सुश्रुतसंहिता · अध्याय 4.13
अथातो मधुमेहचिकित्सितं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
मधुमेहित्वमापन्नं भिषग्भिः परिवर्जितम्। योगेनानेन मतिमान् प्रमेहिणमुपाचरेत्॥
मासे शुक्रे शुचौ चैव शैलाः सूर्यांशुतापिताः। जतुप्रकाशं स्वरसं शिलाभ्यः प्रस्रवन्ति हि॥
शिलाजत्विति विख्यातं सर्वव्याधिविनाशनम्। त्रप्वादीनां तु लोहानां षण्णामन्यतमान्वयम्॥
ज्ञेयं स्वगन्धतश्चापि षड्योनि प्रथितं क्षितौ। लोहाद्भवति तद्यस्माच्छिलाजतु जतुप्रभम्॥
तस्य लोहस्य तद्वीर्यं रसं चापि बिभर्ति तत्। त्रपुसीसायसादीनि प्रधानान्युत्तरोत्तरम्॥
यथा तथा प्रयोगेऽपि श्रेष्ठे श्रेष्ठगुणाः स्मृताः। तत्सर्वं तिक्तकटुकं कषायानुरसं सरम्॥
कटुपाक्युष्णवीर्यं च शोषणं छेदनं तथा। तेषु यत् कृष्णमलघु स्निग्धं निःशर्करं च यत्॥
गोमूत्रगन्धि यच्चापि तत् प्रधानं प्रचक्षते। तद्भावितं सारगणैर्हृतदोषो दिनोदये॥
पिबेत् सारोदकेनैव श्लक्ष्णपिष्टं यथाबलम्। जाङ्गलेन रसेनान्नं तस्मिञ्जीर्णे तु भोजयेत्॥
उपयुज्य तुलामेवं गिरिजादमृतोपमात्। वपुर्वर्णबलोपेतो मधुमेहविवर्जितः॥
जीवेद्वर्षशतं पूर्णमजरोऽमरसन्निभः। शतं शतं तुलायां तु सहस्रं दशतौलिके॥
भल्लातकविधानेन परिहारविधिः स्मृतः। मेहं कुष्ठमपस्मारमुन्मादं श्लीपदं गरम्॥
शोषं शोफार्शसी गुल्मं पाण्डुतां विषमज्वरम्। अपोहत्यचिरात्कालाच्छिलाजतु निषेवितम्॥
न सोऽस्ति रोगो यं चापि निहन्यान्न शिलाजतु। शर्करां चिरसंभूतां भिनत्ति च तथाश्मरीम्॥
भावनालोडने चास्य कर्तव्ये भेषजैर्हितैः। एवं च माक्षिकं धातुं तापीजममृतोपमम्॥
मधुरं काञ्चनाभासमम्लं वा रजतप्रभम्। पिबन् हन्ति जराकुष्ठमेहपाण्ड्वामयक्षयान्॥
तद्भावितः कपोतांश्च कुलत्थांश्च विवर्जयेत्। पञ्चकर्मगुणातीतं श्रद्धावन्तं जिजीविषुम्॥
योगेनानेन मतिमान् साधयेदपि कुष्ठनम्। वृक्षास्तुवरका ये स्युः पश्चिमार्णवभूमिषु॥
वीचीतरङ्गविक्षेपमारुतोद्धूतपल्लवाः। तेषां फलानि गृह्णीयात् सुपक्वान्यम्बुदागमे॥
मज्जां तेभ्योऽपि संहृत्य शोषयित्वा विचूर्ण्य च। तिलवत् पीडयेद्द्रोण्यां स्रावयेद्वा कुसुम्भवत्॥
तत्तैलं संहृतं भूयः पचेदातोयसंक्षयात्। अवतार्य करीषे च पक्षमात्रं निधापयेत्॥
स्निग्धः स्विन्नो हृतमलः पक्षादूर्ध्वं प्रयत्नवान्। चतुर्थभक्तान्तरितः शुक्लादौ दिवसे शुभे॥
मन्त्रपूतस्य तैलस्य पिबेन्मात्रां यथाबलम्। तत्र मन्त्रं प्रवक्ष्यामि येनेदमभिमन्त्र्यते॥
मज्जसार महावीर्य सर्वान् धातून् विशोधय। शङ्खचक्रगदापाणिस्त्वामाज्ञापयतेऽच्युतः॥
तेनास्योर्ध्वमधश्चापि दोषा यान्त्यसकृत्ततः। अस्नेहलवणां सायं यवागूं शीतलां पिबेत्॥
पञ्चाहं प्रपिबेत्तैलमनेन विधिना नरः। पक्षं परिहरेच्चापि मुद्गयूषौदनाशनः॥
पञ्चभिर्दिवसैरेवं सर्वकुष्ठैर्विमुच्यते। तदेव खदिरक्वाथे त्रिगुणे साधु साधितम्॥
निहितं पूर्ववत् पक्षात् पिबेन्मासमतन्द्रितः। तेनाभ्यक्तशरीरश्च कुर्वीताहारमीरितम्॥
भिन्नस्वरं रक्तनेत्रं विशीर्णं कृमिभक्षितम्। अनेनाशु प्रयोगेण साधयेत् कुष्ठिनं नरम्॥
सर्पिर्मधुयुतं पीतं तदेव खदिराम्बुना। पक्षिमांसरसाहारं करोति द्विशतायुषम्॥
तदेव नस्ये पञ्चाशद्दिवसानुपयोजितम्। वपुष्मन्तं श्रुतिधरं करोति त्रिशतायुषम्॥
शोधयन्ति नरं पीता मज्जानस्तस्य मात्रया। महावीर्यस्तुवरकः कुष्ठमेहापहः परः॥
सान्तर्धूमस्तस्य मज्जा तु दग्धः क्षिप्तस्तैले सैन्धवं चाञ्जनं च। पैल्ल्यं हन्यादर्मनक्तान्ध्यकाचान् नीलीरोगं तैमिरं चाञ्जनेन॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0