सुश्रुतसंहिता · अध्याय 6.3
अथातो वर्त्मगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
पृथग्दोषाः समस्ता वा यदा वर्त्मव्यपाश्रयाः।
सिरा व्याप्यावतिष्ठन्ते वर्त्मस्वधिकमूर्च्छिताः॥
विवर्ध्य मांसं रक्तं च तदा वर्त्मव्यपाश्रयान्।
विकाराञ्जनयन्त्याशु नामतस्तान्निबोधत॥
उत्सङ्गिन्यथ कुम्भीका पोथक्यो वर्त्मशर्करा।
तथार्शोवर्त्म शुष्कार्शस्तथैवाञ्जननामिका॥
बहलं वर्त्म यच्चापि व्याधिर्वर्त्मावबन्धकः।
क्लिष्टकर्दमवर्त्माख्यौ श्याववर्त्म तथैव च॥
प्रक्लिन्नमपरिक्लिन्नं वर्त्म वातहतं तु यत्।
अर्बुदं निमिषश्चापि शोणितार्शश्च यत् स्मृतम्॥
लगणो बिशनामा च पक्ष्मकोपस्तथैव च।
एकविंशतिरित्येते विकारा वर्त्मसंश्रयाः॥
नामभिस्ते समुद्दिष्टा लक्षणैस्तान् प्रचक्ष्महे।
अभ्यन्तरमुखी बाह्योत्सङ्गेऽधो वर्त्मनश्च या॥
विज्ञेयोत्सङ्गिनी नाम तद्रूपपिडकाचिता।
कुम्भीकबीजप्रतिमाः पिडका यास्तु वर्त्मजाः॥
आध्मापयन्ति भिन्ना याः कुम्भीकपिडकास्तु ताः।
स्राविण्यः कण्डुरा गुर्व्यो रक्तसर्षपसन्निभाः।
पिडकाश्च रुजावत्यः पोथक्य इति संज्ञिताः॥
पिडकाभिः सुसूक्ष्माभिर्घनाभिरभिसंवृता।
पिडका या खरा स्थूला सा ज्ञेया वर्त्मशर्करा॥
एर्वारुबीजप्रतिमाः पिडका मन्दवेदनाः।
सूक्ष्माः खराश्च वर्त्मस्थास्तदर्शोवर्त्म कीर्त्यते॥
दीर्घोऽङ्कुरः खरः स्तब्धो दारुणो वर्त्मसंभवः।
व्याधिरेष समाख्यातः शुष्कार्श इति संज्ञितः॥
दाहतोदवती ताम्रा पिडका वर्त्मसंभवा।
मृद्वी मन्दरुजा सूक्ष्मा ज्ञेया साञ्जननामिका॥
वर्त्मोपचीयते यस्य पिडकाभिः समन्ततः।
सवर्णाभिः समाभिश्च विद्याद्बहलवर्त्म तत्॥
कण्डूमताल्पतोदेन वर्त्मशोफेन यो नरः।
न समं छादयेदक्षि भवेद्बन्धः स वर्त्मनः॥
मृद्वल्पवेदनं ताम्रं यद्वर्त्म सममेव च।
अकस्माच्च भवेद्रक्तं क्लिष्टवर्त्म तदादिशेत्॥
क्लिष्टं पुनः पित्तयुतं विदहेच्छोणितं यदा।
तदा क्लिन्नत्वमापन्नमुच्यते वर्त्मकर्दमः॥
यद्वर्त्म बाह्यतोऽन्यश्च श्यावं शूनं सवेदनम्।
दाहकण्डूपरिक्लेदि श्याववर्त्मेति तन्मतम्॥
अरुजं बाह्यतः शूनमन्तः क्लिन्नं स्रवत्यपि।
कण्डूनिस्तोदभूयिष्ठं क्लिन्नवर्त्म तदुच्यते॥
यस्य धौतानि धौतानि संबध्यन्ते पुनः पुनः।
वर्त्मान्यपरिपक्वानि विद्यादक्लिन्नवर्त्म तत्॥
विमुक्तसन्धि निश्चेष्टं वर्त्म यस्य न मील्यते।
एतद्वातहतं विद्यात् सरुजं यदि वारुजम्॥
वर्त्मान्तरस्थं विषमं ग्रन्थिभूतमवेदनम्।
विज्ञेयमर्बुदं पुंसां सरक्तमवलम्बितम्॥
निमेषणीः सिरा वायुः प्रविष्टो वर्त्मसंश्रयाः।
चालयत्यति वर्त्मानि निमेषः स गदो मतः॥
छिन्नाश्छिना विवर्धन्ते वर्त्मस्था मृदवोऽङ्कुराः।
दाहकण्डूरुजोपेतास्तेऽर्शः शोणितसंभवाः॥
अपाकः कठिनः स्थूलो ग्रन्थिर्वर्त्मभवोऽरुजः।
सकण्डूः पिच्छिलः कोलप्रमाणो लगणस्तु सः॥
शूनं यद्वर्त्म बहुभिः सूक्ष्मैश्छिद्रैः समन्वितम्।
बिसमन्तर्जल इव बिसवर्त्मेति तन्मतम्॥
दोषाः पक्ष्माशयगतास्तीक्ष्णाग्राणि खराणि च।
निर्वर्तयन्ति पक्ष्माणि तैर्घुष्टं चाक्षि दूयते॥
उद्धृतैरुद्धृतैः शान्तिः पक्ष्मभिश्चोपजायते।
वातातपानलद्वेषी पक्ष्मकोपः स उच्यते॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0