सुश्रुतसंहिता · अध्याय 6.28
अथातः स्कन्धग्रहप्रतिषेधं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
स्कन्दग्रहोपसृष्टानां कुमाराणां प्रशस्यते।
वातघ्नद्रुमपत्राणां निष्क्वाथः परिषेचने॥
तेषां मूलेषु सिद्धं च तैलमभ्यञ्जने हितम्।
सर्वगन्धसुरामण्डकैडर्यावापमिष्यते॥
देवदारुणि रास्नायां मधुरेषु द्रुमेषु च।
सिद्धं सर्पिश्च सक्षीरं पानमस्मै प्रयोजयेत्॥
सर्षपाः सर्पनिर्मोको वचा काकादनी घृतम्।
उष्ट्राजाविगवां चैव रोमाण्युद्धूपनं शिशोः॥
सोमवल्लीमिन्द्रवल्लीं शमीं बिल्वस्य कण्टकान्।
मृगादन्याश्च मूलानि ग्रथितान्येव धारयेत्॥
रक्तानि माल्यानि तथा पताका रक्ताश्च गन्धा विविधाश्च भक्ष्याः।
घण्टा च देवाय बलिर्निवेद्यः सुकुक्कुटः स्कन्दग्रहे हिताय॥
स्नानं त्रिरात्रं निशि चत्वरेषु कुर्यात् पुरं शालियवैर्नवैस्तु।
अद्भिश्च गायत्र्यभिमन्त्रिताभिः प्रज्वालनं व्याहृतिभिश्च वह्नेः॥
रक्षामतः प्रवक्ष्यामि बालानां पापनाशिनीम्।
अहन्यहनि कर्तव्या या भिषग्भिरतन्द्रितैः॥
तपसां तेजसां चैव यशसां वपुषां तथा।
निधानं योऽव्ययो देवः स ते स्कन्दः प्रसीदतु॥
ग्रहसेनापतिर्देवो देवसेनापतिर्विभुः।
देवसेनातिपुहरः पातु त्वां भगवान् गुहः॥
देवदेवस्य महतः पावकस्य च यः सुतः।
गङ्गोमाकृत्तिकानां च स ते शर्म प्रयच्छतु॥
रक्तमाल्याम्बरः श्रीमान् रक्तचन्दनभूषितः।
रक्तदिव्यवपुर्देवः पातु त्वां क्रौञ्चसूदनः॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0