सुश्रुतसंहिता · अध्याय 4.3
अथातो भग्नानां चिकित्सितं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
अल्पाशिनोऽनात्मवतो जन्तोर्वातात्मकस्य च। उपद्रवैर्वा जुष्टस्य भग्नं कृच्छ्रेण सिध्यति॥
लवणं कटुकं क्षारमम्लं मैथुनमातपम्। व्यायामं च न सेवेत भग्नो रूक्षान्नमेव च॥
शालिर्मांसरसः क्षीरं सर्पिर्यूषः सतीनजः। बृंहणं चान्नपानं स्याद्देयं भग्नाय जानता॥
मधूकोदुम्बराश्वत्थपलाशककुभत्वचः। वंशसर्जवटानां च कुशार्थमुपसंहरेत्॥
आलेपनार्थं मञ्जिष्ठां मधुकं रक्तचन्दनम्। शतधौतघृतोन्मिश्रं शालिपिष्टं च संहरेत्॥
सप्ताहादथ सप्ताहात् सौम्येष्वृतुषु बन्धनम्। साधारणेषु कर्तव्यं पञ्चमे पञ्चमेऽहनि॥
आग्नेयेषु त्र्यहातु कुर्याद्भग्नदोषवशेन वा। तत्रातिशिथिलं बद्धे सन्धिस्थैर्यं न जायते॥
गाढेनापि त्वगादीनां शोफो रुक् पाक एव च। तस्मात् साधारणं बन्धं भग्ने शंसन्ति तद्विदः॥
न्यग्रोधादिकषायं तु सुशीतं परिषेचने। पञ्चमूलीविपक्वं तु क्षीरं कुर्यात् सवेदने॥
सुखोष्णमवचार्यं वा चक्रतैलं विजानता। विभज्य कालं दोषं च दोषघ्नौषधसंयुतम्॥
परिषेकं प्रदेहं च विदध्याच्छीतमेव च। गृष्टिक्षीरं ससर्पिष्कं मधुरौषधसाधितम्॥
शीतलं लाक्षया युक्तं प्रातर्भग्नः पिबेन्नरः। सव्रणस्य तु भग्नस्य व्रणं सर्पिर्मधूत्तरैः॥
प्रतिसार्य कषायैस्तु शेषं भग्नवदाचरेत्। प्रथमे वयसि त्वेवं भग्नं सुकरमादिशेत्॥
अल्पदोषस्य जन्तोस्तु काले च शिशिरात्मके। प्रथमे वयसि त्वेवं मासात् सन्धिः स्थिरो भवेत्॥
मध्यमे द्विगुणात् कालादुत्तरे त्रिगुणात् स्मृतः। अवनामितमुन्नह्येदुन्नतं चवपीडयेत्॥
आञ्छेदतिक्षिप्तमधो गतं चोपरि वर्तयेत्। आञ्छनैः पीडनैश्चैव सङ्गेपैर्बन्धनैस्तथा॥
सन्धीञ्छरीरे सर्वांस्तु चलानप्यचलानपि। एतैस्तु स्थापनोपायैः स्थापयेन्मतिमान् भिषक्॥
उत्पिष्टमथ विश्लिष्टं सन्धिं वैद्यो न घट्टयेत्। तस्य शीतान् परीषेकान् प्रदेहांश्चावचारयेत्॥
अभिघाते हृते सन्धिः स्वां याति प्रकृतिं पुनः। घृतदिग्धेन पट्टेन वेष्टयित्वा यथाविधि॥
पट्टोपरि कुशान् दत्त्वा यथावद्वन्धमाचरेत्। प्रत्यङ्गभग्नस्य विधिरत ऊर्ध्वं प्रवक्ष्यते॥
नखसन्धिं समुत्पिष्टं रक्तानुगतमारया। अवमथ्य स्रुते रक्ते शालिपिष्टेन लेपयेत्॥
भग्नां वा सन्धिमुक्तां वा स्थापयित्वाङ्गुलीं समाम्। अणुनाआवेष्ट्य पट्टेन घृतसेकं प्रदापयेत्॥
अभ्यज्य सपिषा पादं तलभग्नं कुशोत्तरम्। वस्त्रपट्टेन बध्नीयान्न च व्यायाममाचरेत्॥
अभ्यज्यायामयेज्जङ्घामूरुं च सुसमाहितः। दत्त्वा वृक्षत्वचः शीता वस्त्रपट्टेन वेष्टयेत्॥
मतिमांश्चक्रयोगेन ह्याञ्छेदूर्वस्थि निर्गतम्। स्फुटितं पिच्चितं चापि बध्नीयात् पूर्ववद्भिषक्॥
आञ्छेदूर्ध्वमधो वापि कटिभग्नं तु मानवम्। ततः स्थानस्थिते संधौ बस्तिभिः समुपाचरेत्॥
पर्शुकास्वथ भग्नासु घृताभ्यक्तस्य तिष्ठतः। दक्षिणास्वथवा वामास्वनुमृज्य निबन्धनीः॥
ततः कवलिकां दत्त्वा वेष्टयेत् सुसमाहितः। तैलपूर्णे कटाहे वा द्रोण्यां वा शाययेन्नरम्॥
मुसलेनोत्क्षिपेत् कक्षामंससन्धौ विसंहते। स्थानस्थितं च बध्नीयात् स्वस्तिकेन विचक्षणः॥
कौर्परं तु तथा सन्धिमङ्गुष्ठेनानुमार्जयेत्। अनुमृज्य ततः सन्धिं पीडयेत् कूर्पराच्च्युतम्॥
प्रसार्याकुञ्चयेच्चैनं स्नेहसेकं च दापयेत्। एवं जानुनि गुल्फे च मणिबन्धे च कारयेत्॥
उभे तले समे कृत्वा तलभग्नस्य देहिनः। बध्नीयादामतैलेन परिषेकं च कारयेत्॥
मृत्पिण्डं धारयेत् पूर्वं लवणं च ततः परम्। हस्ते जातबले चापि कुर्यात् पाषाणधारणम्॥
सन्नमुन्नमयेत् स्विन्नमक्षकं मुसलेन तु। तथोन्नतं पीडयेच्च बध्नीयाद्गाढमेव च॥
ऊरुवच्चापि कर्तव्यं बाहुभग्नचिकित्सितम्। ग्रीवायां तु विवृत्तायां प्रविष्टायामधोऽपि वा॥
अवटावथ हन्वोश्च प्रगृह्योन्नमयेन्नरम्। ततः कुशां समं दत्त्वा वस्त्रपट्टेन वेष्टयेत्॥
उत्तानं शाययेच्चैनं सप्तरात्रमतन्द्रियः। हन्वस्थिनी समानीय हनुसन्धौ विसंहते॥
स्वेदयित्वा स्थितेन् सम्यक् पञ्चाङ्गीं वितरेद्भिषक्। वातघ्नमधुरैः सर्पिः सिद्धं नस्ये च पूजितम्॥
अभग्नांश्चलितान् दन्तान् सरक्तानवपीडयेत्। तरुणस्य मनुष्यस्य शीतैरालेपयेद्वहिः॥
सिक्त्वाम्बुभिस्ततः शीतैः सन्धानीयैरुपाचरेत्। उत्पलस्य च नालेन क्षीरपानं विधीयते॥
जीर्णस्य तु मनुष्यस्य वर्जयेच्चलितान् द्विजान्। नासां सन्नां विवृत्तां वा ऋज्वीं कृत्वा शलाकया॥
पृथङ्नसिकयोर्नाड्यौ द्विमुख्यौ संप्रवेशयेत्। ततः पट्टेन संवेष्ट्य घृतसेकं प्रदापयेत्॥
भग्नं कर्णं तु बध्नीयात् समं कृत्वा घृतप्लुतम्। सद्यःक्षतविधानं च ततः पञ्चात् समाचरेत्॥
मस्तुलुङ्गाद्विना भिन्ने कपाले मधुसर्पिषी। दत्त्वा ततो निबध्नीयात् सप्ताहं च पिबेद्घृतम्॥
पतनादभिघाताद्वा शूनमङ्गं यदक्षतम्। शीतान् प्रदेहान् सेकांश्च भिषक् तस्यावचारयेत्॥
अथ जङ्घोरुभग्नानां कपाटशयनं हितम्। कीलका बन्धनार्थं च पञ्च कार्या विजानता॥
यथा न चलनं तस्य भग्नस्य क्रियते तथा। सन्धेरुभयतो द्वौ द्वौ तले चैकश्च कीलकः॥
श्रोण्यां वा पृष्ठवंशे वा वक्षस्यक्षकयोस्तथा। भग्नसन्धिविमोक्षेषु विधिमेनं समाचरेत्॥
सन्धींश्चिरविमुक्तांस्तु स्निग्धान् स्विन्नान् मृदूकृतान्। उक्तैर्विधानैर्बुद्ध्या च सम्यक् प्रकृतिमानयेत्॥
काण्डभग्ने प्ररूढे तु विषमोल्बणसंहिते। आपोथ्य समयेद्भग्नं ततो भग्नवदाचरेत्॥
कल्पयेन्निर्गतं शुष्कं व्रणान्तेऽस्थि समाहितः। सन्ध्यन्ते वा क्रियां कुर्यात् सव्रणे व्रणभग्नवत्॥
ऊर्ध्वकाये तु भग्नानां मस्तिष्क्यं कर्णपूरणम्। घृतपानं हितं नस्यं प्रशाखास्वनुवासनम्॥
अत ऊर्ध्वं प्रवक्ष्यामि तैलं भग्नप्रसाधकम्। रात्रौ रात्रौ तिलान् कृष्णान् वासयेदस्थिरे जले॥
दिवा दिवा शोषयित्वा गवां क्षीरेण भावयेत्। तृतीयं सप्तरात्रं तु भावयेन्मधुकाम्बुना॥
ततः क्षीरं पुनः पीतान् सुशुष्कांश्चूर्णयेद्भिषक्। काकोल्यादिं सयष्ट्याह्वं मञ्जिष्ठां सारिवां तथा॥
कुष्ठं सर्जरसं मांसीं सुरदारु सचन्दनम्। शतपुष्पां च संचूर्ण्य तिलचूर्णेन योजयेत्॥
पीडनार्थं च कर्तव्यं सर्वगन्धशृतं पयः। चतुर्गुणेन पयसा तत्तैलं विपचेद्भिषक्॥
एलामंशुमतीं पत्रं जीवकं तगरं तथा। रोध्रं प्रपौण्डरीकं च तथा कालानुसारि(वा)णम्॥
सैरेयकं क्षीरशुक्लामनन्तां समधूलिकाम्। पिष्ट्वा शृङ्गाटकं चैव पूर्वोक्तान्यौषधानि च॥
एभिस्तद्विपचेत्तैलं शास्त्रविन्मृदुनाग्निना। एतत्तैलं सदा पथ्यं भग्नानां सर्वकर्मसु॥
आक्षेपके पक्षघाते तालुशोषे तथार्दिते। मन्यास्तम्भे शिरोरोगे कर्णशूले हनुग्रहे॥
बाधिर्ये तिमिरे चैव ये च स्त्रीषु क्षयं गताः। पथ्यं पाने तथाभ्यङ्गे नस्ये बस्तिषु भोजने॥
ग्रीवास्कन्धोरसां वृद्धिरमुनैवोपजायते। मुखं च पद्मप्रतिमं ससुगन्धिसमीरणम्॥
गन्धतैलमिदं नाम्ना सर्ववातविकारनुत्। राजार्हमेतत् कर्तव्यं राज्ञामेव विचक्षणैः॥
त्रपुषाक्ष्प्रियालानां तैलानि मधुरैः सह। वसां दत्त्वा यथालाभं क्षीरे दशगुणे पचेत्॥
स्नेहोत्तममिदं चाशु कुर्याद्भग्नप्रसाधनम्। पानाभ्यञ्जननस्येषु बस्तिकर्मणि सेचने॥
भग्नं नैति यथापाकं प्रयतेत तथा भिषक्। पक्वमांससिरास्नायु तद्धि कृच्छ्रेण सिध्यति॥
भग्नं सन्धिमनाविद्धमहीनाङ्गमनुल्बणम्। सुखचेष्टाप्रचारं च संहितं सम्यगादिशेत्॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0