सुश्रुतसंहिता · अध्याय 2.9
अथातो विद्रधीनां निदानं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
सर्वामरगुरुः श्रीमान्निमित्तान्तरभूमिपः। शिष्यायोवाच निखिलमिदं विद्रधिलक्षणम्॥
त्वग्रक्तमांसमेदांसि प्रदूष्यास्थिसमाश्रिताः। दोषाः शोफं शनैर्घोरं जनयन्त्युच्छ्रिता भृशम्॥
महामूलं रुजावन्तं वृत्तं चा (वा)अप्यथवाआयतम्। तमाहुर्विद्रधिं धीरा विज्ञेयः स च षङ्विधः॥
पृथग्दोषैः समस्तैश्च क्षतेनाप्यसृजा तथा। षण्णामपि हि तेषां तु लक्षणं संप्रवक्ष्यते॥
कृष्णोऽरुणो वा परुषो भृशमत्यर्थवेदनः। चित्रोत्थानप्रपाकश्च विद्रधिर्वातसंभवः॥
पक्वोदुम्बरसङ्काशः श्यावो वा ज्वरदाहवान्। क्षिप्रोत्थानप्रपाकश्च विद्रधिः पित्तसंभवः॥
शरवसदृशः पाण्डुः शीतः स्तब्धोऽल्पवेदनः। चिरोत्थानप्रपाकश्च सकण्डुश्च कफोत्थितः॥
तनुपीतसिताश्चैषामास्रावाः क्रमशः स्मृताः। नानावर्णरुजास्रावो घाटालो विषमो महान्॥
विषमं पच्यते चापि विद्रधिः सान्निपातिकः। तैस्तैर्भावैरभिहते क्षते वापथ्यसेविनः॥
क्षतोष्मा वायुविसृतः सरक्तं पित्तमीरयेत्। ज्वरस्तृष्णा च दाहश्च जायते तस्य देहिनः॥
एष विद्रधिरागन्तुः पित्तविद्रधिलक्षणः। कृष्णस्फोटावृतः श्यावस्तीव्रदाहरुजाज्वरः॥
पित्तविद्रधिलिङ्गस्तु रक्तविद्रधिरुच्यते। उक्ता विद्रधयो ह्येते तेष्वसाध्यस्तु सर्वजः॥
आभ्यन्तरानतस्तूर्ध्वं विद्रधीन् परिचक्षते। गुर्वसात्म्यविरुद्धान्नशुष्कसंसृष्टभोजनात्॥
अतिव्यवायव्यायामवेगाघातविदाहिभिः। पृथक् संभूय वा दोषाः कुपिता गुल्मरूपिणम्॥
वल्मीकवत्समुन्नद्धमन्तः कुर्वन्ति विद्रधिम्। गुदे बस्तिमुखे नाभ्यां कुक्षौ वङ्क्षणयोस्तथा॥
वृक्कयोर्यकृति प्लीह्नि हृदये क्लोम्नि वा तथा। तेषां लिङ्गानि जानीयाद्बाह्यविद्रधिलक्षणैः॥
आमपक्वैषणीयाच्च पक्वापक्वं विनिर्दिशेत्। अधिष्ठानविशेषेण लिङ्गं शृणु विशेषतः॥
गुदे वातनिरोधस्तु बस्तौ कृच्छ्राल्पमूत्रता। नाभ्यां हिक्का तथाआटोपः कुक्षौ मारुतकोपनम्॥
कटीपृष्ठग्रहस्तीव्रो वङ्क्षणोत्थे तु विद्रधौ। वृक्कयोः पार्श्वसङ्कोचः प्लीह्न्युच्छ्वासावरोधनम्॥
सर्वाङ्गप्रग्रहस्तीव्रो हृदि शूलश्च दारुणः। श्वासो यकृति तृष्णा च पिपासा क्लोमजेऽधिका॥
आमो वा यदि वा पक्वो महान् वा यदि वेतरः। सर्वो मर्मोत्थितश्चापि विद्रधिः कष्ट उच्यते॥
नाभेरुपरिजाः पक्वा यान्त्यूर्ध्वमितरे त्वधः। जीवत्यधो निःस्रुतेषु स्रुतेषूर्ध्वं न जीवति॥
हृन्नाभिबस्तिवर्ज्या ये तेषु भिन्नेषु बाह्यतः। जीवेत् कदाचित् पुरुषो नेतरेषु कदाचन॥
स्त्रीणामपप्रजातानां प्रजातानां तथाहितैः। दाहज्वरकरो घोरो जायते रक्तविद्रधिः॥
अपि सम्यक्प्रजातानामसृक् कायादनिःसृतम्। रक्तजं विद्रधिं कुर्यात् कुक्सौ मक्कल्लसंज्ञितम्॥
सप्ताहान्नोपशान्तश्चेत्ततोऽसौ संप्रपच्यते। विशेषमथ वक्ष्यामि स्पष्टं विद्रधिगुल्मयोः॥
गुल्मदोषसमुत्थानद्विद्रधेर्गुल्मकस्य च। कस्मान्न पच्यते गुल्मो विद्रधिः पाकमेति च॥
न निबन्धोऽस्ति गुल्मानां विद्रधिः सनिबन्धनः। गुल्माकाराः स्वयं दोषा विद्रधिर्मांसशोणिते॥
विवरानुचरो ग्रन्थिरप्सु बुद्बुदको यथा। एवंप्रकारो गुल्मस्तु तस्मात् पाकं न गच्छति॥
मांसशोणितवाहुल्यात् पाकं गच्छति विद्रधिः। मांसशोणितहीनत्वाद्गुल्मः पाकं न गच्छति॥
गुल्मस्तिष्ठति दोषे स्वे विद्रधिर्मांसशोणिते। विद्रधिः पच्यते तस्माद् गुल्मश्चापि न पच्यते॥
हृन्नाभिबस्तिजः पक्वो वर्ज्यो यश्च त्रिदोषजः। अथ मज्जपरीपाको घोरः समुपजायते॥
सोऽस्थिमांसनिरोधेन द्वारं न लभते यदा। ततः स व्याधिना तेन ज्वलनेनेव दह्यते॥
अस्थि(थ) मज्जोष्मणा तेन शीर्यते दह्यमानवत्। विकारः शल्यभूतोऽयं क्लेशयेदातुरं चिरम्॥
अथास्य कर्मणा व्याधिर्द्वारं तु लभते यदा। ततो मेदःप्रमं स्निग्धं शुक्लं शीतमथो गुरु॥
भिन्नेऽस्थ्नि निःस्रवेत् पूयमेतदस्थिगतं विदुः। विद्रधिं शास्त्रकुशलाः सर्वदोषरुजावहम्॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0