भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 4.2

4.2.1

अथातः सद्योव्रणचिकित्सितं व्याख्यास्यामः॥

4.2.2

यथोवाच भगवान् धन्वन्तरिः॥

4.2.3

धन्वन्तरिर्धर्मभृतां वरिष्ठो वाग्विशारदः। विश्वामित्रसुतं शिष्यमृषिं सुश्रुतमन्वशात्॥

4.2.4

नानाधारामुखैः शस्त्रैर्नानास्थाननिपातितैः। नानारूपा व्रणा ये स्युस्तेषां वक्ष्यामि लक्षणम्॥

4.2.5

आयताश्चतुरस्राश्च त्र्यस्रा मण्डलिनस्तथा। अर्धचन्द्रप्रतीकाशा विशालाः कुटिलास्तथा॥

4.2.6

शरावनिम्नमध्याश्च यवमध्यास्तथापरे। एवंप्रकाराकृतयो भवन्त्यागन्तवो व्रणाः॥

4.2.7

दोषजा वा स्वयं भिन्ना न तु वैद्यनिमित्तजाः। भिषग्व्रणाकृतिज्ञो हि न मोहमधिगच्छति॥

4.2.8

भृशं दुर्दर्शरूपेषु व्रणेषु विकृतेष्वपि। अनन्ताकृतिरागन्तुः स भिषग्भिः पुरातनैः॥

4.2.9

समासतो लक्षणतः षङ्विधः परिकीर्तितः। छिन्नं भिन्नं तथा विद्धं क्षतं पिच्चितमेव च॥

4.2.10

घृष्टमाहुस्तथा षष्ठं तेषां वक्ष्यामि लक्षणम्। तिरश्चीन ऋजुर्वापि यो व्रणश्चायतो भवेत्॥

4.2.11

गात्रस्य पातनं चापि छिन्नमित्युपदिश्यते। कुन्तशक्त्यृष्टिखङ्गाग्रविषाणादिभिराशयः॥

4.2.12

हतः किञ्चित् स्रवेत्तद्धि भिन्नलक्षणमुच्यते। स्थानान्यामाग्निपक्वानां मूत्रस्य रुधिरस्य च॥

4.2.13

हृदुण्डुकः फुप्फुसश्च कोष्ठ इत्यभिधीयते। तस्मिन् भिन्ने रक्तपूर्णे ज्वरो दाहश्च जायते॥

4.2.14

मूत्रमार्गगुदास्येभ्यो रक्तं घ्राणाच्च गच्छति। मूर्च्छाश्वासतृडाध्मानमभक्तच्छन्द एव च॥

4.2.15

विण्मूत्रवातसङ्गश्च स्वेदास्रावोऽक्षिरक्तता। लोहगन्धित्वमास्यस्य गात्रदौर्गन्ध्यमेव च॥

4.2.16

हृच्छूलं पार्श्वयोश्चापि विशेषं चात्र मे शृणु। आमाशयस्थे रुधिरे रुधिरं छर्दयेत् पुनः॥

4.2.17

आध्मानमतिमात्रं च शूलं च भृशदारुणम्। पक्वाशयगते चापि रुजो गौरवमेव च॥

4.2.18

शीतता चाप्यधो नामेः खेभ्यो रक्तस्य चागमः। अभिन्नेऽप्याशयेऽन्त्राणां खैः सूक्ष्मैरन्त्रपूरणम्॥

4.2.19

पिहितास्ये घटे यद्वल्लक्ष्यते तस्य गौरवम्। सूक्ष्मास्यशल्याभिहतं यदङ्गं त्वाशयाद्विना॥

4.2.20

उत्तुण्डितं निर्गतं वा तद्विद्धमिति निर्दिशेत्। नातिच्छिन्नं नातिभिन्नमुभयोर्लक्षणान्वितम्॥

4.2.21

विषमं व्रणमङ्गे यत्तत् क्षतं त्वभिनिर्दिशेत्। प्रहारपीडनाभ्यां तु यदङ्गं पृथुतां गतम्॥

4.2.22

सास्थि तत् पिच्चितं विद्यान्मज्जरक्तपरिप्लुतम्। विगतत्वग्यदङ्गं हि संघर्षादन्यथापि वा॥

4.2.23

उषास्रावान्वितं तत्तु घृष्टमित्युपदिश्यते। छिन्ने भिन्ने तथा विद्धे क्षते वासृगतिस्रवेत्॥

4.2.24

रक्तक्षयाद्रुजस्तत्र करोति पवनो भृशम्। स्नेहपानं हितं तत्र तत्सेको विहितस्तथा॥

4.2.25

वेशवारैः सकृशरैः सुस्निग्धैश्चोपनाहनम्। धान्यस्वेदांश्च कुर्वीत स्निग्धान्यालेपनानि च॥

4.2.26

वातघ्नौषधसिद्धैश्च स्नेहैर्बस्तिर्विधीयते। पिच्चिते च विघृष्टे च नातिस्रवपि शोणितम्॥

4.2.27

अगच्छति भृशं तस्मिन् दाहः पाकश्च जायते। तत्रोष्मणो निग्रहार्थं तथा दाहप्रपाकयोः॥

4.2.28

शीतमालेपनं कार्यं परिषेकश्च शीतलः। षट्स्वेतेषु यथोक्तेषु छिन्नादिषु समासतः॥

4.2.29

ज्ञेयं समर्पितं सर्वं सद्योव्रणचिकित्सितम्। अत ऊर्ध्वं प्रवक्ष्यामि छिन्नानां तु चिकित्सितम्॥

4.2.30

ये व्रणा विवृताः केचिच्छिरःपार्श्वावलम्बिनः। तान् सीव्येद्विधिनोक्तेन बध्नीयाद्गाढमेव च॥

4.2.31

कर्णं स्थानादपहृतं स्थापयित्वा यथास्थितम्। सीव्येद्यथोक्तं तैलेन स्रोतश्चाभिप्रतर्पयेत्॥

4.2.32

कृकाटिकान्ते छिन्ने तु गच्छत्यपि समीरणे। सम्यङ्निवेश्य बध्नीयात् सीव्येच्चापि निरन्तरम्॥

4.2.33

आजेन सपिषा चैवं परिषेकं तु कारयेत्। उत्तानोऽन्नं समश्नीयाच्छयीत च सुयन्त्रितः॥

4.2.34

शाखासु पतितांस्तिर्यक् प्रहारान् विवृतान् भृशम्। सीव्येत् सम्यङ्निवेश्याशु सन्ध्यस्थीन्यनुपूर्वशः॥

4.2.35

बद्ध्वा वेल्लितकेनाशु ततस्तैलेन सेचयेत्। चर्मणा गोफणाबन्धः कार्यो यो वा हितो भवेत्॥

4.2.36

पृष्ठे व्रणो यस्य भवेदुत्तानं शाययेत्तु तम्। अतोऽन्यथा चोरसिजे शाययेत् पुरुषं व्रणे॥

4.2.37

छिन्नां निःशेषतः शाखां दग्ध्वा तैलेन बुद्धिमान्। बध्नीयात् कोशबन्धेन प्राप्तं कार्यं च रोपणम्॥

4.2.38

चन्दनं पद्मकं रोध्रमुत्पलानि प्रियङ्गवः। हरिद्रा मधुकं चैव पयः स्यादत्र चाष्टमम्॥

4.2.39

तैलमेभिर्विपक्वं तु प्रधानं व्रणरोपणम्। चन्दनं कर्कटाख्या च सहे मांस्याह्वयामृता॥

4.2.40

हरेणवो मृणालं च त्रिफला पद्मकोत्पले। त्रयोदशाङ्गं त्रिवृतमेतद्वा पयसान्वितम्॥

4.2.41

तैलं विपक्वं सेकार्थे हितं तु व्रणरोपणे। अत ऊर्ध्वं प्रवक्ष्यामि भिन्नानां तु चिकित्सितम्॥

4.2.42

भिन्नं नेत्रमकर्मण्यमभिन्नं लम्बते तु यत्। तन्निवेश्य यथास्थानमव्याविद्धसिरं शनैः॥

4.2.43

पीडयेत् पाणिना सम्यक् पद्मपत्त्रान्तरेण तु। ततोऽस्य तर्पणं कार्यं नस्यं चानेन सर्पिषा॥

4.2.44

आजं घृतं क्षीरपात्रं मधुकं चोत्पलानि च। जीवकर्षभकौ चैव पिष्ट्वा सर्पिर्विपाचयेत्॥

4.2.45

सर्वनेत्राभिघाते तु सर्पिरेतत् प्रशस्यते। उदरान्मेदसो वर्तिर्निर्गता यस्य देहिनः॥

4.2.46

कषायभस्ममृत्कीर्णां बद्ध्वा सूत्रेण सूत्रवित्। अग्नितप्तेन शस्त्रेण छिन्द्यान्मधुसमायुतम्॥

4.2.47

बद्ध्वा व्रणं सुजीर्णेऽन्ने सर्पिषः पानमिष्यते। स्नेहपानादृते चापि पयःपानं विधीयते॥

4.2.48

शर्करामधुयष्टिभ्यां लाक्षया वा श्वदंष्ट्रया। चित्रासमन्वितं चैव रुजादाहविनाशनम्॥

4.2.49

आटोपो मरणं वा स्याच्छूलो वाच्छिद्यमानया। मेदोग्रन्थौ तु यत्तैलं वक्ष्यते तच्च योजयेत्॥

4.2.50

त्वचोऽतीत्य सिरादीनि भित्त्वा वा परिहृत्य वा। कोष्ठे प्रतिष्ठितं शल्यं कुर्यादुक्तानुपद्रवान्॥

4.2.51

तत्रान्तर्लोहितं पाण्डुं शीतपादकराननम्। शीतोच्छ्वासं रक्तनेत्रमानद्धं च विवर्जयेत्॥

4.2.52

आमाशयस्थे रुधिरे वमनं पथ्यमुच्यते। पक्वाशयस्थे देयं च विरेचनमसंशयम्॥

4.2.53

आस्थापनं च निःस्हेहं कार्यमुष्णैर्विशोधनैः। यवकोलकुलत्थानां निःस्नेहेन रसेन च॥

4.2.54

भुञ्जीतान्नं यवागूं वा पिबेत् सैन्धवसंयुताम्। अतिनिःस्रुतरक्तो वा भिन्नकोष्ठः पिबेदसृक्॥

4.2.55

स्वमार्गप्रतिपन्नास्तु यस्य विण्मूत्रमारुताः। व्युपद्रवः स भिन्नेऽपि कोष्ठे जीवति मानवः॥

4.2.56

अभिन्नमन्त्रं निष्क्रान्तं प्रवेश्यं नान्यथा भवेत्। पिपीलिकाशिरोग्रस्तं तदप्येके वदन्ति तु॥

4.2.57

प्रक्षाल्य पयसा दिग्धं तृण्शोणितपांशुभिः। प्रवेशयेत् कृत्तनखो घृतेनाक्तं शनैः शनैः॥

4.2.58

प्रवेशयेत् क्षीरसिक्तं शुष्कमत्रं घृताप्लुतम्। अङ्गुल्याभिमृशेत् कण्ठं जलेनोद्वेजयेदपि॥

4.2.59

हस्तपादेषु संगृह्य समुत्थाप्य महाबलाः। भवत्यन्तःप्रवेशस्तु यथा निर्धुनुयुस्तथा॥

4.2.60

तथान्त्राणि विशन्त्यन्तः स्वां कलां पीडयन्ति च। व्रणाल्पत्वाद्बहुत्वाद्वा दुष्प्रवेशं भवेत्तु यत्॥

4.2.61

तदापाठ्य प्रमाणेन भिषगन्त्रं पर्वेशयेत्। यथास्थानं निवेष्टे च व्रणं सीव्येदतन्द्रियः॥

4.2.62

स्थानादपेतमादत्ते प्राणान् गुपितमेव वा। वेष्टयित्वा तु पट्टेन घृतसेकं प्रदापयेत्॥

4.2.63

घृतं पिबेत् सुखोष्णं च चित्रातैलसमन्वितम्। मृदुक्रियार्थं शकृतो वायोश्चाधःप्रवृत्तये॥

4.2.64

ततस्तैलमिदं कुर्याद्रोपणार्थं चिकित्सकः। त्वचोऽश्वकर्णधवयोर्मोचकीमेषशृङ्गयोः॥

4.2.65

शल्लक्यर्जुनयोश्चापि विदार्याः क्षीरिणां तथा। बलामूलानि चाहृत्य तैलमेतैर्विपाचयेत्॥

4.2.66

व्रणं संरोपयेत्तेन वर्षमात्रं यतेत च। पादौ निरस्तमुष्कस्य जलेन प्रोक्ष्य चाक्षिणी॥

4.2.67

प्रवेश्य तुन्नसेवन्या मुष्कौ सीव्येत्ततः परम्। कार्यो गोफणिकाबन्धः कठ्यामावेश्य यन्त्रकम्॥

4.2.68

न कुर्यात् स्नेहसेकं च तेन क्लिद्यति हि व्रणः। कालानुसार्यागुर्वेलाजातीचन्दनपद्मकैः॥

4.2.69

शिलादार्व्यमृतातुत्थैस्तैलं कुर्वीत रोपणम्। शिरसोऽपहृते शल्ये बालवर्तिं निवेशयेत्॥

4.2.70

बालवर्त्यामदत्तायां मस्तुलुङ्गं व्रणात् स्रवेत्। हन्यादेनं ततो वायुस्तस्मादेवमुपाचरेत्॥

4.2.71

व्रणे रोहति चैकैकं शनैर्बालमपक्षिपेत्। गात्रादपहृतेऽन्यस्मात् स्नेहवर्तिं प्रवेशयेत्॥

4.2.72

कृते निःशोणिते चापि विधिः सद्यःक्षते हितः। दूराबगाढाः सूक्ष्माः स्युर्ये व्रणास्तान् विशोणितान्॥

4.2.73

कृत्वा सूक्ष्मेण नेत्रेण चक्रतैलेन तर्पयेत्। समङ्गां रजनीं पद्मां त्रिवर्गं तुत्थमेव च॥

4.2.74

विडङ्गं कटुकां पथ्यां गुडूचीं सकरञ्जिकाम्। संहृत्य विपचेत् काले तैलं रोपणमुत्तमम्॥

4.2.75

तालीशं पद्मकं मांसी हरेण्वगुरुचन्दनम्। हरिद्रे पद्मबीजानि सोशीरं मधुकं च तैः॥

4.2.76

पक्वं सद्योव्रणेषूक्तं तैलं रोपणमुत्तमम्। क्षते क्षतविधिः कार्यः पिच्चिते भग्नवद्विधिः॥

4.2.77

घृष्टे रुजो निगृह्याशु चूर्णैरुपचरेद्व्रणम्। विश्लिष्टदेहं पतितं मथितं हतमेव च॥

4.2.78

वासयेत्तैलपूर्णायां द्रोण्यां मांसरसाशनम्। अयमेव विधिः कार्यः क्षीणे मर्महते तथा॥

4.2.79

रोपणे सपरीषेके पाने च व्रणिनां सदा। तैलं घृतं वा संयोज्यं शरीरर्तूनवेक्ष्य हि॥

4.2.80

घृतानि यानि वक्ष्यामि यत्नतः पित्तविद्रधौ। सद्योव्रणेषु देयानि तानि वैद्येन जानता॥

4.2.81

सद्यःक्षतव्रणं वैद्यः सशूलं परिषेचयेत्। सर्पिषा नातिशीतेन बलातैलेन वा पुनः॥

4.2.82

समङ्गां रजनीं पद्मां पथ्यां तुत्थं सुवर्चलाम्। पद्मकं रोध्रमधुकं विडङ्गानि हरेणुकाम्॥

4.2.83

तालीशपत्रं नलदं चन्दनं पद्मकेशरम्। मञ्जिष्ठोशीरलाक्षाश्च क्षीरिणां चापि पल्लवान्॥

4.2.84

प्रियालबीजं तिन्दुक्यास्तरुणानि फलानि च। यथालाभं समाहृत्य तैलमेभिर्विपाचयेत्॥

4.2.85

सद्योव्रणानां सर्वेषामदुष्टानां तु रोपणम्। कषायमधुराः शीताः क्रियाः स्निग्धाश्च योजयेत्॥

4.2.86

सद्योव्रणानां सप्ताहं पश्चात् पूर्वोक्तमाचरेत्। दुष्टव्रणेषु कर्तव्यमूर्ध्वं चाधश्च शोधनम्॥

4.2.87

विशोषणं तथाआहारः शोणितस्य च मोक्षणम्। कषायं राजवृक्षादौ सुरसादौ च धावनम्॥

4.2.88

तयोरेव कषायेण तैलं शोधनमिष्यते। क्षारकल्पेन वा तैलं क्षारद्रव्येषु साधितम्॥

4.2.89

द्रवन्ती चिरबिल्वश्च दन्ती चित्रकमेव च। पृथ्वीका निम्बपत्राणि कासीसं तुत्थमेव च॥

4.2.90

त्रिवृत्तेजोवती नीली हरिद्रे सैन्धवं तिलाः। भूमिकदम्बः सुवहा शुकाख्या लाङ्गलाह्वया॥

4.2.91

नैपाली जालिनी चैव मदयन्ती मृगादनी। सुधामूर्वार्ककीटारिहरितालकरञ्जिकाः॥

4.2.92

यथोपपत्ति कर्तव्यं तैलमेतैस्तु शोधनम्। घृतं वा यदि वा प्राप्तं कल्काः संशोधनास्तथा॥

4.2.93

सैन्धवत्रिवृदेरण्डपत्रकल्कस्तु वातिके। त्रिवृद्धरिद्रामधुककल्कः पैत्ते तिलैर्युतः॥

4.2.94

कफजे तिलतेजोह्वादन्तीस्वर्जिकचित्रकाः। दुष्टव्रणविधिः कार्यो मेहकुष्ठव्रणेष्वपि॥

4.2.95

षड्विधः प्राक् प्रदिष्टो यः सद्योव्रणविनिश्चयः। नातः शक्यं परं वक्तुमपि निश्चितवादिभिः॥

4.2.96

उपसर्गैर्निपातैश्च तत्तु पण्डितमानिनः। केचित् संयोज्य भाषन्ते बहुधा मानगर्विताः॥

4.2.97

बहु तद्भाषितं तेषां षट्स्वेष्वेवावतिष्ठते। विशेषा इव सामान्ये षट्त्वं तु परमं मतम्॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc