भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 1.9

1.9.1

अथातो योग्यासूत्रीयमध्यायं व्याख्यास्यामः ॥

1.9.2

यथोवाच भगवान् धन्वन्तरिः ॥

1.9.3

अधिगतसर्वशास्त्रार्थमपि शिष्यं योग्यां कारयेत् । स्नेहादिषु छेद्यादीषु च कर्मपथमुपदिशेत् । सुबहुश्रुतोऽप्यकृतयोग्यः कर्मस्वयोग्यो भवति ॥

1.9.4

तत्र पुष्पफलालाबूकालिन्दकत्रपुसै(आ.सो)र्वारुकर्कारुकप्रभृतिषु छेद्यविशेषान् दर्शयेत् उत्कर्तनपरिकर्तनानि चोपदिशेत् दृतिबस्तिप्रसेवकप्रभृतिषूदकपङ्कपूर्णेषु भेद्ययोग्यां सरोम्णि चर्मण्यातते लेख्यस्य मृतपशुसिरासूत्पलनालेषु च वेध्यस्य घुणोपहतकाष्ठवेणुनलनालीशुष्कालाबूमुखेष्वेष्यस्य पनसबिम्बीबिल्वफलमज्जमृतपशुदन्तेष्वाहार्यस्य मधूच्छिष्टोपलिप्ते शाल्मलीफलके विस्राव्यस्य सूक्ष्मघनवस्त्रान्तयोर्मृदुचर्मान्तयोश्च सीव्यस्य पुस्तमयपुरुशाङ्गप्रत्यङ्गविशेषेषु बन्धनयोग्यां मृदुचर्ममांसपेशीषूत्पलनालेषु च कर्णसन्धिबन्धयोग्यां मृदुषु मांसखण्डेष्वग्निक्षारयोग्यां उदकपूणघटपार्श्वस्रोतस्यलाबूमुखादिषु च नेत्रप्रणिधानबस्तिव्रणबस्तिपीडनयोग्यामिति ॥

1.9.5

भवतश्चात्र ।

1.9.5

एवमादिषु मेधावी योग्यार्हेषु यथाविधि ।

1.9.5

द्रव्येषु योग्यां कुर्वाणो न प्रमुह्यति कर्मसु ॥

1.9.6

तस्मात् कौशलमन्विच्छन् शस्त्रक्षाराग्निकर्मसु ।

1.9.6

यस्य यत्रेह साधर्म्यं तत्र योग्यां समाचरेत् ॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc