भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 4.8

4.8.1

अथातो भगन्दराणां चिकित्सितं व्याख्यास्यामः॥

4.8.2

यथोवाच भगवान् धन्वन्तरिः॥

4.8.3

पञ्च भगन्दरा व्याख्याताः, तेष्वसाध्यः शम्बूकावर्तः शल्यनिमित्तश्च; शेषाः कृच्छ्रसाध्याः॥

4.8.4

तत्र भगन्दरपिडकोपद्रुतमातुरमपतर्पणादिविरेचनान्तेनैकादशविधेनोपक्रमेणोपक्रमेतापक्वपिडकं, पक्वेषु चोपस्निग्धमवगाहस्विन्नं शय्यायां सन्निवेश्यार्शसमिव यन्त्रयित्वा, भगन्दरं समीक्ष्य पराचीनमवाचीनं वा, ततः प्रणिधायैषणीमुन्नम्य साशयमुद्धरेच्छस्त्रेण; अन्तर्मुखे चैवं सम्यग्यन्त्रं प्रणिधाय प्रवाहमाणस्य भगन्दरमुखमासाद्यैषणीं दत्त्वा शस्त्रं पातयेत्; आसाद्य वाग्निं क्षारं चेति; एतत् सामान्यं सर्वेषु॥

4.8.5

विशेषतस्तु नाड्यन्तरे व्रणान् कुर्याद्भिषक् तु शतपोनके। ततस्तेषूपरूढेषु शेषा नाडीरुपाचरेत्॥

4.8.6

गतयोऽन्योन्यसंबद्धा बाह्याश्छेद्यास्त्वनेकधा। नाडीरनभिसंबद्धा यश्छिनत्त्येकधा भिषक्॥

4.8.7

स कुर्याद्विवृतं जन्तोर्व्रणं गुदविदारणम्। तस्य तद्विवृतं मार्गं विण्मूत्रमनुगच्छति॥

4.8.8

आटोपं गुदशूलं च करोति पवनो भृशम्। तत्राधिगततन्त्रोऽपि भिषङ्गुह्येदसंशयम्॥

4.8.9

तस्मान्न विवृतः कार्यो व्रणस्तु शतपोनके। व्याधौ तत्र बहुच्छिद्रे भिषजा वै विजानता॥

4.8.10

अर्धलाङ्गलकश्छेदः कार्यो लाङ्गलकोऽपि वा। सर्वतोभद्रको वापि कार्यो गोतीर्थकोऽपि वा॥

4.8.11

सर्वतः स्नावमार्गास्तु दहेद्वैद्यस्तथाग्निना। सुकुमारस्य भीरोर्हि दुष्करः शतपोनकः॥

4.8.12

रुजास्नावापहं तत्र स्वेदमाशु प्रयोजयेत्। स्वेदद्रव्यैर्यथोद्दिष्टैः कृशरापायसादिभिः॥

4.8.13

ग्राम्यानूपौदकैर्मांसैर्लावाद्यैर्वापि विष्किरैः। वृक्षादनीमथैरण्डं बिल्वादिं च गणं तथा॥

4.8.14

कषायं सुकृतं कृत्वा स्नेहकुम्भे निषेचयेत्। नाडीस्वेदेन तेनास्य तं व्रणं स्वेदयेद्भिषक्॥

4.8.15

तिलैरण्डातसीमाषयवगोधूमसर्षपान्। लवणान्यम्लवर्गं च स्थाल्यामेवोपसाधयेत्॥

4.8.16

आतुरं स्वेदयेत्तेन तथा सिध्यति कुर्वतः। स्विन्नं च पाययेदेनं कुष्ठं च लवणानि च॥

4.8.17

वचाहिङ्ग्वजमोदं च समभागानि सर्पिषा। मार्द्वीकेनाथवाम्लेन सुरासौवीरकेण वा॥

4.8.18

ततो मधुकतैलेन तस्य सिञ्चेद्भिषग्ब्रणम्। परिषिञ्चेद्गुदं चास्य तैलैर्वातरुजापहैः॥

4.8.19

विधिनानेन विण्मूत्रं स्वमार्गमधिगच्छति। अन्ये चोपद्रवास्तीव्राः सिध्यन्त्यत्र न संशयः॥

4.8.20

शतपोनक आख्यात उष्ट्रग्रीवे क्रियां शृणु। अथोष्ट्रग्रीवमेषित्वा छित्त्वा क्षारं निपातयेत्॥

4.8.21

पृतिमांसव्यपोहार्थमग्निरत्र न पूजितः। अथैनं घृतसंसृष्टैस्तिलैः पिष्टैः प्रपेपयेत्॥

4.8.22

बन्धं ततोऽनुकुर्वीत परिषेकं तु सर्पिषा। तृतीये दिवसे मुक्त्वा यथास्वं शोधयेद्भिषक्॥

4.8.23

ततः शुद्धं विदित्वा च रोपयेत्तु यथाक्रमम्। उत्कृत्यास्रावमार्गंस्तु परिस्राविणि बुद्धिमान्॥

4.8.24

क्षारेण वा स्रावगतिं दहेद्धुतवहेन वा। सुखोष्णेनाणुतैलेन सेचयेद्गुदमण्डलम्॥

4.8.25

उपनाहाः प्रदेहाश्च मूत्रक्षारसमन्विताः। वामनीयौषधैः कार्याः परिषेकाश्च मात्रया॥

4.8.26

मृदुभूतं विदित्वैनमल्पस्रावरुगन्वितम्। गतिमन्विष्य शस्त्रेण छिन्द्यात् खरुजूरपत्रकम्॥

4.8.27

चन्द्रार्धं चन्द्रचक्रं च सूचीमुस्वमवाङ्मुखम्। छित्त्वाग्निना दहेत् सम्यगेवं क्षारेण वा पुनः॥

4.8.28

ततः संशोधनैरेव मृदुपूर्वैर्विशोधयेत्। बहिरन्तर्मुखश्चापि शिशोर्यस्य भगन्दरः॥

4.8.29

तस्याहितं विरेकाग्निशस्त्रक्षारावचारणम्। यद्यन्मृदु च तीक्ष्णं च तत्तत्तस्यावचारयेत्॥

4.8.30

आरग्वधनिशाकालाचूर्णं मधुघृताप्लुतम्। अग्रवर्तिप्रणिहितं व्रणानां शोधनं हितम्॥

4.8.31

योगोऽयं नाशयत्याशु गतिं मेघमिवानिलः। आगन्तुजे भिषङ्नाडीं शस्त्रेणोत्कृत्य यत्नतः॥

4.8.32

जम्ब्वोष्टेनाग्निवर्णेन तप्तया वा शलाकया। दहेद्यथोक्तं मतिमांस्तं व्रणं सुसमाहितः॥

4.8.33

कृमिघ्नं च विधिं कुर्याच्छल्यानयनमेव च। प्रत्याख्यायैष चारभ्यो वर्ज्यश्चापि त्रिदोषजः॥

4.8.34

एतत् कर्म समाख्यातं सर्वेषामनुपूर्वशः। एषां तु शस्त्रपतनाद्वेदना यत्र जायते॥

4.8.35

तत्राणुतैलेनोष्णेन परिषेकः प्रशस्यते। वातघ्नौषधसंपूर्णां स्थालीं छिद्रशराविकाम्॥

4.8.36

स्नेहाभ्यक्तगुदस्तप्तामध्यासीत सबाष्पिकाम्। नाड्या वास्याहरेत् स्वेदं शयानस्य रुजापहम्। उष्णोदकेऽवगाह्यो वा तथा शाम्यति वेदना॥

4.8.37

कदलीमृगलोपाकप्रियकाजिनसंभृतान्। कारयेदुपनाहांश्च साल्वणादीन विचक्षणः॥

4.8.38

कटुत्रिकं वचाहिङ्गुलवणान्यथ दीप्यकम्। पाययेच्चाम्लकौलत्थसुरासौवीरकादिभिः॥

4.8.39

ज्योतिष्मतीलाङ्गलकीश्यामादन्तीत्रिवृत्तिलाः। कुष्ठं शताह्वा गोलोमी तिल्वको गिरिकर्णिका॥

4.8.40

कासीसं काञ्चनक्सीर्यौ वर्गः शोधन इष्यते। त्रिवृत्तिला नागदन्ती मञ्जिष्ठा पयाअ सह॥

4.8.41

उत्सादनं भवेदेतत् सैन्धवक्षौद्रसंयुतम्। रसाञ्जनं हरिद्रे द्वे मञ्जिष्ठानिम्बपल्लवाः॥

4.8.42

त्रिवृत्तेजोवतीदन्तीकल्को नाडीव्रणापहः। कुष्ठं त्रिवृत्तिला दन्ती मागध्यः सैन्धवं मधु॥

4.8.43

रजनी त्रिफला तुत्थं हितं स्याद्व्रणशोधनम्। मागध्यो मधुकं रोध्रं कुष्ठमेला हरेणवः॥

4.8.44

समङ्गा धातकी चैव सारिवा रजनीद्वयम्। प्रियङ्गवः सर्जरसः पद्मकं पद्मकेसरम्॥

4.8.45

सुधा वचा लाङ्गलकी मधूच्छिष्टं ससैन्धवम्। एतत् संभृत्य संभारं तैलं धीरो विपाचयेत्॥

4.8.46

एतद्वै गण्डमालासु मण्डलेष्वथ मेहिषु। रोपणार्थं हितं तैलं भगन्दरविनाशनम्॥

4.8.47

न्यग्रोधादिगणश्चैव हितः शोधनरोपणे। तैलं घृतं वा तत्पक्वं भगन्दरविनाशनम्॥

4.8.48

त्रिवृद्दन्तीहरिद्रार्कमूलं लोहाश्वमारकौ। विडङ्गसारं त्रिफला स्नुह्यर्कपयसी मधु॥

4.8.49

मधूच्छिष्टसमायुक्तैस्तैलमेतैर्विपाचयेत्। भगन्दरविनाशार्थमेतद्योज्यं विशेषतः॥

4.8.50

चित्रकार्कौ त्रिवृत्पाठे मलपूं हयमारकम्। सुधां वचां लाङ्गलकीं सप्तपर्णं सुवर्चिकाम्॥

4.8.51

ज्योतिष्मतीं च सम्भृत्य तैलं धीरो विपाचयेत्। एतद्धि स्यन्दनं तैलं भृशं दद्याद्भगन्दरे॥

4.8.52

शोधनं रोपणं चैव सर्वणकरणं तथा। द्विव्रणीयमवेक्षेत व्रणावस्थासु बुद्धिमान्॥

4.8.53

छिद्रादूर्ध्वं हरेदोष्ठमर्शोयन्त्रस्य यन्त्रवित्। ततो भगन्दरे दद्यादेतदर्धेन्दुसन्निभम्॥

4.8.54

व्यायामं मैथुनं कोपं पृष्ठयानं गुरूणि च। संवत्सरं परिहरेदुपरूढव्रणो नरः॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc