सुश्रुतसंहिता · अध्याय 4.22
अथातो मुखरोगचिकित्सितं व्याख्यास्यामः॥
यथोवच भगवान् धन्वन्तरिः॥
चतुर्विधेन स्नेहेन मधूच्छिष्टयुतेन च। वातजेऽभ्यञ्जनं कुर्यान्नाडीस्वेदं च बुद्धिमान्॥
विदध्यादोष्ठकोपे तु साल्वणं चोपनाहने। मस्तिष्के चैव नस्ये च तैलं वातहरं हितम्॥
श्रीवेष्टकं सर्जरसं सुरदारु सगुग्गुलु। यष्टीमधुकचूर्णं तु विदध्यात् प्रतिसारणम्॥
पित्तरक्ताभिघातोत्थं जलौकोभिरुपाचरेत्। पित्तविद्रधिवच्चापि क्रियां कुर्यादशेषतः॥
शिरोविरेचनं धूमः स्वेदः कवल एव च। हृते रक्ते प्रयोक्तव्यमोष्ठकोपे कफात्मके॥
त्र्यूषणं स्वर्जिकाक्षारो यवक्षारो विडं तथा। क्षौद्रयुक्तं विधातव्यमेतच्च प्रतिसारणम्॥
मेदोजे स्वेदिते भिन्ने शोधिते ज्वलनो हितः। प्रियङ्गुत्रिफलालोध्रं सक्षौद्रं प्रतिसारणम्॥
एतदोष्ठप्रकोपानां साध्यानां कर्म कीर्तितम्। दन्तमूलगतानां तु रोगाणां कर्म वक्ष्यते॥
शीतादे हृतरक्ते तु तोये नागरसर्षपान्। निष्क्वाथ्य त्रिफलां मुस्तं गण्डूषः सरसाञ्जनः॥
प्रियङ्गवश्च मुस्तं च त्रिफला च प्रलेपनम्। नस्यं च त्रिफलासिद्धं मधुकोत्पलपद्मकैः॥
दन्तपुप्पुटके कार्यं तरुणे रक्तमोक्षणम्। सपञ्चलवणः क्षारः सक्षौद्रः प्रतिसारणम्॥
हितः शिरोविरेकश्च नस्यं स्निग्धं च भोजनम्। विस्राविते दन्तवेष्टे व्रणांस्तु प्रतिसारयेत्॥
रोध्रपत्तङ्गयष्ट्याह्वलाक्षाचूर्णैर्मधूत्तरैः। गण्डूषे क्षीरिणो योज्याः सक्षौद्रघृतशर्कराः॥
काकोल्यादौ दशक्षीरसिद्धं सर्पिश्च नस्यतः। शौषिरे हृतरक्ते तु रोध्रमुस्तरसाञ्जनैः॥
सक्षौद्रैः शस्यते लेपो गण्डूषे क्षीरिणो हिताः। सारिवोत्पलयष्ट्याह्वसावरागुरुचन्दनैः॥
क्षीरे दशगुणे सिद्धं सर्पिर्नस्ये च पूजितम्। क्रियां परिदरे कुयाच्छीताकोक्तां विचक्षणः॥
संशोध्योभयतः कार्यं शिरश्चोपकुशे तथा। काकोदुम्बरिकागोजीपत्रैर्विस्रावयेदसृक्॥
क्षौद्रयुक्तैश्च लवणैः सव्योषैः प्रतिसारयेत्। पिप्पलीः सर्षपाञ् श्वेतान्नागरं नैचुलं फलम्॥
सुखोदकेन संसृज्य कवलं चापि धारयेत्। घृतं मधुरकैः सिद्धं हितं कवलनस्ययोः॥
शस्त्रेण दन्तवैदर्भे दन्तमूलानि शोधयेत्। ततः क्सारं प्रयुञ्जीत क्रियाः सर्वाश्च शीतलाः॥
उद्धृत्याधिकदन्तं तु ततोऽग्निमवचारयेत्। कृमिदन्तकवच्चापि विधिः कार्यो विजानता॥
छित्त्वाधिमांसं सक्षौद्रैरेभिश्चूर्णैरुपाचरेत्। वचातेजोवतीपाठास्वर्जिकायावशूकजैः॥
क्षौद्रद्वितीयाः पिप्पल्यः कवलश्चात्र कीर्तितः। पटोलत्रिफलानिम्बकषायश्चात्र धावने। हितः शिरोविरेकश्च धूमो वैरेचनश्च यः॥
सामान्यं कर्म नाडीनां विशेषं चात्र मे शृणु। नाडीव्रणहरं कर्म दन्तनाडीषु कारयेत्॥
यं दन्तमभिजायेत नाडी तं दन्तमुद्धरेत्। छित्त्वा मांसानि शस्त्रेण यदि नोपरिजो भवेत्॥
शोधयित्वा दहेच्चापि क्षारेण ज्वलनेन वा। भिनत्त्युपेक्षिते दन्ते हनुकास्थि गतिर्ध्रुवम्॥
समूलं दशनं तस्मादुद्धरेद्भग्नमस्थिरम्। उद्धृते तूत्तरे दन्ते समूले स्थिरबन्धने॥
रक्तातियोगात् पूर्वेक्ता रोगा घोरा भवन्ति हि। काणः संजायते जन्तुरर्दितं चास्य जायते॥
चलमप्युत्तरं दन्तमतो नापहरेद्भिषक्। धावने जातिमदनस्वादुकण्टकखादिरम्॥
कषायं जातिमदनकटुकस्वादुकण्टकैः। यष्ट्याह्वरोध्रमञ्जिष्ठाखदिरैश्चापि यत् कृतम्॥
तैलं संशोधनं तद्धि हन्याद्दन्तगतां गतिम्। कीर्तिता दन्तमूले तु क्रिया दन्तेषु वक्ष्यते॥
स्नेहानां कवलाः कोष्णाः सर्पिषस्त्रैवृतस्य वा। निर्यूहाश्चानिलघ्नानां दन्तहर्षप्रमर्दनाः॥
स्नैहिकश्च हितो धूमो नस्यं स्निग्धं च भोजनम्। रसो रसयवाग्वश्च क्षीरं सन्तानिका घृतम्॥
शिरोबस्तिर्हितश्चापि क्रमो यश्चानिलापहः। अहिंसन् दन्तमूलानि शर्करामुद्धरेद्भिषक्॥
लाक्षाचूर्णैर्मधुयुतैस्ततस्ताः प्रतिसारयेत्। दन्तहर्षक्रियां चापि कुर्यान्निरवशेषतः॥
कपालिका कृच्छ्रतमा तत्राप्येषा क्रिया हिता। जयेद्विस्रावणैः स्विन्नमचलं कृमिदन्तकम्॥
तथावपीडैर्वातघ्नैः स्नेहगण्डूषधारणैः। भद्रदार्वादिवर्षाभूलेपैः स्निग्धैश्च भोजनैः॥
चलमुद्धृत्य च स्थानं विदहेत् सुषिरस्य च। ततो विदारीयष्ट्याह्वशृङ्गाटककसेरुकैः॥
तैलं दशगुणे क्षीरे सिद्धं नस्ये हितं भवेत्। हनोमोक्षे समुद्दिष्टां कुर्याच्चार्दितवत् क्रियाम्॥
फलान्यम्लानि शीताम्बु रूक्षान्नं दन्तधावनम्। तथातिकठिनान् भक्ष्यान् दन्तरोगी विवर्जयेत्॥
साध्यानां दन्तरोगाणां चिकित्सितमुदीरितम्। जिह्वागतानां साध्यानां कर्म वक्ष्यामि सिद्धये॥
औष्ठप्रकोपेऽनिलजे यदुक्तं प्राक् चिकित्सितम्। कण्टकेष्वनिलोत्थेषु तत् कार्यं भिषजा भवेत्॥
पित्तजेषु विघृष्टेषु निःसृते दुष्टशोणिते। प्रतिसारणगण्डूषं नस्यं च मधुरं हितम्॥
कण्टकेषु कफोत्थेषु लिखितेष्वसृजः क्षये। पिप्पल्यादिर्मधुयुतः कार्यस्तु प्रतिसारणे॥
गृह्णीयात् कवलांश्चापि गौरसर्षपसैन्धवैः। पटोलनिम्बवार्ताकुक्षारयूषैश्च भोजयेत्॥
उपजिह्वां तु संलिख्य क्षारेण प्रतिसारयेत्। शिरोविरेकगण्डूषधूमैश्चैनमुपाचरेत्॥
जिह्वागतानां कर्मोक्तं तालव्यानां प्रवक्ष्यते। अङ्गुष्ठाङ्गुलिसंदंशेनाकृष्य गलशुण्डिकाम्॥
छेदयेन्मण्डलाग्रेण जिह्वोपरि तु संस्थिताम्। नोत्कृष्टं चैव हीनं च त्रिभागं छेदयेद्भिषक्॥
अत्यादानात् स्रवेद्रक्तं तन्निमित्तं म्रियेत च। हीनच्छेदाद्भवेच्छोफो लाला निद्रा भ्रमस्तमः॥
तस्माद्वैद्यः प्रयत्नेन दृष्टकर्मा विशारदः। गलशुण्डीं तु सञ्छिद्य कुर्यात् प्राप्तमिमं क्रमम्॥
मरिचातिविषापाठावचाकुष्ठकुटन्नटैः। क्षौद्रयुक्तैः सलवणैस्ततस्तां प्रतिसारयेत्॥
वचामतिविषां पाठां रास्नां कटुकरोहिणीम्। निष्क्वाथ्य पिचुमन्दं च कवलं तत्र योजयेत्॥
इङ्गुदीकिणिहीदन्तीसरलासुरदारुभिः। पञ्चाङ्गीं कारयेत् पिष्टैर्वर्तिं गन्धोत्तरां शुभाम्॥
ततो धूमं पिबेज्जन्तुर्द्विरह्नः कफनाशनम्। क्षारसिद्धेषु मुद्गेषु यूषश्चाप्यशने हितः॥
तुण्डिकेर्यध्रुषे कूर्मे सङ्घाते तालुपुप्पुटे। एष एव विधिः कार्यो विशेषः शस्त्रकर्मणि ॥
तालुपाके तु कर्तव्यं विधानं पित्तनाशनम्। स्नेहस्वेदौ तालुशोषे विधिश्चानिलनाशनः॥
कीर्तितं तालुजानां तु कण्ठ्यानां कर्म वक्ष्यते। साध्यानां रोहिणीनां तु हितं शोणितमोक्षणम्॥
छर्दनं धूमपानं च गण्डूषो नस्यकर्म च। वातिकीं तु हृते रक्ते लवणैः प्रतिसारयेत्॥
सुखोष्णान् स्नेहगण्डूषान् धारयेच्चाप्यभीक्ष्णशः। पतङ्गशर्कराक्षौद्रैः पैत्तिकीं प्रतिसारयेत्॥
द्राक्षापरूषकक्वाथो हितश्च कवलग्रहे। अगारधूमकटुकैः श्लैष्मिकीं प्रतिसारयेत्॥
श्वेताविडङ्गदन्तीषु तैलं सिद्धं ससैन्धवम्। नस्यकर्मणि योक्तव्यं तथा कवलधारणे॥
पित्तवत् साधयेद्वैद्यो रोहिणीं रक्तसंभवाम्। विस्राव्य कण्ठशालूकं साधयेत्तुण्डिकेरिवत्॥
एककालं यवान्नं च भुञ्जीत स्निग्धमल्पशः। उपजिह्विकवच्चापि साधयेदधिजिह्विकाम्॥
एकवृन्दं तु विस्राव्य विधिं शोधनमाचरेत्। गिलायुश्चापि यो व्याधिस्तं च शस्त्रेण साधयेत्॥
अमर्मस्थं सुपक्वं च भेदयेद्गलविद्रधिम्। वातात् सर्वसरं चूर्णैर्लवणैः प्रतिसारयेत्॥
तैलं वातहरैः सिद्धं हितं कवलनस्ययोः। ततोऽस्मै स्नैहिकं धूममिमं दद्याद्विचक्षणः॥
शालराजादनैरण्डसारैङ्गुदमधूकजाः। मज्जानो गुग्गुलुध्याममांसीकालानुसारिवाः। श्रीसर्जरसशैलेयमधूच्छिष्टानि चाहरेत्॥
तत्सर्वं सुकृतं चूर्णं स्नेहेनालोड्य युक्तितः। टिण्डूकवृन्तं सक्षौद्रं मतिमांस्तेन लेपयेत्॥
एष सर्वसरे धूमः प्रशस्तः स्नैहिको मतः। कफघ्नो मारुतघ्नश्च मुखरोगविनाशनः॥
पित्तात्मके सर्वसरे शुद्धकायस्य देहिनः। सर्वः पित्तहरः कार्यो विधिर्मधुरशीतलः॥
प्रतिसारणगण्डूषौ धूमः संशोधनानि च। कफात्मके सर्वसरे विधिं कुर्यात् कफापहम्॥
पिबेदतिविषां पाठां मुस्तं च सुरदारु च। रोहिणीं कटुकाख्यां च कुटजस्य फलानि च॥
गवां मूत्रेण मनुजो भागैर्धरणसंमितैः। एष सर्वान् कफकृतान् रोगान् योगोऽपकर्षति॥
क्षीरेक्षुरसगोमूत्रदधिमस्त्वम्लकाञ्जिकैः। विदध्यात् कवलान् वीक्ष्य दोषं तैलघृतैरपि॥
रोगाणां मुखजातानां साध्यानां कर्म कीर्तितम्। असाध्या अपि वक्ष्यन्ते रोगा ये तत्र कीर्तिताः॥
औष्ठप्रकोपे वर्ज्याः स्युर्मांसरक्तत्रिदोषजाः। दन्तमूलेषु वर्ज्यौ तु त्रिलिङ्गगतिसौषिरौ॥
दन्तेषु च न सिध्यन्ति श्यावदालनभञ्जनाः। जिह्वागतेष्वलासस्तु तालव्येष्वर्बुदं तथा॥
स्वरघ्नो वलयो वृन्दो विदार्यलस एव च। गलौष्ठो मांसतानश्च शतघ्नी रोहिणी च या॥
असाध्याः कीर्तिता ह्येते रोगा नव दशैव च। तेषां चापि क्रियां वैद्यः प्रत्याख्याय समाचरेत्॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0