भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 4.12

4.12.1

अथातः प्रमेहपिडकाचिकित्सितं व्याख्यास्यामः॥

4.12.2

यथोवाच भगवान् धन्वन्तरिः॥

4.12.3

शराविकाद्या नव पिडकाः प्रागुक्ताः; ताः प्राणवतोऽल्पास्त्वङ्मांसप्राप्ता मृद्व्योऽल्परुजः क्षिप्रपाकभेदिन्यश्च साध्याः॥

4.12.4

ताभिरुपद्रुतं प्रमेहिणमुपचरेत्। तत्र पूर्वरूपेष्वपतर्पणं वनस्पतिकषायं बस्तमूत्रं चोपदिशेत्; एवमकुर्वतस्तसय मधुराहारस्य मूत्रं स्वेदः श्लेष्मा च मधुरीभवति प्रमेहश्चाभिव्यक्तो भवति, तत्रोभयतः संशोधनमासेवेत; एवमकुर्वतस्तस्य दोषाः प्रवृद्धा मांसशोणिते प्रदूष्य शोफं जनयन्त्युपद्रवान् वा कांश्चित्, तत्रोक्तः प्रतीकारः सिरामोक्षश्च; एवमकुर्वतस्तस्य शोफो वृद्धोऽतिमात्रं रुजो विदाहमापद्यते, तत्र शस्त्रप्रणिधानमुक्तं व्रणक्रियोपसेवा च; एवमकुर्वतस्तस्य पूयोऽभ्यन्तरमवदार्योत्सङ्गं महान्तमवकाशं कृत्वा प्रवृद्धो भवत्यसाध्यः; तस्मादादित एव प्रमेहिणमुपक्रमेत्॥

4.12.5

भल्लातकबिल्वाम्बुपिप्पलीमूलोदकीर्यावर्षाभूपुनर्नवाचित्रकशटीस्नुहीवरुणकपुष्करदन्तीपथ्या दशपलोन्मिता यवकोलकुलत्थांश्च प्रास्थिकान् सलिलद्रोणे निष्क्वाथ्य चतुर्भागावशिष्टेऽवतार्य वचात्रिवृत्कम्पिल्लकभार्गीनिचुलशुण्ठीगजपिप्पलीविडङ्गरोध्रशिरीषाणां भागैरर्धपलिकैर्घृतप्रस्थं विपाचयेन्मेहश्वयथुकुष्ठगुल्मोदरार्शःप्लीहविद्रधिपिडकानां नाशनं नाम्ना धान्वन्तरम्॥

4.12.6

दुर्विरेच्या हि मधुमेहिनो भवन्ति मेदोऽभिव्याप्तशरीरत्वात्, तस्मात्तीक्ष्णमेतेषां शोधनं कुर्वीत। पिडकापीडिताः सोपद्रवाः सर्व एव प्रमेहा मूत्रादिमाधुर्ये मधुगन्धसामान्यात् पारिभाषिकीं मधुमेहाख्यां लभन्ते॥

4.12.7

न चैतान् कथंचिदपि स्वेदयेत्, मेदोबहुत्वादेतेषां विशीर्यते देहः स्वेदेन॥

4.12.8

रसायनीनां च दौर्बल्यान्नोर्ध्वमुत्तिष्ठन्ति प्रमेहिणां दोषाः, ततो मधुमेहिनामधःकाये पिडकाः प्रादुर्भवन्ति॥

4.12.9

अपक्वानां तु पिडकानां शोफवत् प्रतीकारः, पक्वानां व्रणवदिति; तैलं तु व्रणरोपणमेवादौ कुर्वीत, आरग्वधादिकषायमुत्सादनार्थे, शालसारादिकषायं परिषेचने, पिप्पल्यादिकषायं पानभोजनेषु, पाठाचित्रकशार्ङ्गेष्टाक्षुद्राबृहतीसारिवासोमवल्कसप्तपर्णारग्वधकुटजमूलचूर्णानि मधुमिथाणि प्रश्नीयात्॥

4.12.10

शालसारादिवर्गकषायं चतुर्भागावशिष्टमवतार्य परिस्राव्य पुनरुपनीय साधयेत्, सिध्यति चामलकरोध्रप्रियङ्गुदन्तीकृष्णायस्ताम्रचूर्णान्यावपेत्, एतदनुपदग्धं लेहीभूतमवतार्यानुगुप्तं निदध्यात्, ततो यथायोगमुपयुञ्जीत, एष लेहः सर्वमेहानां हन्ता॥

4.12.11

त्रिफलानित्रकत्रिकटुकविडङ्गमुस्तानां नव भागास्तावन्त एव कृष्णायश्चूर्णस्य, तत्सर्वमैकध्यं कृत्वा यथायोगं मात्रां सर्पिर्मधुभ्यां संसृज्योपयुञ्जीत, एतन्नवायसम्; एतेन जाठर्यं न भवति, सन्नोऽग्निराप्यायते, दुर्नामशोफपाण्डुकुष्ठरोगाविपाककासश्वासप्रमेहाश्च न भवन्ति॥

4.12.12

शालसारादिनिर्यूहे चतुर्थांशावशेषिते। परिस्रुते ततः शीते मधु माक्षिकमावपेत्॥

4.12.13

फाणितीभावमापन्नं गुडं शोधितमेव च। श्लक्ष्णपिष्टानि चूर्णानि पिप्पल्यादिगणस्य च॥

4.12.14

ऐकध्यमावपेत् कुम्भे संस्कृते घृतभावैते। पिप्पलीचूर्णमधुभिः प्रलिप्तेऽन्तःशुचौ दृढे॥

4.12.15

श्लक्ष्णानि तीक्ष्णलोहस्य तत्र पत्राणि बुद्धिमान्। खदिराङ्गारतप्तानि बहुशः सन्निपातयेत्॥

4.12.16

सुपिधानं तु तं कृत्वा यवपल्ले निधापयेत्। मासांस्त्रींश्चतुरो वापि यावदालोहसंक्षयात्॥

4.12.17

ततो जातरसं तं तु प्रातः प्रातर्यथाबलम्। निषेवेत यथायोगमाहारं चास्य कल्पयेत्॥

4.12.18

कार्श्यकृद्बलिनामेष सन्नस्याग्नेः प्रसाधकः। शोफनुद्गुल्महृत् कुष्ठमेहपाण्ड्वामयापहः॥

4.12.19

प्लीहोदरहरः शीघ्रं विषमज्वरनाशनः। अभिष्यन्दापहरणो लोहारिष्टो महागुणः॥

4.12.20

प्रमेहिणो यदा मूत्रमपिच्छिलमनाविलम्। विशदं तिक्तकटुकं तदाआरोग्यं प्रचक्षते॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc