भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 6.39

6.39.1

अथातो ज्वरप्रतिषेधं व्याख्यास्यामः॥

6.39.2

यथोवाच भगवान् धन्वन्तरिः॥

6.39.3

येनामृतमपां मध्यादुद्धृतं पूर्वजन्मनि।
यतोऽमरत्वं संप्राप्तास्त्रिदशास्त्रिदिवेश्वरात्॥

6.39.4

शिष्यास्तं देवमासीनं पप्रच्छुः सुश्रुतादयः।
व्रणस्योपद्रवाः प्रोक्ता व्रणिनामप्यतः परम्॥

6.39.5

समासाद् व्यासतश्चैव ब्रूहि नो भिषजांवर।
उपद्रवेण जुष्टस्य व्रणः कृच्छ्रेण सिध्यति॥

6.39.6

उपद्रवास्तु व्रणिनः कृच्छ्रसाध्याः प्रकीर्तिताः।
प्रक्षीणबलमांसस्य शेषधातुपरिक्षयात्॥

6.39.7

तस्मादुपद्रवान् कृत्स्नान् ब्रूहि नः सचिकित्सितान्।
सर्वकायचिकित्सासु ये दृष्टाः परमर्षिणा॥

6.39.8

तेषां तद्वचनं श्रुत्वा प्राब्रवीद्भिषजांवरः।
ज्वरमादौ प्रवक्ष्यामि स रोगानीकराट् स्मृतः॥

6.39.9

रुद्रकोपाग्निसंभूतः सर्वभूतप्रतापनः।
तैस्तैर्नामभिरन्येषां सत्त्वानां परिकीर्त्यते॥

6.39.10

जन्मादौ निधने चैव प्रायो विशति देहिनम्।
अतः सर्वविकाराणामयं राजा प्रकीर्तितः॥

6.39.11

ऋते देवमनुष्येभ्यो नान्यो विषहते तु तम्।
कर्मणा लभते यस्माद्देवत्वं मानुसादपि॥

6.39.12

पुनश्चैव च्युतः स्वर्गान्मानुष्यमनुवर्तते।
तस्मात्ते देवभावेन सहन्ते मानुषा ज्वरम्॥

6.39.13

शेषाः सर्वे विपद्यन्ते तैर्यग्योना ज्वरार्दिताः।
स्वेदावरोधः सन्तापः सर्वाङ्गग्रहणं तथा॥

6.39.14

विकारा युगपद्यस्मिन् ज्वरः स परिकीर्तितः।
दोषैः पृथक् समस्तैश्च द्वन्द्वैरागन्तुरेव च॥

6.39.15

अनेककारणोत्पन्नः स्मृतस्त्वष्टविधो ज्वरः।
दोषाः प्रकुपिताः स्वेषु कालेषु स्वैः प्रकोपणैः॥

6.39.16

व्याप्य देहमशेषेण ज्वरमापादयन्ति हि।
दुष्टाः स्वहेतुभिर्दोषाः प्राप्यामाशयमूष्मणा॥

6.39.17

सहिता रसमागत्य रसस्वेदप्रवाहिणाम्।
स्रोतसां मार्गमावृत्य मन्दीकृत्य हुताशनम्॥

6.39.18

निरस्य बहिरूष्माणं पक्तिस्थानाच्च केवलम्।
शरीरं समभिव्याप्य स्वकालेषु ज्वरागमम्॥

6.39.19

जनयत्यथ वृद्धिं वा स्ववर्णं च त्वगादिषु।
मिथ्यातियुक्तैरपि च स्नेहाद्यैः कर्मभिर्नृणाम्॥

6.39.20

विविधादभिघाताच्च रोगोत्थानात् प्रपाकतः।
श्रमात् क्षयादजीर्णाच्च विषात्सात्म्यर्तुपर्ययात्॥

6.39.21

ओषधीपुष्पगन्धाच्च शोकान्नक्षत्रपीडया।
अभिचाराभिशापाभ्यां मनोभूताभिशङ्कया॥

6.39.22

स्त्रीणामपप्रजातानां प्रजातानां तथाहितैः।
स्तन्यावतरणे चैव ज्वरो दोषैः प्रवर्तते॥

6.39.23

तैर्वेगवद्भिर्बहुधा समुद्भ्रान्तैर्विमार्गगैः।
विक्षिप्यमाणोऽन्तरग्निर्भवत्याशु बहिश्चरः॥

6.39.24

रुणद्धि चाप्यपांधातुं यस्मात्तस्माज्ज्वरातुरः।
भवत्यत्युष्णगात्रश्च ज्वरितस्तेन चोच्यते॥

6.39.25

श्रमोऽरतिर्विवर्णत्वं वैरस्यं नयनप्लवः।
इच्छाद्वेषौ मुहुश्चापि शीतवातातपादिषु॥

6.39.26

जृम्भाङ्गमर्दो गुरुता रोमहर्षोऽरुचिस्तमः।
अप्रहर्षश्च शीतं च भवत्युत्पत्स्यति ज्वरे॥

6.39.27

सामान्यतो विशेषात्तु जृम्भात्यर्थं समीरणात्।
पित्तान्नयनयोर्दाहः कफान्नन्नाभिनन्दनम्॥

6.39.28

सर्वलिङ्गसमवायः सर्वदोषप्रकोपजे।
द्वयोर्द्वयोस्तु रूपेण संसृष्टं द्वन्द्वजं विदुः॥

6.39.29

वेपथुर्विषमो वेगः कण्ठौष्ठपरिशोषणम्।
निद्रानाशः क्षुतः स्तम्भो गात्राणां रौक्ष्यमेव च॥

6.39.30

शिरोहृद्गात्ररुग्वक्त्रवैरस्यं बद्धविट्कता।
जृम्भाआध्मान्ंअ तथा शूलं भवत्यनिलजे ज्वरे॥

6.39.31

वेगस्तीक्ष्णोऽतिसारश्च निद्राल्पत्वं तथा वमिः।
कण्ठौष्ठमुखनासानां पाकः स्वेदश्च जायते॥

6.39.32

प्रलापः कटुता वक्त्रे मूर्च्छा दाहो मदस्तृषा।
पीतविण्मूत्रनेत्रत्वं पैत्तिके भ्रम एव च॥

6.39.33

गौरवं शीतमुत्क्लेशो रोमहर्षोऽतिनिद्रता।
स्रोतोरोधो रुगल्पत्वं प्रसेको मधुरास्यता॥

6.39.34

नात्युष्णगात्रता छर्दिरङ्गसादोऽविपाकता।
प्रतिश्यायोऽरुचिः कासः कफजेऽक्ष्णोश्च शुक्लता॥

6.39.35

निद्रानाशो भ्रमः श्वासस्तन्द्रा सुप्ताङ्गतारुचिः।
तृष्णा मोहो मदः स्तम्भो दाहः शीतं हृदि व्यथा॥

6.39.36

पक्तिश्चिरेण दोषाणामुन्मादः श्यावदन्तता।
रसना परुषा कृष्णा सन्धिमूर्धास्थिजा रुजः॥

6.39.37

निर्भुग्ने कलुषे नेत्रे कर्णौ शब्दरुगन्वितौ।
प्रलापः स्रोतसां पाकः कूजनं चेतनाच्युतिः॥

6.39.38

स्वेदमूत्रपुरीषाणामल्पशः सुचिरात् स्रुतिः।
सर्वजे सर्वलिङ्गानि विशेषं चात्र मे शृणु॥

6.39.39

नात्युष्णशीतोऽल्पसंज्ञो भ्रान्तप्रेक्षी हतस्वरः।
खरजिह्वः शुष्ककण्ठः स्वेदविण्मूत्रवर्जितः॥

6.39.40

सास्रो निर्भुग्नहृदयो भक्तद्वेषी हतप्रभः।
श्वसन्निपतितः शेते प्रलापोपद्रवायुतः॥

6.39.41

तमभिन्यासमित्याहुर्हतौजसमथापरे।
सन्निपातज्वरं कृच्छ्रमसाध्यमपरे विदुः॥

6.39.42

निद्रोपेतमभिन्यासं क्षीणमेनं हतौजसम्।
संन्यस्तगात्रं संन्यासं विद्यात्सर्वात्मके ज्वरे॥

6.39.43

ओजो विस्रंसते यस्य पित्तानिलसमुच्छ्रयात्।
स गात्रस्तम्भशीताभ्यां शयनेप्सुरचेतनः॥

6.39.44

अपि जाग्रत् स्वपन् जन्तुस्तन्द्रालुश्च प्रलापवान्।
संहृष्टरोमा स्रस्ताङ्गो मन्दसन्तापवेदनः॥

6.39.45

ओजोनिरोधजं तस्य जानीयात् कुशलो भिसक्।
सप्तमे विदसे प्राप्ते दशमे द्वादशेऽपि वा॥

6.39.46

पुनर्धोरतरो भूत्वा प्रशमं याति हन्ति वा।
द्विदोषोच्छ्रायलिङ्गास्तु द्वन्द्वजास्त्रिविधाः स्मृताः॥

6.39.47

तृष्णा मूर्च्छा भ्रमो दाहः स्वप्ननाशः शिरोरुजा।
कण्ठास्यशोषो वमथू रोमहर्षोऽरुचिस्तथा॥

6.39.48

पर्व्भेदश्च जृम्भा च वातपित्तज्वराकृतिः।
स्तैमित्यं पर्वणं भेदो निद्रा गौरवमेव च॥

6.39.49

शिरोग्रहः प्रतिश्यायः कासः स्वेदप्रवर्तनम्।
सन्तापो मध्यवेगश्च वातश्लेष्मज्वराकृतिः॥

6.39.50

लिप्तातिक्तास्यता तन्द्रा मोहः कासोऽरुचिस्तृषा।
मुहुर्दाहो मुहुः शीतं श्लेष्मपित्तज्वराकृतिः॥

6.39.51

कृशानां ज्वरमुक्तानां मिथ्याहारविहारिणाम्।
दोषः स्वल्पोऽपि संवृद्धो देहिनामनिलेरितः॥

6.39.52

सततान्येद्युष्कत्र्याख्यचातुर्थान् सप्रलेपकान्।
कफस्थानविभागेन यथासंख्यं करोति हि॥

6.39.53

अहोरात्रादहोरात्रात् स्थानात् स्थानं प्रपद्यते।
ततश्चामाशयं प्राप्य दोषः कुर्याज्ज्वरं नृणाम्॥

6.39.54

तथा प्रलेपको ज्ञेयः शोषिणां प्राणनाशनः।
दुश्चिकित्स्यतमो मन्दः सुकष्टो धातुशोषकृत्॥

6.39.55

कफस्थानेषु वा दोषस्तिष्टन् द्वित्रिचतुर्षु वा।
विपर्ययाख्यान् कुरुते विषमान् कृच्छ्रसाधनान्॥

6.39.56

परो हेतुः स्वभावो वा विषमे कैश्चिदीरितः।
आगन्तुश्चनुबन्धो हि प्रायशो विषमज्वरे॥

6.39.57

वाताधिकत्वात् प्रवदन्ति तज्ज्ञास्तृतीयकं चापि चतुर्थकं च।
औपत्यके मद्यसमुद्भवे च हेतुं ज्वरे पित्तकृतं वदन्ति॥

6.39.58

प्रलेपकं वातबलासकं च कफाधिकत्वेन वदन्ति तज्ज्ञाः।
मूर्च्छानुबन्धा विषमज्वरा ये प्रायेण ते द्वन्द्वसमुत्थितास्तु॥

6.39.59

त्वक्स्थौ श्लेष्मानिलौ शीतमादौ जनयतो ज्वरे।
तयोः प्रशान्तयोः पित्तमन्ते दाहं करोति च॥

6.39.60

करोत्यादौ तथा पित्तं त्वक्स्थं दाहमतीव च।
प्रशान्ते कुरुतस्तस्मिंश्छीतमन्ते च तावपि॥

6.39.61

द्वावेतौ दाहशीतादी ज्वरौ संसर्गजौ स्मृतौ।
दाहपूर्वस्तयोः कष्टः कृच्छ्रसाध्यश्च स स्मृतः॥

6.39.62

प्रसक्तश्चाभिघातोत्थश्चेतनाप्रभवस्तु यः।
रात्र्यह्नोः षट्सु कालेषु कीर्तितेषु तथा पुरा॥

6.39.63

प्रसह्य विषमोऽभ्येति मानवं बहुधा ज्वरः।
स चापि विषमो देहं न कदाचिद्विमुञ्चति॥

6.39.64

ग्लानिगौरवकार्श्येभ्यः स यस्मान्न प्रमुच्यते।
वेगे तु समतिक्रान्ते गतोऽयमिति लक्ष्यते॥

6.39.65

धात्वन्तरस्थो लीनत्वान्न सौक्ष्म्यादुपलभ्यते।
अल्पदोषेन्धनः क्षीणः क्षीणेन्धन इवानलः॥

6.39.66

दोषोऽल्पोऽहितसंभूतो ज्वरोत्सृष्टस्य वा पुनः।
धातुमन्यतमं प्राप्य करोति विषमज्वरम्॥

6.39.67

सततं रसरक्तस्थः सोऽन्येद्युः पिशिताश्रितः।
मेदोगतस्तृतीयेऽह्नि त्वस्थिमज्जगतः पुनः॥

6.39.68

कुर्याच्चातुर्थकं घोरमन्तकं रोगसंकरम्।
केचिद्भूताभिषङ्गोत्थं ब्रुवते विषमज्वरम्॥

6.39.69

सप्ताहं वा दशाहं वा द्वादशाहमथापि वा।
सन्तत्या योऽविसर्गी स्यात्सन्ततः स निगद्यते॥

6.39.70

अहोरात्रे सततको द्वौ कालावनुवर्तते।
अन्येद्युष्कस्त्वहोरात्रादेककालं प्रवर्तते॥

6.39.71

तृतीयकस्तृतीयेऽह्नि चतुर्थेऽह्नि चतुर्थकः।
वातेनोदीर्यमाणाश्च ह्रीयमाणाश्च सर्वतः।
एकद्विदोषा मर्त्यानां तस्मिन्नेवोदितेऽहनि॥

6.39.72

वेलां तामेव कुर्वन्ति ज्वरवेगे मुहुर्मुहुः।
(वातेनोद्धूयमानस्तु यथा पूर्येत सागरः॥

6.39.73

वातेनोदीरितास्तद्वद्दोषाः कुर्वन्ति वै ज्वरान्।
यथा वेगागमे वेलां छादयित्वा महोदधेः॥

6.39.74

वेगहानौ तदेवाम्भस्तत्रैवान्तर्निलीयते।
दोषवेगोदये तद्वदुदीर्येत ज्वरोऽस्य वै॥

6.39.75

वेगहानौ प्रशाम्येत यथाम्भः सागरे तथा।
विविधेनाभिघातेन ज्वरो यः संप्रवर्तते॥

6.39.76

यथादोषप्रकोपं तु तथा मन्येत तं ज्वरम्।
श्यावास्यता विषकृते दाहातीसारहृद्ग्रहाः॥

6.39.77

अभक्तरुक् पिपासा च तोदो मूर्च्छा बलक्षयः।
ओषधीगन्धजे मूर्च्छा शिरोरुक् वमथुः क्षवः॥

6.39.78

कामजे चित्तविभ्रंशस्तन्द्राआलस्यमरोचकः।
हृदये वेदना चास्य गात्रं च परिशुष्यति॥

6.39.79

भयात् प्रलापः शोकाच्च भवेत् कोपाच्च वेपथुः।
अभिचाराभिशापाभ्यां मोहस्तृष्णा च जायते॥

6.39.80

भूताभिषङ्गादुद्वेगहास्यकम्पनरोदनम्।
श्रमक्षयाभिघातेभ्यो देहिनां कुपितोऽनिलः॥

6.39.81

पूरयित्वाखिलं देहं ज्वरमापादयेद्भृशम्।
रोगाणां तु समुत्थानाद्विदाहागन्तुतस्तथा॥

6.39.82

ज्वरोऽपरः संभवति तैस्तैरन्यैश्च हेतुभिः।
दोषाणां स तु लिङ्गानि कदाचिन्नातिवर्तते॥

6.39.83

गुरुता हृदयोत्क्लेशः सदनं छर्द्यरोचकौ।
रसस्थे तु ज्वरे लिङ्गं दैन्यं चास्योपजायते॥

6.39.84

रक्तनिष्ठीवनं दाहः स्वेदश्छर्दनविभ्रमौ।
प्रलापः पिटिका तृष्णा रक्तप्राप्ते ज्वरे नृणाम्॥

6.39.85

पिण्डिकोद्वेष्टनं तृष्णा सृष्टमूत्रपुरीषता।
ऊष्मान्तर्दाहविक्षेपौ ग्लानिः स्यान्मांसगे ज्वरे॥

6.39.86

भृशं स्वेदस्तृषा मूर्च्छा प्रलापश्छर्दिरेव च।
दौर्गन्ध्यारोचकौ ग्लानिर्मेदःस्थे चासहिष्णुता॥

6.39.87

भेदोऽस्थ्नां कुञ्चनं(कुञ्चजनं) श्वासो विरेकश्छर्दिरेव च।
विक्षेपणं च गात्राणामेतदस्थिगते ज्वरे॥

6.39.88

तमःप्रवेशनं हिक्का कासः शैत्यं वमिस्तथा।
अन्तर्दाहो महाश्वासो मर्मच्छेदश्च मज्जगे।
मरणं प्राप्रुयात्तत्र शुक्रस्थानगते ज्वरे॥

6.39.89

शेफसः स्तब्धता मोक्षः शुक्रस्य तु विशेषतः।
दग्ध्वेन्धनं यथा वह्निर्धातून् हत्वा यथा विषम्॥

6.39.90

कृतकृत्यो व्रजेच्छान्तिं देहं हत्वा तथा ज्वरः।
वातपित्तकफोत्थानां ज्वराणां लक्षणं यथा॥

6.39.91

तथा तेषां भिषग्ब्रूयाद्रसादिष्वपि बुद्धिमान्।
समस्तैः सन्निपातेन धातुस्थमपि निर्दिशेत्॥

6.39.92

द्वन्द्वजं द्वन्द्वजैरेव दोषैश्चापि वदेत् कृतम्।
गम्भीरस्तु ज्वरो ज्ञेयो ह्यन्तर्दाहेन तृष्णया॥

6.39.93

आनद्धत्वेन चात्यर्थं श्वासकासोद्गमेन च।
हतप्रभेन्द्रियं क्षीणमरोचकनिपीडितम्॥

6.39.94

गम्भीरतीक्ष्णवेगार्तं ज्वरितं परिवर्जयेत्।
हीनमध्याधिकैर्दोषैस्त्रिसप्तद्वादशाहिकः॥

6.39.95

ज्वरवेगो भवेत्तीव्रो यथापूर्वं सुखक्रियः।
कालो ह्येष यमश्चैव नियतिर्मृत्युरेव च॥

6.39.96

तस्मिन् व्यपगते देहाज्जन्मेह पुनरुच्यते।
इति ज्वराः समाख्याताः कर्मेदानीं प्रवक्ष्यते॥

6.39.97

ज्वरस्य पूर्वरूपेषु वर्तमानेषु बुद्धिमान्।
पाययेत घृतं स्वच्छं ततः स लभते सुखम्॥

6.39.98

विधिर्मारुतजेष्वेष पैत्तिकेषु विरेचनम्।
मृदु प्रच्छर्दनं तद्वत्कफजेषु विधीयते॥

6.39.99

सर्वद्विदोषजेषूक्तं यथादोषं विकल्पयेत्।
अस्नेहनीयोऽशोध्यश्च संयोज्यो लङ्घनादिना॥

6.39.100

रूपप्राग्रूपयोर्विद्यान्नानात्वं वह्निधूमवत्।
प्रव्यक्तरूपेषु हितमेकान्तेनापतर्पणम्॥

6.39.101

आमाशयस्थे दोषे तु सोत्क्लेशे वमनं परम्।
आनद्धः स्तिमितैर्दोषैर्यावन्तं कालमातुरः॥

6.39.102

कुर्यादनशनं तावत्ततः संअर्गमाचरेत्।
न लङ्घयेन्मारुतजे क्षयजे मानसे तथा॥

6.39.103

अलङ्घ्याश्चापि ये पूर्वं द्विव्रणीये प्रकीर्तिताः।
अनवस्थितदोषाग्नेर्लङ्घनं दोषपाचनम्॥

6.39.104

ज्वरघ्नं दीपनं काङ्क्षारुचिलाघवकारकम्।
सृष्टमारुतविण्मूत्रं क्षुत्पिपासासहं लघुम्॥

6.39.105

प्रसन्नात्मेन्द्रियं क्षामं नरं विद्यात् सुलङ्घितम्।
बलक्षयस्तृषा शोषस्तन्द्रानिद्राभ्रमक्लमाः॥

6.39.106

उपद्रवाश्च श्वासाद्याः संभवन्त्यतिलङ्घनात्।
दीपनं कफविच्छेदि पित्तवातानुलोमनम्॥

6.39.107

कफवातज्वरार्तेभ्यो हितमुष्णाम्बु तृट्छिदम्।
तद्धि मार्दवकृद्दोषस्रोतसां शीतमन्यथा॥

6.39.108

सेव्यमानेन तोयेन ज्वरः शीतेन वर्धते।
पित्तमद्यविषोत्थेषु शीतलं तिक्तकैः शृतम्॥

6.39.109

गाङ्गेयनागरोशीरपर्पटोदीच्यचन्दनैः।
दीपनी पाचनी लघ्वी ज्वरार्तानां ज्वरापहा॥

6.39.110

अन्नकाले हिता पेया यथास्वं पाचनैः कृता।
बहुदोषस्य मन्दाग्नेः सप्तरात्रात् परं ज्वरे॥

6.39.111

लङ्घनाम्बुयवागूभिर्यदा दोषो न पच्यते।
तदा तं मुखवैरस्यत्ष्णारोचकनाशनैः॥

6.39.112

कषायैः पाचनैर्हृद्यैर्ज्वरघ्नैः समुपाचरेत्।
पञ्चमूलीकषायं तु पाचनं पवनज्वरे॥

6.39.113

सक्षौद्रं पैत्तिके मुस्तकटुकेन्द्रयवैः कृतम्।
पिप्पल्यादिकषायं तु कफजे परिपाचनम्॥

6.39.114

द्वन्द्वजेषु तु संसृष्टं दद्यादथ विवर्जयेत्।
पीताम्बुर्लङ्घितो भुक्तोऽजीर्णी क्षीणः पिपासितः॥

6.39.115

(तीक्ष्णे ज्वरे गुरौ देहे विबद्धेषु मलेषु च।
सामदोषं विजानीयाज्ज्वरं पक्वमतोऽयथा॥) मृदौ ज्वरे लघौ देहे प्रचलेषु मलेषु च।
पक्वं दोषं विजानीयाज्ज्वरे देयं तदौषधम्॥

6.39.116

दोषप्रकृतिवैकृत्यादेकेषां पक्वलक्षणम्।
हृदयोद्वेष्टनं तन्द्रा लालास्रुतिररोचकः॥

6.39.117

दोषाप्रवृत्तिरालस्यं विबन्धो बहुमूत्रता।
गुरूदरत्वमस्वेदो न पक्तिः शकृतोऽरतिः॥

6.39.118

स्वापः स्तम्भो गुरुत्वं च गात्राणां वह्निमार्दवम्।
मुखस्याशुद्धिरग्लानिः प्रसङ्गी बलवाञ्ज्वरः॥

6.39.119

लिङ्गैरेभिर्विजानीयाज्ज्वरमामं विचक्षणः।
सप्तरात्रात्परं केचिन्मन्यन्ते देयमौषधम्॥

6.39.120

दशरात्रात्परं केचिद्दातव्यमिति निश्चिताः।
पैत्तिके वा ज्वरे देयमल्पकालसमुत्थिते॥

6.39.121

अचिरज्वरितस्यापि देयं स्याद्दोषपाकतः।
भेषजं ह्यामदोषस्य भूयो ज्वलयति ज्वरम्॥

6.39.122

शोधनं शमनीयं तु करोति विषमज्वरम्।
च्यवमानं ज्वरोत्क्लिष्टमुपेक्षेत मलं सदा॥

6.39.123

अतिप्रवर्तमानं च साधयेदतिसारवत्।
यदा कोष्ठानुगाः पक्वा विबद्धाः स्रोतसां मलाः॥

6.39.124

अचिरज्वरितस्यापि तदा दद्याद्विरेचनम्।
पक्वो ह्यनिर्हृतो दोषो देहे तिष्ठन् महात्ययम्॥

6.39.125

विषमं वा ज्वरं कुर्याद्बलव्यापदमेव च।
तस्मान्निर्हरणं कार्यं दोषाणां वमनादिभिः॥

6.39.126

प्रक्कर्म वमनं चास्य कार्यमास्थापनं तथा।
विरेचनं तथा कुर्याच्छिरसश्च विरेचनम्॥

6.39.127

क्रमशः बलिने देयं वमनं श्लैष्मिके ज्वरे।
पित्तप्राये विरेकस्तु कार्यः प्रशिथिलाशये॥

6.39.128

सरुजेऽनिलजे कार्यं सोदावर्ते निरूहणम्।
कटीपृष्ठग्रहार्तस्य दीप्ताग्नेरनुवासनम्॥

6.39.129

शिरोगौरवशूलघ्नमिन्द्रियप्रतिबोधनम्।
कफाभिपन्ने शिरसि कार्यं मूर्धविरेचनम्॥

6.39.130

दुर्बलस्य समाध्मातमुदरं सरुजं दिहेत्।
दारुहैमवतीकुष्ठशताह्वाहिङ्गुसैन्धवैः॥

6.39.131

अम्लपिष्टैः सुखोष्णैश्च पवने तूर्ध्वमागते।
रुद्धमूत्रपुरीषाय गुदे वर्तिं निधापयेत्॥

6.39.132

पिप्पालीपिप्पलीमूलयवानीचव्यसाधिताम्।
पाययेत यवागूं वा मारुताद्यनुलोमिनीम्॥

6.39.133

शुद्धस्योभयतो यस्य ज्वरः शान्तिं न गच्छति।
सशेषदोषरूक्षस्य तस्य तं सर्पिषा जयेत्॥

6.39.134

कृशं चैवाल्पदोषं च शमनीयैरुपाचरेत्।
उपवासैर्बलस्थं तु ज्वरे सन्तर्पणोत्थिते॥

6.39.135

क्लिन्नां यवागूं मन्दाग्निं तृषार्तं पाययेन्नरम्।
तृट्छर्दिदाहघर्मार्तं मद्यपं लाजतर्पणम्॥

6.39.136

सक्षौद्रमम्भसा पश्चाज्जीर्णे यूषरसौदनम्।
उपवासश्रमकृते क्षीणं(क्षीणे) वाताधिके ज्वरे॥

6.39.137

दीप्ताग्निं भोजयेत् प्राज्ञो नरं मांसरसौदनम्।
मुद्गयूषौदनश्चापि हितः कफसमुत्थिते॥

6.39.138

स एव सितया युक्तः शीतः पित्तज्वरे हितः।
दाडिमामलमुद्गानां यूषश्चानिलपैत्तिके॥

6.39.139

ह्रस्वमूलकयूषस्तु वातश्लेष्माधिके हितः।
पटोलनिम्बयूषस्तु पथ्यः पित्तकफात्मके॥

6.39.140

दाहच्छर्दियुतं क्षामं निरन्नं तृष्णयार्दितम्।
सिताक्षौद्रयुतं लाजतर्पणं पाययेत च॥

6.39.141

कफपित्तपरीतस्य ग्रीष्मेऽसृक्पित्तिनस्तथा।
मद्यनित्यस्य न हिता यवागूस्तमुपाचरेत्॥

6.39.142

यूषैरम्लैरनम्लैर्वा जाङ्गलैश्च रसैर्हितैः।
मद्यं पुराणं मन्दाग्नेर्यवान्नोपहितं हितम्॥

6.39.143

सव्योषं वितरेत्तक्रं कफारोचकपीडिते।
कृशोऽल्पदोषो दीनश्च नरो जीर्णज्वरार्दितः॥

6.39.144

विबद्धः सृष्टदोषश्च रूक्षः पित्तानिलज्वरी।
पिपासार्तः सदाहो वा पयसा स सुखी भवेत्॥

6.39.145

तदेव तरुणे पीतं विषवद्धन्ति मानवम्।
सर्वज्वरेषु सुलघु मात्रावद्भोजनं हितम्॥

6.39.146

वेगापायेऽन्यथा तद्धि ज्वरवेगाभिवर्धनम्।
ज्वरितो हितमश्नीयाद्यद्यप्यस्यारुचिर्भवेत्॥

6.39.147

अन्नकाले ह्यभुञ्जानः क्षीयते म्रियतेऽथवा।
स क्षीणः कृच्छ्रतां याति यात्यसाध्यत्वमेव च॥

6.39.148

तस्माद्रक्षेद्बलं पुंसां बले सति हि जीवितम्।
गुर्वभिष्यन्द्यकाले च ज्वरी नाद्यात् कथञ्चन॥

6.39.149

न तु तस्याहितं भुक्तमायुषे वा सुखाय वा।
संततं विषमं वापि क्षीणस्य सुचिरोत्थितम्॥

6.39.150

ज्वरं संभोजनैः पथ्यैर्लघुभिः समुपाचरेत्।
मुद्गान्मसूरांश्चणकान् कुलत्थान् समकुष्ठकान्॥

6.39.151

आहारकाले यूषार्थं ज्वरिताय प्रदापयेत्।
पटोलपत्रं वार्ताकं कठिल्लं पापचैलिकम्॥

6.39.152

कर्काटकं पर्पटकं गोजिह्वां बालमूलकम्।
पत्रं गुडूच्याः शाकार्थे ज्वरितानां प्रदापयेत्॥

6.39.153

लावान् कपिञ्जलानेणान् पृषताञ्छरभाञ्छशान्।
कालपुच्छान् कुरङ्गांश्च तथैव मृगमातृकान्॥

6.39.154

मांसार्थे मांससात्म्यानां ज्वरितानां प्रदापयेत्।
सारसक्रौञ्चशिखिनः कुक्कुटांस्तित्तिरांस्(तित्तिरीं)तथा॥

6.39.155

गुरूष्णत्वान्न शंसन्ति ज्वरे केचिच्चिकित्सकाः।
ज्वरितानां प्रकोपं तु यदा याति समीरणः॥

6.39.156

तदैतेऽपि हि शस्यन्ते मात्राकालोपपादिताः।
परिषेकान् प्रदेहांश्च स्नेहान् संशोधनानि च॥

6.39.157

(स्नानाभ्यङ्गदिवास्वप्नशीतव्यायामयोषितः)।
कषायगुरुरूक्षाणि क्रोधादीनि तथैव च॥

6.39.158

सारवन्ति च भोज्यानि वर्जयेत्तरुणज्वरी।
तथैव नवधान्यादिं वर्जयेच्च समासतः॥

6.39.159

अनवस्थितदोषाग्नेरेभिः सन्धुक्षितो ज्वरः।
गम्भीरतीक्ष्णवेगत्वं यात्यमाध्यत्वमेव च॥

6.39.160

शीततोयदिवास्वप्नक्रोधव्यायामयोषितः।
न सेवेत ज्वरोत्सृष्टो यावन्न बलवान् भवेत्॥

6.39.161

मुक्तस्यापि ज्वरेणाशु दुर्बलस्याहितैर्ज्वरः।
प्रत्यापन्नो दहेद्देहं शुष्कं वृक्षमिवानलः॥

6.39.162

तस्मात्कार्यः परीहारो ज्वरमुक्तैर्विरिक्तवत्।
यावन्न प्रकृतिस्थः स्याद्दोषतः प्राणतस्तथा॥

6.39.163

ज्वरे प्रमोहो भवति स्वल्पैरप्यवचेष्टितैः।
निषण्णं भोजयेत्तस्मान्मूत्रोच्चारौ च कारयेत्॥

6.39.164

अरोचके गात्रसादे वैवर्ण्येऽङ्गमलादिषु।
शान्तज्वरोऽपि शोध्यः स्यादनुबन्धभयान्नरः॥

6.39.165

न जातु स्नापयेत् प्राज्ञः सहसा ज्वरकर्शितम्।
तेन संदूषितो ह्यस्य पुनरेव भवेज्ज्वरः॥

6.39.166

चिकित्सेच्च ज्वरान् सर्वान्निमित्तानां विपर्ययैः।
श्रमक्षयाभिघातोत्थे मूलव्याधिमुपाचरेत्॥

6.39.167

स्त्रीणामपप्रजातानां स्तन्यावतरणे च यः।
तत्र संशमनं कुर्याद्यथादोषं विधानवित्॥

6.39.168

अतः संशमनीयानि कषायाणि निबोध मे।
सर्वज्वरेषु देयानि यानि वैद्येन जानता॥

6.39.169

पिप्पलीसारिवाद्राक्षाशतपुषोआहरेणुभिः।
कृतः कषायः सगुडो हन्याच्छ्वसनजं ज्वरम्॥

6.39.170

शृतं शीतकषायं वा गुडूच्याः पेयमेव तु।
बलादर्भश्वदंष्ट्राणां कषायं पादशेषितम्॥

6.39.171

शर्कराघृतसंयुक्तं पिबेद्वातज्वरापहम्।
शतपुष्पावचाकुष्ठदेवदारुहरेणुकाः॥

6.39.172

कुस्तुम्बुरूणि नलदं मुस्तं चैवाप्सु साधयेत्।
क्षौद्रेण सितया चापि युक्तः क्वाथोऽनिलाधिके॥

6.39.173

द्राक्षागुडूचीकाश्मर्यत्रायमाणाः ससारिवाः।
निष्क्वाथ्य सगुडं क्वाथं पिबेद्वातकृते ज्वरे॥

6.39.174

गुडूच्याः स्वरसो ग्राह्यः शतावर्याश्च तत्समः।
निहन्यात्सगुडः पीतः सद्योऽनिलकृतं ज्वरम्॥

6.39.175

घृताभ्यङ्गस्वेदलेपानवस्थासु च योजयेत्।
श्रीपर्णीचन्दनोशीरपरूषकमधूकजः॥

6.39.176

शर्करामधुरो हन्ति कषायः पैत्तिकं ज्वरम्।
पीतं पित्तज्वरं हन्यात्सारिवाद्यं सशर्करम्॥

6.39.177

सयष्टीमधुकं हन्यात्तथैवोत्पलपूर्वकम्।
शृतं शीतकषायं वा सोत्पलं शर्करायुतम्॥

6.39.178

गुडूचीपद्मरोध्राणां सारिवोत्पलयोस्तथा।
शर्करामधुरः क्वाथः शीतः पित्तज्वरापहः॥

6.39.179

द्राक्षारग्वधयोश्चापि काश्मर्यस्याथवा पुनः।
स्वादुतिक्तकषायाणां कषायैः शर्करायुतैः॥

6.39.180

सुशीतैः शमयेत्तृष्णां प्रवृद्धां दाहमेव च।
शीतं मधुयुतं तोयमाकण्ठाद्वा पिपासितम्॥

6.39.181

वामयेत्पाययित्वा तु तेन तृष्णा प्रशाम्यति।
क्षीरैः क्षीरिकषायैश्च सुशीतैश्चन्दनायुतैः॥

6.39.182

अन्तर्दाहे विधातव्यमेभिश्चान्यैश्च शीतलैः।
पद्मकं मधुकं द्राक्षां पुण्डरीकमथोत्पलम्॥

6.39.183

यवान् भृष्टानुशीराणि समङ्गां कश्मरीफलम्।
निदध्यादप्सु चालोड्य निशापर्युषितं ततः॥

6.39.184

क्षौद्रेण युक्तं पिबतो ज्वरदाहौ प्रशाम्यतः।
जिह्वातालुगलक्लोमशोषे मूर्ध्नि च दापयेत्॥

6.39.185

केशरं मातुलुङ्गस्य मधुसैन्धवसंयुतम्।
शर्करादाडिमाभ्यां वा द्राक्षाखर्जूरयोस्तथा॥

6.39.186

वैरस्ये धारयेत्कल्कं गण्डूषं च तथा हितम्।
सप्तच्छदं गुडूचीं च निम्बं स्फूर्जकमेव च॥

6.39.187

क्वाथयित्वा पिबेत् क्वाथं सक्षौद्रं कफजे ज्वरे।
कटुत्रिकं नागपुष्पं हरिद्रा कटुरोहिणी॥

6.39.188

कौटजं च फलं हन्यात् सेव्यमानं कफज्वरम्।
हरिद्रां चिअत्रकं निम्बमुशीरातिविषे वचाम्॥

6.39.189

कुष्ठमिन्द्रयवान् मूर्वां पटोलं चापि साधितम्।
पिबेन्मरिचसंयुक्तं सक्षौद्रं कफजे ज्वरे॥

6.39.190

सारिवातिविषाकुष्ठपुराख्यैः सदुरालभैः।
मुस्तेन च कृतः क्वाथः पीतो हन्यात् कफज्वरम्॥

6.39.191

मुस्तं वृक्षकबीजानि त्रिफला कटुरोहिणी।
परूषकाणि च क्वाथः कफज्वरविनाशनः॥

6.39.192

राजवृक्षादिवर्गस्य कषायो मधुसंयुतः।
कफवातज्वरं हन्याच्छीघ्रं कालेऽवचारितः॥

6.39.193

नागरं धान्यकं भार्गीमभयां सुरदारु च।
वचां पर्पटकं मुस्तं भूतीकमथ कट्फलम्॥

6.39.194

निष्क्वाथ्य कफवातोत्थे क्षौद्रहिङ्गुसमन्वितम्।
दातव्यं(अपातव्यं) श्वासकासघ्नं श्लेष्मोत्सेके गलग्रहे॥

6.39.195

हिक्कासु कण्ठश्वयथौ शूले हृदयपार्श्वजे।
बलापटोलत्रिफलायष्ट्याह्वानां वृषस्य च॥

6.39.196

क्वाथो मधुयुतः पीतो हन्ति पित्तकफज्वरम्।
कटुकाविजयाद्राक्षामुस्तपर्पटकैः कृतः॥

6.39.197

कषायो नाशयेत् पीतः श्लेष्मपित्तभवं ज्वरम्।
भार्गीवचापर्पटकधान्यहिङ्ग्वभयाघनैः॥

6.39.198

काश्मर्यनागरैः क्वाथः सक्षौद्रः श्लेष्मपित्तजे।
सशर्करामक्षमात्रां कटुकामुष्णवारिणा॥

6.39.199

पीत्वा ज्वरं जयेज्जन्तुः कफपित्तसमुद्भवम्।
किराततिक्तममृतां द्राक्षामामलकं शटीम्॥

6.39.200

निष्क्वाथ्य वातपित्तोत्थे तं क्वाथं सगुडं पिबेत्।
रास्ना वृषोऽथ त्रिफला राजवृक्षफलैः सह॥

6.39.201

कषायः साधितः पीतो वातपित्तज्वरं जयेत्।
सर्वदोषसमुत्थे तु संसृष्टानवचारयेत्॥

6.39.202

यथादोषोच्छ्रयं चापि ज्वरान् सर्वानुपाचरेत्।
वृश्चीवबिल्ववर्षाभ्वः पयश्चोदकमेव च॥

6.39.203

पचेत् क्षीरावशिष्टं तु तद्धि सर्वज्वरापहम्।
उदकांशास्त्रयः क्षीरं शिंशपासारसंयुतम्॥

6.39.204

तत् क्षीरशेषं क्वथितं पेयं सर्वज्वरापहम्।
नलवेतसयोर्मूले मूर्वायां देवदारुणि॥

6.39.205

कषायं विधिवत् कृत्वा पेयमेतज्ज्वरापहम्।
हरिद्रा भद्रमुस्तं च त्रिफला कटुरोहिणी॥

6.39.206

पिचुमन्दः पटोली च देवदारु निदिग्धिका।
एषां कषायः पीतस्तु सन्निपातज्वरं जयेत्॥

6.39.207

अविपक्तिं प्रसेकं च शोफं कासमरोचकम्।
त्रैफलो वा ससर्पिष्कः क्वाथः पेयस्त्रिदोषजे॥

6.39.208

अनन्तां बालकं मुस्तां नागरं कटुरोहिणीम्।
सुखाम्बुना प्रागुदयात्पाययेताक्षसंमितम्॥

6.39.209

एष सर्वज्वरान् हन्ति दीपयत्याशु चानलम्।
द्रव्याणि दीपनीयानि तथा वैरेचनानि च॥

6.39.210

एकशो वा द्विशो वापि ज्वरघ्नानि प्रयोजयेत्।
सर्पिर्मध्वभयातैललेहोऽयं सर्वजं ज्वरम्॥

6.39.211

शान्तिं नयेत्त्रिवृच्चापि सक्षौद्रा प्रबलं ज्वरम्।
ज्वरे तु विषमे कार्यमूर्ध्वं चाधश्च शोधनम्॥

6.39.212

घृतं प्लीहोदरोक्तं वा निहन्याद्विषमज्वरम्।
गुडप्रगाढां त्रिफलां पिबेद्वा विषमार्दितः॥

6.39.213

गुडूचीनिम्बधात्रीणां कषायं वा समाक्षिकम्।
प्रातः प्रातः ससर्पिष्कं रसोनमुपयोजयेत्॥

6.39.214

त्रिचतुर्भिः पिबेत् क्वाथं पञ्चभिर्वा समन्वितैः।
मधुकस्य पटोलस्य रोहिण्या मुस्तकस्य च॥

6.39.215

हरीतक्याश्च सर्वोऽयं त्रिविधो योग इष्यते।
सर्पिःक्षीरसिताक्षौद्रमागधीर्वा यथाबलम्॥

6.39.216

दशमूलीकषायेण मागधीर्वा प्रयोजयेत्।
पिप्पलीवर्धमानं वा पिबेत् क्षीररसाशनः॥

6.39.217

ताम्रचूडस्य मांसेन पिबेद्वा मद्यमुत्तमम्।
कोलाग्निमन्थत्रिफलाक्वाथे दध्ना घृतं पचेत्॥

6.39.218

तिल्वकावापमेतद्धि विषमज्वरनाशनम्।
पिप्पल्यतिविषाद्राक्षारारिवाबिल्वचन्दनैः॥

6.39.219

कटुकेन्द्रयवोशीरसिंहीतामलकीघनैः।
त्रायमाणास्थिराधात्रीविश्वभेषजचित्रकैः॥

6.39.220

पक्वमेतैर्घृतं पीतं विजित्य विसमाग्निताम्।
जीर्णज्वरशिरःशूलगुल्मोदरहलीमकान्॥

6.39.221

क्षयकासं ससंतापं पार्श्वशूलानपास्यति।
गुडूचीत्रिफलावासात्रायमाणायवासकैः॥

6.39.222

क्वथितैर्विधिवत्पक्वमेतैः कल्कीकृतैः समैः।
द्राक्षामागधिकाम्भोदनागरोत्पलचन्दनैः॥

6.39.223

पीतं सर्पिः क्षयश्वासकासजीर्णज्वरान् जयेत्।
कलशीबृहतीद्राक्षात्रायन्तीनिम्बगोक्षुरैः॥

6.39.224

बलापर्पटकाम्भोदशालपर्णीयवासकैः।
पक्वमुत्क्वथितैः सर्पिः कल्कैरेभिः समन्वितम्॥

6.39.225

शटीतामलकीभार्गीमेदामलकपौष्करैः।
क्षीरद्विगुणसंयुक्तं जीर्णज्वरमपोहति॥

6.39.226

शिरःपार्श्वरुजाकासक्षयप्रशमनं परम्।
पटोलीपर्पटारिष्टगुडूचीत्रिफलावृषैः॥

6.39.227

कटुकाम्बुदभूनिम्बयासयष्ट्याह्वचन्दनैः।
दार्वीशक्रयवोशीरत्रायमाणाकणोत्पलैः॥

6.39.228

धात्रीभृङ्गरजोभीरुकाकमाचीरसैर्घृतम्।
सिद्धमाश्वपचीकुष्ठज्वरशुक्रार्जुनव्रणान्॥

6.39.229

हन्यान्नयनवदनश्रवणघ्राणजान् गदान्।
विडङ्गत्रिफलामुस्तमञ्जिष्ठादाडिमोत्पलैः॥

6.39.230

प्रियङ्ग्वेलैलवालूकचन्दनामरदारुभिः।
बर्हिष्ठकुष्ठरजनीपर्णिनीसारिवाद्वयैः॥

6.39.231

हरेणुकात्रिवृद्दन्तीवचातालीशकेसरैः।
द्विक्षीरं विपचेत्सर्पिर्मालतीकुसुमैः सह॥

6.39.232

जीर्णज्वरश्वासकासगुल्मोन्मादगरापहम्।
एतत्कल्याणकं नाम सर्पिर्माङ्गल्यमुत्तमम्॥

6.39.233

अलक्ष्मीग्रहरक्षोग्निमान्द्यापस्मारपापनुत्।
शस्यते नष्टशुक्राणां वन्ध्यानां गर्भदं परम्॥

6.39.234

मध्यं चक्षुष्यमायुष्यं रेतोमार्गविशोधनम्।
एतैरेव तथा द्रव्यैः सर्वगन्धैश्च साधितम्॥

6.39.235

कपिलाया घृतप्रस्थं सुवर्णमणिसंयुतम्।
तत्क्षीरेण सहैकध्यं प्रसाध्य कुसुमैरिमैः॥

6.39.236

सुमनश्चम्पकाशोकशिरीषकुसुमैर्वृतम्।
तथा नलदपद्मानां केशरैर्दाडिमस्य च॥

6.39.237

तिथौ प्रशस्ते नक्षत्रे साधकस्यातुरस्य च।
कृतं मनुष्यदेवाय ब्राह्मणैरभिमन्त्रितम्॥

6.39.238

दत्तं सर्वज्वरान् हन्ति महाकल्याणकं त्विदम्॥

6.39.239

दर्शनस्पर्शनाभ्यां च सर्वरोगहरं शिवम्।
अधृष्यः सर्वभूतानां वलीपलितवर्जितः॥

6.39.240

अस्याभ्यासाद्घृतस्येह जीवेद्वर्षशतत्रयम्।
गव्यं दधि च मूत्रं च क्षीरं सर्पिः शकृद्रसः॥

6.39.241

समभागानि पाच्यानि कल्कांश्चैतान् समावपेत्।
त्रिफलां चित्रकं मुस्तं हरिद्रातिविषे वचाम्॥

6.39.242

विडङ्गं त्र्यूषणं चव्यं सुरदारु तथैव च।
पञ्चगव्यमिदं पानाद्विषमज्वरनाशनम्॥

6.39.243

पञ्चगव्यमृते गर्भात्पाच्यमन्यद् वृषेण च।
बलयाथ परं पाच्यं गुडूच्या तद्वदेव तु॥

6.39.244

जीर्णज्वरे च शोफे च पाण्डुरोगे च पूजितम्।
एतेनैव तु कल्पेन घृतं पञ्चाविकं पचेत्।
पञ्चाजं पञ्चमहिषं चतुरुष्ट्रमथापि च॥

6.39.245

त्रिफलोशीरशम्पाककटुकातिविषाघनैः।
शतावरीसप्तपर्णगुडूचीरजनीद्वयैः॥

6.39.246

चित्रकत्रिवृतकवचाविशालापटोलारिष्टवालकैः।
किराततिक्तकवचाविशालापद्मकोत्पलैः॥

6.39.247

सारिवाद्वययष्ट्याह्वचविकारक्तचन्दनैः।
दुरालभापर्पटकत्रायमाणाटरूषकैः॥

6.39.248

रास्नाकुङ्कुममञ्जिष्ठामागधीनागरैस्तथा।
धात्रीफलरसैः सम्यग्द्विगुणैः साधितं हविः॥

6.39.249

परिसर्पज्वरश्वासगुल्मकुष्ठनिवारणम्।
पाण्डुप्लीहाग्निसादिभ्य एतदेव परं हितम्॥

6.39.250

पटोलकटुकादार्वीनिम्बवासाफलत्रिकम्।
दुरालभापर्पटकत्रायमाणाः पलोन्मिताः॥

6.39.251

प्रस्थमामलकानां च क्वाथयेत्सलिलार्मणे।
तेन पादावशेषेण घृतप्रस्थं विपाचयेत्॥

6.39.252

कल्कैः कुटजभूनिम्बघनयष्ट्याह्वचन्दनैः।
सपिप्पलीकैस्तत्सिद्धं चक्षुष्यं शुक्लयोर्हितम्॥

6.39.253

घ्राणकर्णाक्षिवदनवर्त्मरोगव्रणापहम्।
रक्त्कपित्तकफस्वेदक्लेदपूयोपशोषणम्॥

6.39.254

कामलाज्वरवीसर्पगण्डमालाहरं परम्।
शृतं पयः शर्करा च पिप्पल्यो मधुसर्पिषी॥

6.39.255

पञ्चसारमिदं पेयं मथितं विषमज्वरे।
क्षतक्षीणे क्षये श्वासे हृद्रोगे चैतदिष्यते॥

6.39.256

लाक्षाविश्वनिशामूर्वामञ्जिष्ठास्वर्जिकामयैः।
षड्गुणेन च तक्रेण सिद्धं तैलं ज्वरान्तकृत्॥

6.39.257

क्षीरिवृक्षासनारिष्टजम्बूसप्तच्छदार्जुनैः।
शिरीषखदिरास्फोटामृतवल्ल्याटरूषकैः॥

6.39.258

कटुकापर्पटोशीरवचातेजोवतीघनैः।
साधितं तैलमभ्यङ्गादाशु जीर्णज्वरापहम्॥

6.39.259

निर्विषैर्भुजगैर्नागैर्विनीतैः कृततस्करैः।
त्रासयेदागमे चैनं तदहर्भोजयेन्न च॥

6.39.260

अत्यभिष्यन्दिगुरुभिर्वामयेद्वा पुनः पुनः।
मद्यं तीक्ष्णं पाययेत घृतं वा ज्वरनाशनम्॥

6.39.261

पुराणं वा घृतं काममुदारं वा विरेचनम्।
निरूहयेद्वा मतिमान् सुस्विन्नं तदहर्नरम्॥

6.39.262

अजाव्योश्चर्मरोमाणि वचा कुष्ठं पलङ्कषा।
निम्बपत्रं मधुयुतं धूपनं तस्य दापयेत्॥

6.39.263

बैडालं वा शकृद्योज्यं वेपमानस्य धूपनम्।
पिप्पली सैन्धवं तैलं नेपाली चेक्षणाञ्जनम्॥

6.39.264

उदरोक्तानि सर्पीषि यान्युक्तानि पुरा मया।
कल्पोक्तं चाजितं सर्पिः सेव्यमानं ज्वरं जयेत्॥

6.39.265

भूतविद्यासमुद्दिष्टैर्बन्धावेशनपूजनैः।
जयेद्भूताभिषङ्गोत्थं विज्ञानाद्यैश्च मानसम्॥

6.39.266

श्रमक्षयोत्थे भुञ्जीत घृताभ्यक्तो रसौदनम्।
अभिशापाभिचारोत्थौ ज्वरौ होमादिना जयेत्॥

6.39.267

दानस्वस्त्ययनातिथ्यैरुत्पातग्रहपीडितम्।
अभिघातज्वरे कुर्यात् क्रियामुष्णविवर्जिताम्॥

6.39.268

कषायमधुरां स्निग्धां यथादोषमथापि वा।
औषधीगन्धविषजौ विषपित्तप्रसाधनैः॥

6.39.269

जयेत् कषायं च हितं सर्वगन्धकृतं तथा।
निम्बदारुकषायं वा हितं सौमनसं यथा॥

6.39.270

यवान्नविकृतिः सर्पिर्मद्यं च विषमे हितम्।
संपूजयेद्विजान् गाश्च देवमीशानमम्बिकाम्॥

6.39.271

कफवातोत्थयोश्चापि ज्वरयोः शीतपीडितम्।
दिह्यादुष्णेन वर्गेण परश्चोष्णो विधिर्हितः॥

6.39.272

सिञ्चेत् कोष्णैरारनालशुक्तगोमूत्रमस्तुभिः।
दिह्यात् पलाशैः पिष्टैर्वा सुरसार्जकशिग्रुजैः॥

6.39.273

क्षारतैलेन वाभ्यङ्गः सशुक्तेन विधीयते।
पानमारग्वधादेश्च क्वथितस्य विशेषतः॥

6.39.274

अवगाहः सुखोष्णश्च वातघ्नक्वाथयोजितः।
जित्वा शीतं क्रमैरेभिः सुखोष्णजलसेचितम्॥

6.39.275

प्रवेश्यौर्णिककार्पासकौशेयाम्बरसंवृतम्।
शाययेत् क्षामदेहं च कालगुरुविभूषितम्॥

6.39.276

स्तनाढ्या रूपसंपन्नाः कुशला नवयौवनाः।
भजेयुः प्रमदा गात्रैः शीतदैन्यापहाः शुभाः॥

6.39.277

शरच्छशाङ्कवदना नीलोत्पलविलोचनाः।
स्फुरितभ्रूलताभङ्गललाटतटकम्पनाः॥

6.39.278

प्रलम्बबिम्बप्रचलद्बिम्बीफलनिभाधराः।
कृशोदर्योऽतिविस्तीर्णजघनोद्वहनालसाः॥

6.39.279

कुङ्कुमागुरुदिग्धाङ्ग्यो घनतुङ्गपयोधराः।
सुगन्धिधूपितश्लक्ष्णस्रस्तांशुकविभूषणाः॥

6.39.280

गाढमालिङ्गयेयुस्तं तरुं वनलता इव।
प्रह्लादं चास्य विज्ञाय ताः स्त्रीरपनयेत् पुनः॥

6.39.281

तासामङ्गपरिष्वङ्गनिवारुतहिमज्वरम्।
भोजयेद्धितमन्नं च यथा सुखमवाप्रुयात्॥

6.39.282

दाहाभिभूते तु विधिं कुर्याद्दाहविनाशनम्।
मधुफणितयुक्तेन निम्बपत्राम्भसापि वा॥

6.39.283

दाहज्वरार्तं मतिमान् वामयेत् क्षिप्रमेव च।
शतधौतघृताभ्यक्तं दिह्याद्वा यवशक्तुभिः॥

6.39.284

कोलामलकसंयुक्तैः शुक्तधान्याम्लसंयुतैः।
अम्लपिष्टैः सुशीतैश्च फेनिलापल्लवैस्तथा॥

6.39.285

अम्लपिष्टैः सुशीतैर्वा पलाशतरुजैर्दिहेत्।
बदरीपल्लवोत्थेन फेनेनारिष्टकस्य च॥

6.39.286

लिप्तेऽङ्गे दाहतृण्मूर्च्छाः प्रशाम्यन्ति च सर्वशः।
यवार्धकुडवं पिष्ट्वा मञ्जिष्ठार्धपलं तथा॥

6.39.287

अम्लप्रस्थशतोन्मिश्रं तैलप्रस्थं विपाचयेत्।
एतत् प्रह्लादनं तैलं ज्वरदाहविनाशनम्॥

6.39.288

न्यग्रोधादिर्गणो यस्तु काकोल्यादिश्च यो गणः।
उत्पलादिर्गणो यस्तु पिष्टर्वा तैः प्रलेपयेत्॥

6.39.289

तत्कषायाम्लसंसिद्धाः स्नेहाश्चाभ्यञ्जने हिताः।
तेषां शीतकषाये वा दाहार्तमवगाहयेत्॥

6.39.290

दाहवेगे त्वतिक्रान्ते तस्मादुद्धृत्य मानवम्।
परिषिच्याम्बुधिः शीतैः प्रलिम्पेच्चन्दनादिभिः॥

6.39.291

ग्लानं वा दीनमनसमाश्लिषेयुर्वराङ्गनाः।
पेलवक्षौमसंवीताश्चन्दनार्द्रपयोधराः॥

6.39.292

बिभ्रत्योऽब्जस्रजश्चित्रा मणिरत्नविभूषिताः।
भजेयुस्ताः स्तनैः शीतैः स्पृशन्त्योऽम्बुरुहैः सुखैः॥

6.39.293

प्रह्लादं चास्य विज्ञाय ताः स्त्रीरपनयेत् पुनः।
हितं च भोजयेदन्नं तथाआप्नोति सुखं महत्॥

6.39.294

पित्तज्वरोक्तं शमनं विरेकोऽन्यद्धितं च यत्।
निर्हरेत्पित्तमेवादौ दोषेषु समवायिषु॥

6.39.295

दुर्निवारतरं तद्धि ज्वरार्तानां विशेषतः।
छर्दिमूर्च्छापिपासादीनविरोधाज्ज्वरस्य च॥

6.39.296

उपद्रवाञ्जयेच्चापि प्रत्यनीकेन हेतुना।
विशेषमपरं चात्र शृणूपद्रवनाशनम्॥

6.39.297

मधुकं रजनी मुस्तं दाडिमं साम्लवेतसम्।
अञ्जनं तिन्तिडीकं च नलदं पत्रमुत्पलम्॥

6.39.298

त्वचं व्याघ्रनखं चैव मातुलुङ्गरसो मधु।
दिह्यादेभिर्ज्वरार्तस्य मधुशुक्तयुतैः शिरः॥

6.39.299

शिरोभितापसंमोहवमिहिक्काप्रवेपथून्।
प्रदेहो नाशयत्येष ज्वरितानामुपद्रवान्॥

6.39.300

मधूकमथ ह्रीबेरमुत्पलानि मधूलिकाम्॥

6.39.301

लीड्वा चूर्णानि मधुना सर्पिषा च जयेद्वमिम्।
कफप्रसेकासृक्पित्तहिक्काश्वासांश्च दारुणान्॥

6.39.302

लिहन् ज्वरार्तस्त्रिफलां पिप्पलीं च समाक्षिकाम्।
कासे श्वासे च मधुना सर्पिषा च सुखी भवेत्॥

6.39.303

विदारी दाडिमं लोध्रं दधित्थं बीजपूरकम्।
एभिः प्रदिह्यान्मूर्धानं तृड्दाहार्तस्य देहिनः॥

6.39.304

दाडिमस्य सितायाश्च द्राक्षामलकयोस्तथा।
वैरस्ये धारयेत् कल्कं गण्डूषं च यथाहितम्॥

6.39.305

क्षीरेक्षुरसमाक्षीकसर्पिस्तैलोष्णवारिभिः।
शून्ये मूर्ध्नि हितं नस्यं जीवनीयशृतं घृतम्॥

6.39.306

चूर्णितैस्त्रिफलाश्यामात्रिवृत्पिप्पलिसंयुतैः।
सक्षौद्रः शर्करायुक्तो विरेकस्तु प्रशस्यते॥

6.39.307

पक्वे पित्तज्वरे रक्ते चोर्ध्वगे वेपथौ तथा।
कफवातोत्थयोरेवं स्नेहाभ्यङ्गैर्विशोधयेत्॥

6.39.308

हृतदोषो भ्रमार्तस्तु लिह्यात् क्षौद्रसिताभयाः।
वातघ्नमधुरैर्योज्या निरूहा वातजे ज्वरे॥

6.39.309

अवेक्ष्य दोषं प्राणं च यथास्वं चानुवासनाः।
उत्पलादिकषायाद्याश्(कषायाढ्याश्)चन्दनोशीरसंयुताः॥

6.39.310

शर्करामधुराः शीताः पित्तज्वरहरा मताः।
आम्रादीनां त्वचं शङ्खं चन्दनं मधुकोत्पले॥

6.39.311

गैरिकाञ्जनमञ्जिष्ठामृणालान्यथ पद्मकम्।
श्लक्ष्णपिष्टं तु पयसा शर्करामधुसंयुतम्॥

6.39.312

सुपूतं शीतलं बस्तिं दह्यमानाय दापयेत्।
ज्वरदाहापहं तेषु सिद्धं चैवानुवासनम्॥

6.39.313

आरग्वधगणक्वाथाः पिप्पल्यादिसमायुताः।
सक्षौद्रमूत्रा देयाः स्युः कफज्वरविनाशनाः॥

6.39.314

कफघ्नैरेव संसिद्धा द्रव्यैश्चाप्यनुवासनाः।
संसर्गे सन्निपाते च संसृष्टा बस्तयो हिताः॥

6.39.315

संसृष्टैरेव संसृष्टा द्रव्यैश्चाप्यनुवासनाः।
वातरोगापहाः सर्वे स्नेहा ये सम्यगीरिताः॥

6.39.316

विना तैलं त एव स्युर्योज्या मारुतजे ज्वरे।
निखिलेनोपयोज्याश्च त एवाभ्यञ्जनादिषु॥

6.39.317

पैत्तिके मधुरैस्तिक्तैः सिद्धं सर्पिश्च पूज्यते।
श्लैष्मिके कटुतिक्तैश्च संसृष्टानीतरेषु च॥

6.39.318

हृतावशेषं पित्तं तु त्वक्स्थं जनयति ज्वरम्।
पिबेदिक्षुरसं तत्र शीतं वा शर्करोदकम्॥

6.39.319

शालिषष्टिकयोरन्नमश्नीयात् क्षीरसंप्लुतम्।
कफवातोत्थयोरेव स्वेदाभ्यङ्गौ प्रयोजयेत्॥

6.39.320

घृतं द्वादशरात्रात्तु देयं सर्वज्वरेषु च।
तेनान्तरेणाशयं स्वं गता दोषा भवन्ति हि॥

6.39.321

धानून् प्रक्षोभयन् दोषो मोक्षकाले बलीयते।
तेन व्याकुलचित्तस्तु म्रियमाण इवेहते॥

6.39.322

लघुत्वं शिरसः स्वेदो मुखमापाण्डु पाकि च।
क्षवथुश्चान्नकाङ्क्षा च ज्वरमुक्तस्य लक्षणम्॥

6.39.323

शम्भुक्रोधोद्भवो घोरो बलवर्णाग्निसादकः।
रोगराट् रोघसंघातो ज्वर इत्युपदिश्यते॥

6.39.324

व्यापित्वात् सर्वसंस्पर्शात् कृच्छ्रत्वादन्तसंभवात्।
अन्तको ह्येष भूतानां ज्वर इत्युपदिश्यते॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc