भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 4.9

4.9.1

अथातः कुष्ठचिकित्सितं व्याख्यास्यामः॥

4.9.2

यथोवाच भगवान् धन्वन्तरिः॥

4.9.3

विरुद्धाध्यशनासात्म्यवेगविघातैः स्नेहादीनं चायथारम्भैः पापक्रियया पुराकृतकर्मयोगाच्च त्वग्दोषा भवन्ति॥

4.9.4

तत्र त्वग्दोषी मांसवसादुग्धदधितैलकुलत्थमाषनिष्पावेक्षुपिष्टविकाराम्लविरुद्धाध्यशनाजीर्णविदाह्यभिष्यन्दीनि दिवास्वप्नं व्यवायं च परिहरेत्॥

4.9.5

ततः शालिषष्टिकयवगोधूमकोरदूषश्यामाकोद्दालकादीननवान् भुञ्जीत मुद्गाढक्योरन्यतरस्य यूषेण सूपेन वा निम्बपत्रारुष्करव्यामिश्रेण, मण्डूकपर्ण्यवल्गुजाटरूपिकापुष्पैः सर्पिःसिद्धैः सर्षपतैलसिद्धैर्वा, तिक्तवर्गेण वाभिहितेन; मांससात्म्याय वा जाङ्गलमांसममेदस्कं वितरेत्; तैलं वज्रकमभ्यङ्गार्थे; आरग्वधादिकषायमुत्सादनार्थे; पानपरिषेकावगाहादिषु च खदिरकषायम्; इत्येष आहाराचारविभागः॥

4.9.6

तत्र पूर्वरूपेषूभयतः संशोधनमासेवेत। तत्र त्वक्संप्राप्ते शोधनालेपनानि, शोणितप्राप्ते संशोधनालेपनकषायपानशोणितावसेचनानि, मांसप्राप्ते शोधनालेपनकषायपानशोणितावसेचनारिष्टमन्थप्राशाः, चतुर्थकर्मगुणप्राप्तं याप्यमात्मवतः संविधानवतश्च, तत्र संशोधनाच्छोणितावसेचनाच्चोर्ध्वं भल्लातशिलाजतुधातुमाक्षीकगुग्गुल्वगुरुतुवरकखदिरासनायस्कृतिविधानमासेवेत; पञ्चमं नैवोपक्रमेत्॥

4.9.7

तत्र प्रथममेव कुष्ठिनं स्नेहपानविधानेनोपपादयेत्। मेषशृङ्गीश्वदंष्ट्राशार्ङ्गेष्टागुदूचीद्विपञ्चमूलीसिद्धं तैलं घृतं वा वातकुष्टिनां पानाभ्यङ्गयोर्विदध्यात्, धवाश्वकर्णककुभपलाशपिचुमर्दपर्पटकमधुकरोध्रसमङ्गासिद्धं सर्पिः पित्तकुष्ठिनां, प्रियालशालारग्वधनिम्बसप्तपर्णचित्रकमरिचवचाकुष्ठसिद्धं श्लेष्मकुष्ठिनां भल्लातकाभयाविडङ्गसिद्धं वा, सर्वेषां तुवरकतैलं भल्लातकतैलं वेति॥

4.9.8

सप्तपर्णारग्वधातिविषेक्षुरपाठाकटुरोहिण्यमृतात्रिफलापटोलपिचुमर्दपर्पटकदुरालभात्रायमाणामुस्ताचन्दनपद्मकहरिद्रोपकुल्याविशालामूर्वाशतावरीसारिवेन्द्रयवाटरूषकषट्ग्रन्थामधुकभूनिम्बगृष्टिका इति समभागाः कल्कः स्यात्, कल्काच्चतुर्गुणं सर्पिः प्रक्षिप्य तद्द्विगुणो धात्रीफलरसस्तच्चतुर्गुणा आपास्तदैकध्यं समालोड्य विपचेत्, एतन्महातिक्तकं नाम सर्पिः कुष्ठविषमज्वररक्तपित्तहृद्रोगोन्मादापस्मारगुल्मपिडाकासृग्दरगलगण्डगण्डमालाश्लीपदपाण्डुरोगविसर्पार्शःषाण्ढ्यकण्डूपामादीञ्छमयेदिति॥

4.9.9

त्रिफलापटोलपिचुमन्दाटरूषककटुरोहिणीदुरालभात्रायमाणाः पर्पटकश्चैतेषां द्विपलिकान् भागाञ्जलद्रोणे प्रक्षिप्य पादावशेषं कषायमादाय कल्कपेष्याणीमानि भेषजान्यर्धपलिकानि त्रायमाणामुस्तेन्द्रयवचन्दनकिराततिक्तानि पिप्पल्यश्चैतानि घृतप्रस्थे समावाप्य विपचेत्, एतत्तिक्तकं नाम सर्पिः कुष्ठविषमज्वरगुल्मार्शोग्रहणीदोषशोफपाण्डुरोगविसर्पषाण्ढ्यशमनमूर्ध्वजत्रुगतरोगघ्नं चेति॥

4.9.10

अतोऽन्यतमेन घृतेन स्निग्धस्विन्नस्यैकां द्वे तिस्रश्चतस्रः पञ्च वा सिरा विध्येत्; मण्डलानि चोत्सन्नान्यवलिखेदभीष्णं, प्रच्छयेद्वा, समुद्रफेनशाकगोजीकाकोदुम्बरिकापत्रैर्वावघृष्यालेपयेल्लाक्षासर्जरसरसाञ्जनप्रपुन्नाडावल्गुजतेजोवत्यश्वमारकार्ककुटजारेवतमूलकल्कैर्मूत्रपिष्टैः पित्तपिष्टैर्वा, स्वर्जिकातुत्थकासीसविडङ्गागारधूमचित्रककटुकसुधाहरिद्रासैन्धवकल्कैर्वा, एतान्येवावाप्य क्षारकल्पेन निःस्रुते पालाशे क्षारे ततो विपाच्य फाणीतमिव संजातमवतार्य लेपयेत्, ज्योतिष्कफललाक्षामरिचप्पिलीसुमनःपत्रैर्वा, हरितालमनःशिलार्कक्षीरतिलशिग्रुमरिचकल्कैर्वा, स्वर्जिकाकुष्ठतुत्थकुटजचित्रकविडङ्गमरिचरोध्रमनःशिलाकलैर्वा, हरीतकीकरञ्जिकाविडङ्गसिद्धार्थकलवणरोचनावल्गुजहरिद्राकल्कैर्वा॥

4.9.11

सर्वे कुष्ठापहाः सिद्धा लेपाः सप्त प्रकीर्तिताः। वैशेषिकानतस्तूर्ध्वं दद्रूश्वित्रेषु मे शृणु॥

4.9.12

लाक्षा कुष्ठं सर्षपाः श्रीनिकेतं रात्रिर्व्येषं चक्रमर्दस्य बीजम्। कृत्वैकस्थं तक्रपिष्टः प्रलेपो दद्रूषूक्तो मूलकाद्बीजयुक्तः॥

4.9.13

सिन्धूद्भूतं चक्रमर्दस्य बीजमिक्षूद्भूतं केशरं तार्क्ष्यशैलम्। पिष्टो लेपोऽयं कपित्थाद्रसेन दद्रूस्तूर्णं नाशयत्येष योगः॥

4.9.14

हेमक्षीरी व्याधिघातः शिरीषो निम्बः सर्जो वत्सकः साजकर्णः। शीघ्रं तीव्रा नाशयन्तीह दद्रूः स्नानालेपोद्घर्षणेषूपयुक्ताः॥

4.9.15

भद्रासंज्ञोदुम्बरीमूलतुल्यं दत्त्वा मूलं क्षोदयित्वा मलप्वाः। सिद्धं तोयं पीतमुष्णे सुखोष्णं स्फोटाञ्छ्वित्रे पुण्डरीके च कुर्यात्॥

4.9.16

द्वैपं दग्धं चर्म मातङ्गजं वा भिन्ने स्फोटे तैलयुक्तं प्रलेपः। पूतिः कीटो राजवृक्षोद्भवेन क्षारेणाक्तः श्वित्रमेको निहन्ति॥

4.9.17

कृष्णस्य सर्पस्य मसी सुदग्धा बैभीतकं तैलमथ द्वितीयम्। एतत् समस्तं मृदितं प्रलेपाच्छ्वित्राणि सर्वाण्यपहन्ति शीघ्रम्॥

4.9.18

अध्यर्धतोये सुमतिस्रुतस्य क्षारस्य कल्पेन तु सप्तकृत्वः। तैलं शृतं तेन चतुर्गुणेन श्वित्रापहं म्रक्षणमेतदग्र्यम्॥

4.9.19

घृतेन युक्तं प्रपुनाडबीजं कुष्ठं च यष्टीमधुकं च पिष्ट्वा। श्वेताय दद्याद्गृहकुक्कुटाय चतुर्थभक्ताय बुभुक्षिताय॥

4.9.20

तस्योपसंगृह्य च तत् पुरीषमुत्पाचितं सर्वत एव लोम्पेत्। अभ्यन्तरं मासमिमं प्रयोगं प्रयोजयेच्छ्वित्रमथो निहन्ति॥

4.9.21

क्षारे सुदग्धे जलगण्डजे तु गजस्य मूत्रेण बहुस्रुते च। द्रोणप्रमाणे दशभागयुक्तं दत्त्वा पचेद्बीजमवल्गुजस्य॥

4.9.22

एतद्यदा चिक्कणतामुपैति तदा समस्तं गुटिका विदध्यात्। श्वित्रं प्रलिम्पेदथ संप्रघृष्य तया व्रजेदाशु सवर्णभावम्॥

4.9.23

कषायकल्पेन सुभावितां तु जलं त्वचा चूतहरीतकीनाम्। तां ताम्रदीपे प्रणिधाय धीमान् वर्तिं वटक्षीरसुभावितां तु॥

4.9.24

आदीप्य तज्जातमसीं गृहीत्वा तां चापि पथ्याम्भसि भग्वयित्वा। संप्रच्छितं तद्बहुशः किलासं तैलेन सिक्तं कटुना प्रयाति॥

4.9.25

आवल्गुजं बीजमग्र्यं नदीजं काकाह्वानोदुम्बरी या च लाक्षा। लौहं चूर्णं मागधी तार्क्ष्यशैलं तुल्याः कार्याः कृष्णवर्णास्तिलाश्च॥

4.9.26

वर्तिं कृत्वा तां गवां पित्तपिष्टां लेपः कार्यः श्वित्रिणां श्वित्रहारी। लेपात् पित्तं शैखिनं श्वित्रहारि ह्रीबेरं वा दग्धमेतेन युक्तम्॥

4.9.27

तुत्थालकटुकाव्योषसिंहार्कहयमारकाः। कुष्ठावल्गुजभल्लातक्षीरिणीसर्षपाः स्रुही॥

4.9.28

तिल्वकारिष्टपीलूनां पत्राण्यारग्वधस्य च। बीजं विडङ्गाश्वहन्त्रोर्हरिद्रे बृहतीद्वयम्॥

4.9.29

आभ्यां श्वित्राणि योगाभ्यां लेपान्नश्यन्त्यशेषतः। वायसीफल्गुतिक्तानां शतं दत्त्वा पृथक् पृथक्॥

4.9.30

द्वे लोहरजसः प्रस्थे त्रिफलात्र्याढकं तथा। त्रिद्रोणेऽपां पचेद्यावद्भागौ द्वावसनादपि॥

4.9.31

शिष्टौ च विपचेद्भूय एतैः श्लक्ष्णप्रपेषितैः। कल्कैरिन्द्रयवब्योषत्वग्दारुचतुरङ्गुलैः॥

4.9.32

पारावतपदीदम्तीबाकुचीकेशराह्वयैः। कण्टकार्या च तत्प्क्वं घृतं कुष्ठिषु योजयेत्॥

4.9.33

दोषधात्वाश्रितं पानादभ्यङ्गात्त्वग्गतं तथा। अप्यसाध्यं नृणां कुष्ठं नाम्ना नीलं नियच्छति॥

4.9.34

त्रिफलात्वक् त्रिकटुकं सुरसा मदयन्तिका। वायस्यारग्वधश्चैषां तुलां कुर्यात् पृथक् पृथक्॥

4.9.35

काकमाच्यर्कवरुणदन्तीकुटजचित्रकात्। दार्वीनिदिग्धिकाभ्यां तु पृथग्दशपलं तथा॥

4.9.36

त्रिद्रोणेऽपां पचेद्यावत् षट्प्रस्थं परिशेषितम्। शकृद्रसदधिक्षीरमूत्राणां पृथगाढकम्॥

4.9.37

तद्वद्घृतस्य तत्साध्यं भूनिम्बव्योषचित्रकैः। करञ्जफलनीलिकाश्यामावल्गुजपीलुभिः॥

4.9.38

नीलिनीनिम्बकुसुमैः सिद्धं कुष्ठापहं घृतम्। म्रक्षणादङ्गसावर्ण्यं श्वित्रिणां जनयेन्नृणाम्। भगन्दरं कृमीनर्शो महानीलं नियच्छति॥

4.9.39

मूत्रं गव्यं चित्रकव्योषयुक्तं सर्पिःकुम्भे क्षौद्रयुक्तं स्थितं हि। पक्षादूर्ध्वं श्वित्रिभिः पेयमेतत् कुर्याच्चास्मिन् कुष्ठदिष्टं विधानम्॥

4.9.40

पूतीकार्कस्रुङ्नरेन्द्रद्रुमाणां मूत्रैः पिष्टाः पल्लवाः सौमनाश्च। लेपः श्वित्रं हन्ति दद्रूर्व्रणांश्च दुष्टान्यर्शांस्येष नाडीव्रणांश्च॥

4.9.41

अस्मादूर्ध्वं निःस्रुते दुष्टरक्ते जातप्राणं सर्पिषा स्नेहयित्वा। तीक्ष्णैर्योगैश्छर्दयित्वा प्रागाढं पश्चाद्दोषं निर्हरेच्चाप्रमत्तः॥

4.9.42

दुर्वान्तो वा दुर्विरिक्तोऽपि वा स्यात् कुष्ठी दोषैरुद्धतैर्व्याप्तदेहः। निःसन्दिग्धं यात्यसाध्यत्वमाशु तस्मात् कृत्स्नान्निर्हरेत्तस्य दोषान्॥

4.9.43

पक्षात् पक्षाच्छर्दनान्यभ्युपेयान्मासान्मासात् स्रंसनं चापि देयम्। स्राव्यं रक्तं वत्सरे हि द्विरल्पं नस्यं दद्याच्च त्रिरात्रात्त्रिरात्रात्॥

4.9.44

पथ्या व्योषं सेक्षुजातं सतैलं लीढ्वा शीघ्रं मुच्यते कुष्ठरोगात्। धात्रीपथ्याक्षोपकुल्याविडङ्गान् क्षौद्राज्याभ्यामेकतो वावलिह्यात्॥

4.9.45

पीत्वा मासं वा पलांशां हरिद्रां मूत्रेणान्तं पापरोगस्य गच्छेत्। एवं पेयश्चित्रकः श्लक्ष्णपिष्टः पिप्पल्यो वा पूर्ववन्मूत्रयुक्ताः॥

4.9.46

तद्वत्तार्क्ष्यं मासमात्रं च पेयं तेनाजस्रं देहमालेपयेच्च। आरिष्टीत्वक् साप्तपर्णी च तुल्या लाक्षा मुस्तं पञ्चमूल्यौ हरिद्रे॥

4.9.47

मञ्जिष्ठाक्षौ वासको देवदारु पथ्यावह्नी व्योषधात्रीविडङ्गाः। सामान्यांशं योजयित्वा विडङ्गैश्चूर्णं कृत्वा तत्पलोन्मानमश्नन्॥

4.9.48

कुष्ठाज्जन्तुर्मुच्यते त्रैफलं वा सर्पिर्द्रोणं व्योषयुक्तं च युञ्जन्। गोमूत्राम्बुद्रोणसिद्धेऽक्षपीडे सिद्धं सर्पिर्नाशयेच्चापि कुष्ठम्॥

4.9.49

आरग्वधे सप्तपर्णे पटोले सवृक्षके नक्तमाले सनिम्बे जीर्णं पक्वं तद्धरिद्राद्वयेन हन्यात् कुष्ठं मुष्कके चापि सर्पिः॥

4.9.50

रोध्रारिष्टं पद्मकं रक्तसारः सप्ताह्वाक्षौ वृक्षको बीजकश्च। योज्याः स्नाने दह्यमानस्य जन्तोः पेया वा स्यात् क्षौद्रयुक्ता त्रिभण्डी॥

4.9.51

खादेत् कुष्ठी मांसशा(पा)ते पुराणान् मुद्गान् सिद्धान्निम्बतोये सतैलान्। निम्बक्वाथं जातसत्त्वः पिबेद्वा क्वाथं वार्कालर्कसप्तच्छदानाम्॥

4.9.52

जग्धेष्वङ्गेष्वश्वमारस्य मूलं लेपो युक्तः स्याद्विडङ्गैः समूत्रैः। मूत्रैश्चैनं सेचयेद्भोजयेच्च सर्वाहारान् संप्रयुक्तान् विडङ्गैः॥

4.9.53

कारञ्जं वा सार्षपं वा क्षतेषु क्षेप्यं तैलं शिग्रुकोशाम्रयोर्वा। पक्वं सर्वैर्वा कटूष्णैः सतिकैः शेषं च स्याद्दुष्टवत् संविधानम्॥

4.9.54

सप्तपर्णकरञ्जार्कमालतीकरवीरजम्। स्नुहीशिरीषयोर्मूलं चित्रकास्फोतयोरपि॥

4.9.55

विषलाङ्गलवज्राख्यकासीसालमनःशिलाः। करञ्जबीजं त्रिकटु त्रिफलां रजनीद्वयम्॥

4.9.56

सिद्धार्थकान् विडङ्गानि प्रपुन्नाडं च संहरेत्। मूत्रपिष्टैः पचेदेतैस्तैलं कुष्ठविनाशनम्॥

4.9.57

एतद्वज्रकमभ्यङ्गान्नाडीदुष्टव्रणापहम्। सिद्धार्थकः करञ्जौ द्वौ द्वे हरिद्रे रसाञ्जनम्॥

4.9.58

कुटजश्च प्रपुन्नाडसप्तपर्णौ मृगादनी। लाक्षा सर्जरसोऽर्कश्च सास्फोतारग्वधौ स्नुही॥

4.9.59

शिरीषस्तुवराख्यस्तु कुटजारुष्करौ वचा। कुष्ठं कृमिघ्नं मञ्जिष्ठा लाङ्गली चित्रकं तथा॥

4.9.60

मालती कटुतुम्बी च गन्धाह्वा मूलकं तथा। सैन्धवं करवीरश्च गृहधूमं विषं तथा॥

4.9.61

कम्पिल्लकं ससिन्दूरं तेजोह्वातुत्थकाह्वये। समभागानि सर्वाणि कल्कपेष्याणि कारयेत्॥

4.9.62

गोमूत्रं द्विगुणं दद्यात्तिलतैलाच्चतुर्गुणम्। कारञ्जं या महावीर्यं सार्षपं वा महागुणम्॥

4.9.63

अभ्यङ्गात् सर्वकुष्ठानि गण्डमालाभगन्दरान्। नाडीदुष्टव्रणान् घोरान् नाशयेन्नात्र संशयः॥

4.9.64

महावज्रकमित्येतन्नाम्ना तैलं महागुणम्। पित्तावापैर्मूत्रपिष्टस्तैलं लाक्षादिकैः कृतम्॥

4.9.65

सप्ताहं कटुकालाब्वां निदधीत चिकित्सकः। पीतवन्तं ततो मात्रां तेनाभ्यक्तं च मानवम्॥

4.9.66

शाययेदातपे तस्य दोषा गच्छन्ति सर्वशः। स्रुतदोषं समुत्थाप्य स्नातं खदिरवारिणा॥

4.9.67

यवागूं पाययेदेनं साधितां खदिराम्बुना। एवं संशोधने वर्गे कुष्ठघ्नेष्वौषधेषु च॥

4.9.68

कुर्यात्तैलानि सर्पीषि प्रदेहोद्घर्षणानि च। प्रातः प्रातश्च सेवेत योगान् वैरेचनाञ् शुभान्। पञ्च षट् सप्त चाष्टौ वा यैरुत्थानं न गच्छति॥

4.9.69

कारभं वा पिबेन्मूत्रं जीर्णे तत्क्षीरभोजनम्। जातसत्त्वानि कुष्ठानि मासैः षड्भिरपोहति॥

4.9.70

दिदृक्षुरन्तं कुष्ठस्य खदिरं कुष्ठपीडितः। सर्वथैव प्रयुञ्जीत स्नानपानाशनादिषु॥

4.9.71

यथा हन्ति प्रवृद्धत्वात् कुष्ठमातुरमोजसा। तथा हन्त्युपयुक्तस्तु खदिरः कुष्ठमोजसा॥

4.9.72

नीचरोमनखः श्रान्तो हिताश्यौषधतत्परः। योषिन्मांससुरावर्जी कुष्ठी कुष्ठमपोहति॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc