सुश्रुतसंहिता · अध्याय 6.4
अथातः शुक्लगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः॥
अथोवाच भगवान् धन्वन्तरिः॥
प्रस्तारिशुक्लक्षतजाधिमांसस्राय्वर्मसंज्ञाः खलु पञ्च रोगाः।
स्युः शुक्तिका चार्जुनपिष्टकौ च जालं सिराणां पिडकाश्च याः स्युः॥
रोगा बलासग्रथितेन सार्धमेकादशाक्ष्णोः खलु शुक्लभागे।
प्रस्तारि प्रथितमिहार्म शुक्लभागे विस्तीर्णं तनु रुधिरप्रभं सनीलम्॥
शुक्लाख्यं मृदु कथयन्ति शुक्लभागे सश्वेतं सममिह वर्धते चिरेण।
यन्मांसं प्रचयमुपैति शुक्लभागे पद्माभं तदुपदिशन्ति लोहितार्म॥
विस्तीर्णं मृदु बहलं यकृत्प्रकाशं श्यावं वा तदधिकमांसजार्म विद्यात्।
शुक्ले यत् पिशितमुपैति वृद्धिमेतत् स्नाय्वर्मेत्यभिपठितं खरं प्रपाण्डु॥
श्यावाः स्युः पिशितनिभाश्च बिन्दवो ये शुक्त्याभाः सितनयने स शुक्तिसंज्ञः।
एको यः शशरुधिरोपमस्तु बिन्दुः शुक्लस्थो भवति तमर्जुनं वदन्ति॥
उत्सन्नः सलिलनिभोऽथ पिष्टशुक्लो बिन्दुर्यो भवति स पिष्टकः सुवृत्तः।
जालाभः कठिनसिरो महान् सरक्तः सन्तानः स्मृत इह जालसंज्ञितस्तु॥
शुक्लस्थाः सितपिडकाः सिरावृता यास्ता विद्यादसितसमीपजाः सिराजाः।
कांस्याभो भवति सितेऽम्बुबिन्दुतुल्यः स ज्ञेयोऽमृदुररुजो बलासकाख्यः॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0