सुश्रुतसंहिता · अध्याय 2.13
अथातः क्षुद्ररोगाणां निदानं व्याख्यास्यामः॥
यथोवाच भगवान् धन्वन्तरिः॥
समासेन चतुश्चत्वारिंशत् क्षुद्ररोगा भवन्ति। तद्यथा अजगल्लिका यवप्रख्या अन्धालजी विवृता कच्छपिका वल्मीअकं इन्द्रवृद्धा पनसिका पाषाणगर्दभः जालगर्दभः कक्षा विस्फोटकः अग्निरोहिणी चिप्पं कुनखः अनुशयी विदारिका शर्करार्बुदं पामा विचर्चिका रकसा पाददारिका कदरं अलसेन्द्रलुप्तौ दारुणकः अरुंषिका पलितं मसूरिका यौवनपिडका पद्मिनीकण्टकः जतुमणिः मशकः चर्मकीलः तिलकालकः न्यच्छं व्यङ्गः परिवर्तिका अवपाटिका निरुद्धप्रकशः संनिरुद्धगुदः अहिपूतनं वृषणकच्छ्रः गुदभ्रंशश्चेति॥
स्निग्धा सवर्णा ग्रथिता नीरुजाअ मुद्रसन्निभा। कफवातोत्थिता ज्ञेया बालानामजगल्लिका॥
यवाकारा सुकठिना ग्रथिता मांससंश्रिता। पिडका श्लेष्मवाताभ्यां यवप्रख्येति सोच्यते॥
घनमवक्त्रां पिडकामुन्नतां परिमण्डलाम्। अन्धालजीमल्पपूयां तां विद्यात् कफवातजाम्॥
विवृतास्यां महादाहां पक्वोदुम्बरसन्निभाम्। विवृतामिति तां विद्यात् पित्तोत्थां परिमण्डलाम्॥
ग्रथिताः पञ्च वा षड्वा दारुणाः कच्छपोन्नताः। कफानिलाभ्यां पिडका ज्ञेया कच्छपिका बुधैः॥
पाणिपादतले सन्धौ ग्रीवायामूर्ध्वजत्रुणि। ग्रन्थिर्वल्मीकवद्यस्तु शनैः समुपचीयते॥
तोदक्लेदपरीदाहकण्डूमद्भिर्मुखैर्वृतः। व्याधिर्वल्मीक इत्येष कफपित्तानिलिद्भवः॥
पद्मापुष्करवन्मध्ये पिडकाभिः समाचिताम्। इन्द्रवृद्धां तु तां विद्याद्वातपित्तोत्थितां भिषक्॥
मण्डलं वृत्तमुत्सन्नं सरक्तं पिडकाचितम्। रुजाकरीं गदर्भिकां तां विद्याद्वातपित्तजाम्। कर्णौ परि समन्ताद्वा पृष्ठे वा पिडकोग्ररुक्। शालूकवत्पनसिकां तां विद्याच्छ्लेष्मवातजाम्॥
हनुसन्धौ समुद्भूतं शोफमल्परुजं स्थिरम्। पाषाणगर्दभं विद्याद्बलासपवनात्मकम्॥
विसर्पवत् सर्पति यो दाहज्वरकरस्तनुः। अपाकः श्वयथुः पित्तात् स ज्ञेयो जालगर्दभः॥
पिडिकामुत्तमाङ्गस्थां वृत्तामुग्ररुजाज्वराम्। सर्वात्मकां सर्वलिङ्गां जानीयादिरिवेल्लिकाम्॥
बाहुपार्श्वांसकक्षासु कृष्णस्फोटां सवेदनाम्। पित्तप्रकोपसंभूतां कक्षामिति विनिर्दिशेत्॥
एकामेवंविधां दृष्ट्वा पिटिकां स्फोटसन्निभाम्। त्वग्गतां पित्तकोपेन गन्धनामां प्रचक्षते॥
अग्निदग्धनिभाः स्फोटाः सज्वराः पित्तरक्ततः। क्वचित् सर्वत्र वा देहे स्मृता विस्फोटका इति॥
कक्षाभागेषु ये स्फोटा जायन्ते मांसदारु(र)णाः। अन्तर्दाहज्वरकरा दीप्तपावकसन्निभाः॥
सप्ताहाद्वा दशाहाद्वा पक्षाद्वा घ्नन्ति मानवम्। तामग्निरोहिणीं विद्यादसाध्यां सन्निपाततः॥
नखमांसमधिष्ठाय पित्तं वातश्च वेदनाम्। करोति दाहपाकौ च तं व्याधिं चिप्पमादिशेत्॥
तदेवाक्षतरोगाख्यं तथोपनखमित्यपि। अभिघातात् प्रदुष्टो यो नखो रूक्षोऽसितः खरः॥
भवेत्तं कुनखं विद्यात् कुलीनमिति संज्ञितम्। गम्भीरामल्पसंरम्भां सवर्णामुपरिस्थिताम्॥
कफादन्तःप्रपाकां तां विद्यादनुशयीं भिषक्। विदारीकन्दवद्वृत्तां कक्षावङ्क्षणसन्धिषु॥
रक्तां विदारिकां विद्यात् सर्वजां सर्वलक्षणाम्। प्राप्य मांससिरास्नायु श्लेष्मा मेदस्तथानिलः॥
ग्रन्थिं कुर्वन्ति भिन्नोऽसौ मधुसर्पिर्वसानिमम्। स्रवत्यास्रावमत्यर्थं तत्र वृद्धिं गतोऽनिलः॥
मांसं विशोष्य ग्रथितां शर्करां जनयेत् पुनः। दुर्गन्धं क्लिन्नमत्य्र्थं नानावर्णं ततः सिराः॥
स्रवन्ति सहसा रक्तं तद्विद्याच्छर्करार्बुदम्। पामाविचर्च्यौ कुष्ठेषु रकसा च प्रकीर्तिता॥
परिक्रमणशीलस्य वायुरत्यर्थरूक्षयोः। पादयोः कुरुते दारीं सरुजां तलसंश्रितः॥
शर्करोन्मथिते पादे क्षते वा कण्टकादिभिः। मेदोरक्तानुगैश्चैव दोषैर्वा जायते नृणाम्॥
सकीलकठिनो ग्रन्थिर्निम्नमध्योन्नतोऽपि वा। कोलमात्रः सरुक् स्रावी जायते कदरस्तु सः॥
क्लिन्नाङ्गुल्यन्तरौ पादौ कण्डूदाहरुगन्वितौ। दुष्टकर्दमसंस्पर्शादलसं तं विनिर्दिशेत्॥
रोमकूपानुगं पित्तं वातेन सह मूर्च्छितम्। प्रच्यावयति रोमाणि ततः श्लेष्मा सशोणितः॥
रुणद्धि रोमकूपांस्तु ततोऽन्येषामसंभवः। तदिन्द्रलुप्तं खालित्यं रुज्येति च विभाव्यते॥
दारुणा कण्डुरा रूक्षा केशभूमिः प्रपाट्यते। कफवातप्रकोपेण विद्याद्दारुणकं तु तम्॥
अरूंषि बहुवक्त्राणि बहुक्लेदीनि मूर्धनि। कफासृक्कृमिकोपेन नृणां विद्यादरुंषिकाम्॥
क्रोधशोकश्रमकृतः शरीरोष्मा शिरोगतः। पित्तं च केशान् पचति पलितं तेन जायते॥
दाहज्वररुजावन्तस्ताम्राः स्फोटाः सपीतकाः। गात्रेषु वदने चान्तर्विज्ञेयास्ता मसूरिकाः॥
शाल्मलीकण्टकप्रख्याः कफमारुतशोणितैः। जायन्ते पिडका यूनं वक्त्रे या मुखदूषिकाः॥
कण्टकैराचितं वृत्तं कण्डूमत् पाण्डुमण्डलम्। पद्मिनीकण्टकप्रख्यैस्तदाख्यं कफवातजम्॥
नीरुजं सममुत्सन्नं मण्डलं कफरक्तजम्। सहजं रक्तमीषच्च श्लक्ष्णं जतुमणिं विदुः॥
अवेदनं स्थिरं चैव यस्य गात्रेषु दृश्यते। माषवत्कृष्णमुत्सन्नमनिलान्मषकं वदेत्॥
कृष्णानि तिलमात्राणि नीरुजानि समानि च। वातपित्तकफोच्छोषात्तान् विद्यात्तिलकालकान्॥
मण्डलं महदल्पं वा यदि वा सितम्। सहजं नीरुजं गात्रे न्यच्छमित्यभिधीयते॥
समुत्थाननिदानाभ्यां चर्मकीलं प्रकीर्तितम्। क्रोधायासप्रकुपितो वायुः पित्तेन संयुतः॥
सहसा मुखमागत्य मण्डलं विसृजत्यतः। नीरुजं तनुकं श्यावं मुखे व्यङ्गं तमादिशेत्॥
कृष्णमेवंगुणं गात्रे मुखे वा नीलिकां विदुः। मर्दनात् पीडनाच्चाति तथैवाप्यभिघाततः। मेढ्रचर्म यदा वायुर्भजते सर्वतश्चरः॥
तदा वातोपसृष्टं तु चर्म प्रतिनिवर्तते। मणेरधस्तात् कोशश्च ग्रन्थिरूपेण लम्बते॥
सवेदनः सदाहश्च पाकं च व्रजति क्वचित्। मारुतागन्तुसंभूतां विद्यात्तां प्रिवर्तिकाम्॥
सकण्डूः कठिना चापि सैव श्लेष्मसमुत्थिता। अल्पीयःखां यदा हर्षाद्बालां गच्छेत् स्त्रियं नरः॥
हस्ताभिघातादथवा चर्मण्युद्वर्तिते बलात्। मर्दनात्पीडनाद्वापि शुक्रवेगविघाततः॥
यस्यावपाठ्यते चर्म तां विद्यादवपाटिकाम्। वातोपसृष्टमेवं तु चर्म संश्रयते मणिम्॥
मणिश्चर्मोपनद्धस्तु मूत्रस्रोतो रुणद्धि च। निरुद्धप्रकशे तस्मिन्मन्दघारमवेदनम्॥
मूत्रं प्रवर्तते जन्तोर्मणिर्न च विदीर्यते। निरुद्धप्रकशं विद्याद्दुरूढां चावपाटिकाम्॥
वेगसंघारणाद्वायुर्विहतो गुदमाश्रितः। निरुणद्धि महत्स्रोतः सूक्ष्मद्वारं करोति च॥
मार्गस्य सौक्ष्म्यात् कृच्छ्रेण पुरीषं तस्य गच्छति। सन्निरुद्धगुदं व्याधिमेनं विद्यात् सुदुस्तरम्॥
शकृन्मूत्रसमायुक्तेऽधौतेऽपाने शिशोर्भवेत्। स्विन्नस्यास्नाप्यमानस्य कण्डू रक्तकफोद्भवा॥
कण्डूयनात्ततः क्षिप्रं स्फोटाः स्रावश्च जायते। एकीभूतं व्रणैर्घोरं तं विद्यादहिपूतनम्॥
स्नानोत्सादनहीनस्य मलो वृष्णसंश्रितः। यदा प्रक्लिद्यते स्वेदात् कण्डूं संजनयेत्तदा॥
तत्र कण्डूयनात् क्षिप्रं स्फोटाः स्रावश्च जायते। प्राहुर्वृषणकच्छूं तां श्लेष्मरक्तप्रकोपजाम्॥
प्रवाहणातिसाराभ्यां निर्गच्छति गुदं बहिः। रूक्षदुर्बलदेहस्य तं गुदभ्रंशमादिशेत्॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0