भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 2.14

2.14.1

अथातः शूकदोषनिदानं व्याख्यास्यामः॥

2.14.2

यथोवाच भगवान् धन्वन्तरिः॥

2.14.3

लिङ्गवृद्धिमिच्छतामक्रमप्रवृत्तानां शूकदोषनिमित्ता दश चाष्टौ च व्याधयो जायन्ते। तद्यथा सर्षपिका अष्ठीलिका ग्रथितं कुम्भीका अलजी मृदितं संमूढपिडका अवमन्थः पुष्करिका स्पर्शहानिः उत्तमा शतपोनकः त्वक्पाकः शोणितार्बुदं मांसार्बुदं मांसपाकः विद्रधिः तिलकालकश्चेति॥

2.14.4

गौरसर्षपतुल्या तु शूकदुर्भग्नहेतुका। पिडका कफरक्ताभ्यां ज्ञेया सर्षपिका बुधैः॥

2.14.5

कठिना विषमैरन्तैर्मारुतस्य प्रकोपतः। शूकैस्तु विषसंभुग्नैः पिडकाष्ठीलिका भवेत्॥

2.14.6

शूकैर्यत् पूरितं शश्वद्ग्रथितं तत् कफोत्थितम्। कुम्भीका रक्तपित्तोत्था जाम्बवास्थिनिभाशुभा॥

2.14.7

अलजीलक्षणैर्युक्तामलजीं च वितर्कयेत्। मृदितं पीडितं यत्तु संरब्धं वायुकोपतः॥

2.14.8

पाणिभ्यां भृशसंमूढे संमूढपिडका भवेत्। दीर्घा बह्व्यश्च पिडका दीर्यन्ते मध्यतस्तु याः॥

2.14.9

सोऽवमन्थः कफासृग्भ्यां वेदनारोमहर्षकृत्। पित्तशोणितसंभूता पिडका पिडकाचिता॥

2.14.10

पद्मपुष्करस्ंस्थाना ज्ञेया पुष्करिकेति सा। जनयेत् स्पर्शहानिं तु शोणितं शूकदूपितम्॥

2.14.11

मुद्गमाषोपमा रक्ता पिडका रक्तपित्तजा। उत्तमैषा तु विज्ञेया शूकाजीर्णनिमित्तजा॥

2.14.12

छिद्रैरणुमुखैर्वस्तु चितं यस्य समन्ततः। वातशोणितजो व्याधिर्विज्ञेयः शतपोनकः॥

2.14.13

पित्तरक्तकृतो ज्ञेयस्त्वक्पाको ज्वरदाहवान्। कृष्णैः स्फोटैः सरक्तैश्च पिडकाभिश्च पीडितम्। यस्य वस्तु रुजश्चोग्रा ज्ञेयं तच्छोणितार्बुदम्॥

2.14.14

मांसदोषेण जानीयादर्बुदं मांससंभवम्। शीर्यन्ते यस्य मांसानि यत्र सर्वाश्च वेदनाः॥

2.14.15

विद्यात्तं मांसपाकं तु सर्वदोषकृतं भिषक्। विद्रधिं सन्निपातेन यथोक्तमभिनिर्दिशेत्॥

2.14.16

कृष्णानि चित्राण्यथवा शूकानि सविषाणि च। पातितानि पचन्त्याशु मेढ्रं निरवशेषतः॥

2.14.17

कालानि भूत्वा मांसानि शीर्यन्ते यस्य देहिनः। सन्निपातसमुत्थानं तं विद्यात्तिलकालकम्॥

2.14.18

तत्र मांसार्बुदः यच्च मांसपाकश्च यः स्मृतः। विद्रधिश्च न सिध्यन्ति ये च स्युस्तिलकालकाः॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc