमञ्जनं वा महौषधम्॥

6.9.24

वसा वाआनूपजलजा सैन्धवेन समायुता।
नागरोन्मिश्रिता किञ्चिच्छुष्कपाके तदञ्जनम्॥

6.9.25

पवनप्रभवा रोगा ये केचिद्दृष्टिनाशनाः।
बीजेनानेन मतिमान् तेषु कर्म प्रयोजयेत्॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc