भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 4.7

4.7.1

अथातोऽश्मरीचिकित्सितं व्याख्यास्यामः॥

4.7.2

यथोवाच भगवान् धन्वन्तरिः॥

4.7.3

अश्मरी दारुणो व्याधिरन्तकप्रतिमो मतः। औषधैस्तरुणः साध्यः प्रवृद्धश्छेदमर्हति॥

4.7.4

तस्य पूर्वेषु रूपेषु स्नेहादिक्रम इष्यते। तेनास्यापचयं यान्ति व्याधेर्मूलान्यशेषतः॥

4.7.5

पाषाणमेदो वसुको वशिराश्मन्तकौ तथा। शतावरी श्वदंष्ट्रा च बृहती कण्टकारिका॥

4.7.6

कपोतवङ्काआर्तगलः कच्चकोशीरकुब्जकाः॥ वृक्षादनी भल्लुकश्च वरुणः शाकजं फलम्॥

4.7.7

यवाः कुलत्थाः कोलानि कतकस्य फलानि च। ऊषकादिप्रतीवापमेषां क्वाथैर्घृतं कृतम्॥

4.7.8

भिनत्ति वातसंभूतामश्मरीं क्षिप्रमेव तु। क्षारान् यवागूर्यूषांश्च कषायाणि पयांसि च॥

4.7.9

भोजनानि च कुर्वीत वर्गेऽस्मिन् वातनाशने। कुशः काशः सरो गुन्द्रा इत्कटो मोरटोऽश्मभित्॥

4.7.10

वरी विदारी वाराही शालिमूलत्रिकण्टकम्। भल्लूकः पाटला पाठा पत्तूरोऽथ कुरुष्टिका॥

4.7.11

पुनर्नवा शिरीषश्च क्वथितास्तेषु साधितम्। घृतं शिलाजमधुकबीजैरिन्दीवरस्य च॥

4.7.12

त्रपुसैर्वारुकादीनां बीजैश्चावापितं शुभम्। भिनत्ति पित्तसंभूतामश्मरीं क्षिप्रमेव तु॥

4.7.13

क्षारान् यवागूर्यूषांश्च कषायाणि पयांसि च। भोजनानि च कुर्वीत वर्गेऽस्मिन् पित्तनाशने॥

4.7.14

गणो वरुणकादिस्तु गुग्गुल्वेलाहरेणवः। कुष्ठभद्रादिमरिचचिक्त्रकैः ससुराह्वयैः॥

4.7.15

एतैः सिद्धमजासर्पिरूषकादिगणेन च। भिनत्ति कफसंभूतामश्मरीं क्षिप्रमेव तु॥

4.7.16

क्षारान् यवागूर्यूषांश्च कषायाणि पयांसि च। भोजनानि च कुर्वीत वर्गेऽस्मिन् कफनाशने॥

4.7.17

पिचुकाङ्कोलकतकशाकेन्दीवरजैः फलैः। चूर्णितैः सगुडं तोयं शर्कराशमनं पिबेत्॥

4.7.18

क्रौञ्चोष्ट्ररासभास्थीनि श्वदंष्ट्रा तालमूलिका। अजमोदा कदम्बरस्य मूलं नागरमेव च॥

4.7.19

पीतानि शर्करां भिन्द्युः सुरयोष्णोदकेन वा। त्रिकण्टकस्य बीजानां चूर्णं माक्षिकसंयुतम्॥

4.7.20

अविक्षीरेण सप्ताहमश्मरीभेदनं पिबेत्। द्रव्याणां तु घृतोक्तानां क्षारोऽविमूत्रगालितः॥

4.7.21

ग्राम्यसत्त्वशकृत्क्षारैः संयुक्तः साधितः शनैः। तत्रोषकादिरावापः कार्यस्त्रिकटुकान्वितः॥

4.7.22

एष क्षारोऽश्मरीं गुल्मं शर्करां च भिनत्त्यपि। तिलापामार्गकदलीपलाशयवकल्कजः॥

4.7.23

क्षारः पेयोऽविमूत्रेण शर्करानाशनः परः। पाटलाकरवीराणां क्षारमेवं समाचरेत्॥

4.7.24

श्वदंष्ट्रायष्टिकाब्रह्मीकल्कं वाक्षसमं पिबेत्। सहैडकाख्यौ पेयौ वा शोभाञ्जनकमार्कवौ॥

4.7.25

कपोतवङ्कामूलं वा पिबेदम्लैः सुरादिभिः। तत्सिद्धं वा पिबेत् क्षीरं वेदनाभिरुपद्रुतः॥

4.7.26

हरीतक्यादिसिद्धं वा वर्षाभूसिद्धमेव वा। सर्वथैवोपयोज्यः स्याद्गणो वीरतरादिकः॥

4.7.27

घृतैः क्षारैः कषायैश्च क्षीरैः सोत्तरबस्तिभिः। यदि नोपशमं गच्छेच्छेदस्तत्रोत्तरो विधिः॥

4.7.28

कुशलस्यापि वैद्यस्य यतः सिद्धिरिहाध्रुवा। उपक्रमो जघन्योऽयमतः संपरिकीर्तितः॥

4.7.29

अक्रियायां ध्रुवो मृत्युः क्रियायां संशयो भवेत्। तस्मादापृच्छ्य कर्तव्यमीश्वरं साधुकारिणा॥

4.7.30

अथ रोगान्वितमुपस्निग्धमपकृष्टकोषमीषत्कर्शितमभ्यक्तस्विन्नशरीरं भुक्तवन्तं कृतबलिमङ्गलस्वस्तिवाचनमग्रोपहरणीयोक्तेन विधानेनोपकल्पितसम्भारमाश्वास्य, ततो बलवन्तमविक्लवमाजानुसमे फलके प्रागुपविष्टान्यपुरुषस्योत्सङ्गे निषण्णपूर्वकायमुत्तानमुन्नतकटीकं वस्त्राधारकोपविष्टं सङ्कुचितजानुकूर्परमितरेण सहावबद्धं सूत्रेण शाटकैर्वा, ततः स्वभ्यक्तनाभिप्रदेशस्य वामपार्श्वं विमृद्य मुष्टिनावपीडयेदधोनाभेर्यावदश्मर्यधः प्रपन्नेति, ततः स्नेहाभ्यक्ते कॢप्तनखे वामहस्तप्रदेशिनीमध्यमे अङ्गुल्यौ पायौ प्रणिधायानुसेवनीमासाद्य प्रयत्नबलाभ्यां पायुमेढ्रान्तरमानीय, निर्व्यलीकमनायतमविषमं च बस्तिं सन्निवेश्य, भृशमुत्पीडयेदङ्गुलिभ्यां यथा ग्रन्थिरिवोन्नतं शल्यं भवति॥

4.7.31

स चेद्गृहीतशल्ये तु विवृताक्षो विचेतनः। हतवल्लम्बशीर्षश्च निर्विकारो मृतोपमः॥

4.7.32

न तस्य निर्हरेच्छल्यं निर्हरेत्तु म्रियेत सः। विना त्वेतेषु रूपेषु निर्हर्तुं प्रयतेत वै॥

4.7.33

ततः सव्ये पार्श्वे सेवनीं यवमात्रेण मुक्त्वावचारयेच्छस्त्रमश्मरीप्रमाणं, दक्षींअतो वा क्रियासौकर्यहेतोरित्येके, यथा सा न भिद्यते चूर्ण्यते वा तथा प्रयतेत, चूर्णमल्पमप्यवस्थितं हि पुनः परिवृद्धिमेति, तस्मात् समस्तामग्रवक्रेणाददीत; स्त्रीणां तु बस्तिपार्श्वगतो गर्भाशयः सन्निकृष्टः, तस्मात्तासामुत्सङ्गवच्छस्त्रं पातयेत्, अतोऽन्यथा खल्वासां मूत्रस्रावी व्रणो भवेत्, पुरुषस्य वा मूत्रप्रसेकक्षणनान्मूत्रक्षरणम्; अश्मरीव्रणादृते भिन्नबस्तिरेकधापि न भवति, द्विधा भिन्नबस्तिराश्मरिको न सिध्यति, अश्मरीव्रणनिमित्तमेकधाभिन्नबस्तिर्जीवति, क्रियाभ्यासाच्छास्त्रविहितच्छेदान्निःस्यन्दपरिवृद्धत्वाच्च शल्यस्येति। उद्धृतशल्यं तूष्णोदकद्रोण्यामवगाह्य स्वेदयेत्, तथा हि बस्तिरसृजा न पूर्यते; पूर्णे वा क्षीरवृक्षकषायं पुष्पनेत्रेण विदध्यात्॥

4.7.34

भवति चात्र क्षीरवृक्षकषायस्तु पुष्पनेत्रेण योजितः। निर्हरेदश्मरीं तूर्णं रक्तं बस्तिगतं च यत्॥

4.7.35

मूत्रमार्गविशोधनार्थं चास्मै गुडसौहित्यं वितरेत्; उद्धृत्य चैनं मधुघृताभ्यक्तव्रणं मूत्रविशोधनद्रव्यसिद्धामुष्णां सघृतां यवागूं पाययेतोभयकालं त्रिरात्रं; त्रिरात्रादूर्ध्वं गुडप्रगाढेन पयसा मृद्वोदनमल्पं भोजयेद्दशरात्रं (मूत्रासृग्विशुद्ध्यर्थं व्रणक्लेदनार्थं च), दशरात्रादूर्ध्वं फलाम्लैर्जाङ्गलरसैरुपाचरेत्; ततो दशरात्रं चैनमप्रमत्तः स्वेदयेत् स्नेहेन द्रवस्वेदेन वा; क्षीरवृक्षकषायेण चास्य व्रणं प्रक्षालयेत्; रोध्रमधुकमञ्जिष्ठाप्रपौण्डरीककल्कैर्व्रणं प्रतिग्राहयेत्; एतेष्वेव हरिद्रायुतेषु तैलं घृतं वा विपक्वं व्रणाभ्यञ्जनमिति; स्त्यानशोणितं चोत्तरबस्तिभिरुपाचरेत्; सप्तरात्राच्च स्वमार्गमप्रतिपद्यमाने मूत्रे व्रणं यथोक्तेन विधिना दहेदग्निना, स्वमार्गप्रतिपन्ने चोत्तरबस्त्यास्थापनानुवासनैरुपाचरेन्मधुरकषायैरिति; यदृच्छया वा मूत्रमार्गप्रतिपन्नामन्तरासक्तां शुक्राश्मरीं शर्करां वा स्रोतसापहरेत्, एवं चाशक्ये विदार्य नाडीं शस्त्रेण बडिशेनोद्धरेत्। रूढव्रणश्चाङ्गनाश्वनगनागरथद्रुमान् नारोहेत वर्षं, नाप्सु प्लवेत, भुञ्जीत वा गुरु॥

4.7.36

मूत्रवहशुक्रवहमुष्कस्रोतोमूत्रप्रसेकसेवनीयोनिगुदबस्तीनष्टौ परिहरेत्। तत्र मूत्रवहच्छेदान्मरणं मूत्रपूर्णबस्तेः, शुक्रवहच्छेदान्मरणं क्लैब्यं वा, मुष्कस्रोतौपघाताद् ध्वजभङ्गः, मूत्र्प्रसेकक्षणनान्मूत्रप्रक्षरणं, सेवनीयोनिच्छेदाद्रुजः प्रादुर्भावः, बस्तिगुदविद्धलक्षणं प्रागुक्तमिति॥

4.7.37

भवति चात्र मर्माण्यष्टावसंबुध्य स्रोतोजानि शरीरिणाम्। व्यापादयेद्बहून्मर्त्यान् शस्त्रकर्मापटुर्भिषक्॥

4.7.38

सेवनी शुक्रहरणी स्रोतसी फलयोर्गुदम्। मूत्रसेकं मूत्रवहं योनिर्बस्तिस्तथाष्टमः॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc