भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 2.10

2.10.1

अथातो विसर्पनाडीस्तनरोगनिदानं व्याख्यास्यामः॥

2.10.2

यथोवाच भगवान् धन्वन्तरिः॥

2.10.3

त्वङ्मांसशोणितगताः कुपितास्तु दोषाः सर्वाङ्गसारिणमिहास्थितमात्मलिङ्गम्। कुर्वन्ति विस्तृतमनुन्नतमाशु शोफं तं सर्वतो विसरणाच्च विसर्पमाहुः॥

2.10.4

वातात्मकोऽसितमृदुः परुषोऽङ्गमर्दसंभेदतोदपवनज्वरलिङ्गयुक्तः। गण्डैर्यदा तु विषमैरतिदूषितत्वाद्युक्तः स एव कथितः खलु वर्जनीयः॥

2.10.5

पित्तात्मको द्रुतगतिर्ज्वरदाहपाकस्फोटप्रभेदबहुलः क्षतजप्रकाशः। दोषप्रवृद्धिहतमांससिरो यदा स्यात् स्रोतोजकर्दमनिभो न तदा स सिध्येत्॥

2.10.6

श्लेष्मात्मकः सरति मन्दमशीघ्रपाकः स्निग्धः सितश्वयथुरल्परुगुग्रहण्डुः। सर्वात्मकस्त्रिविधवर्णरुजोऽवगाढः पक्वो न सिध्यति च मांससिराप्रशातात्॥

2.10.7

सद्यःक्षतव्रणमुपेत्य नरस्य पित्तं रक्तं च दोषबहुलस्य करोति शोहम्। श्यावं सलोहितमतिज्वरदाहपाकं स्फोटैः कुलत्थसदृशैरसितैश्च कीर्णम्॥

2.10.8

सिध्यन्ति वातकफपित्तकृता विसर्पाः सर्वात्मकः क्षतकृतश्च न सिद्धिमेति। पैत्तानिलावपि च दर्शितपूर्वलिङ्गौ सर्वे च मर्मसु भवन्ति हि कृच्छ्रसाध्याः॥

2.10.9

शोफं न पक्वमिति पक्वमुपेक्षते यो यो वा व्रणं प्रचुरपूयमसाधुवृत्तः। अभ्यन्तरं प्रविशति प्रविदार्य तस्य स्थानानि पूर्वविहितानि ततः स पूयः॥

2.10.10

तस्यातिमात्रगमनाद्गतिरित्यतश्च नाडीव यद्वहति तेन मता तु नाडी। दोषैस्त्रिबिर्भवति सा पृथगेकशश्च संमूर्च्छितैरपि च शल्यनिमित्ततोऽन्या॥

2.10.11

तत्रानिलात् परुषसूक्ष्ममुखी सशूला फेनानुविद्धमधिकं स्रवति क्षपायाम्। तृट्तापतोदसदनज्वरभेदहेतुः पीतं स्रवत्यधिकमुष्णमहःसु पित्तात्॥

2.10.12

ज्ञेया कफाद्बहुघनार्जुनपिच्छिलास्रा रात्रिस्रुतिः स्तिमितरुक्कठिना सकण्डूः। दोषद्वयाभिहितलक्षणदर्शनेन तिस्रो गतीर्व्यतिकरप्रभवास्तु विद्यात्॥

2.10.13

दाहज्वरश्वसनमूर्च्छनवक्त्रशोषा यस्यां भवन्त्यभिहितानि च लक्षणानि। तामादिशेत् पवनपित्तकफप्रकोपाद्घोरामसुक्षयकरीमिव कालरात्रिम्॥

2.10.14

नष्टं कथंचिदनुमार्गमुदीरितेषु स्थानेषु शल्यमचिरेण गतिं करोति। सा फेनिलं मथितमच्छमसृग्विमिश्रमुष्णं स्रवेत सहसा सरुजा च नित्यम्॥

2.10.15

यावत्यो गतयो यैश्च कारणैः संभवन्ति हि। तावन्तः स्तनरोगाः स्युः स्त्रीणां तैरेव हेतुभिः॥

2.10.16

धमन्यः संवृतद्वाराः कन्यानां स्तनसंश्रिताः। दोषाविसरणात्तासां न भवन्ति स्तनामयाः॥

2.10.17

तासामेव प्रजातानां गर्भिणीनां च ताः पुनः। स्वभावादेव विवृता जायन्ते संभवन्त्यतः॥

2.10.18

रसप्रसादो मधुरः पक्वाहारनिमित्तजः। कृत्स्नदेहात् स्तनौ प्राप्तः स्तन्यमित्यभिधीयते॥

2.10.19

विशस्तेष्वपि गात्रेषु यथा शुक्रं न दृश्यते। सर्वदेहाश्रितत्वाच्च शुक्रलक्षणमुच्यते॥

2.10.20

तदेव चेष्टयुवतेर्दर्शनात् स्मरणादपि। शब्दसंश्रवणात् स्पर्शात् संहर्षाच्च प्रवर्तते॥

2.10.21

सुप्रसन्नं मनस्तत्र हर्षणे हेतुरुच्यते। आहाररसयोनित्वादेवं स्तन्यमपि स्त्रियाः॥

2.10.22

तदेवापत्यसंस्पर्शाद्दर्शनात् स्मरणादपि। ग्रहणाच्च शरीरस्य शुक्रवत् संप्रवर्तते॥

2.10.23

स्नेहो निरन्तरस्तत्र प्रस्रवे हेतुरुच्यते। तत् कषायं भवेद्वातात् क्षिप्तं च प्लवतेऽम्भसि॥

2.10.24

पित्तादम्लं सकटुकं राज्योऽम्भसि च पीतिकाः। कफाद्घनं पिच्छिलं च जले चाप्यवसीदति। सर्वैर्दुष्टैः सर्वलिङ्गमभिघाताच्च दुष्यति॥

2.10.25

यत् क्षीरमुदके क्षिप्तमेकीभवति पाण्डुरम्। मधुरं चाविवर्णं च प्रसन्नं तद्विनिर्दिशेत्॥

2.10.26

सक्षीरौ वाप्यदुग्धौ वा प्राप्य दोषः स्तनौ स्त्रियाः। रक्तं मांसं च सन्दूष्य स्तनरोगाय कल्पते॥

2.10.27

पञ्चानामपि तेषां तु हित्वा शोणितविद्रधिम्। लक्षणानि समानानि बाह्यविद्रधिलक्षणैः॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc