भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 1.8

1.8.1

अथातः शस्त्रावचारणीयमध्यायं व्याख्यास्यामः ॥

1.8.2

यथोवाच भगवान् धन्वन्तरिः ॥

1.8.3

विंशतिः शास्त्राणि तद्यथा मण्डलाग्रकरपत्रवृद्धिपत्रनखशस्त्रमुद्रिकोत्पलपत्रकार्धधारसूचीकुशपत्राटीमुखशरारिमौखान्तर्मुखत्रिकूर्चककुठारिकाव्रीहिमुखारावेतसपत्रकबडिशदन्तशङ्क्वेषण्य इति ॥

1.8.4

तत्र मण्डलाग्रकरपत्रे स्यातां छेदने लेखने च वृद्धिपत्रनखशस्त्रमुद्रिकोत्पलपत्रकार्धधाराणि छेदने भेदने च सूचीकुशपत्राटीमुखशरारिमुखान्तर्मुखत्रिकूर्चकानि विस्रावणे कुठारिकाव्रीहिमुखारावेतसपत्रकाणि व्यधने सूची च बडिशं दन्तशङ्कुश्चाहरणे एषण्येषणे आनुलोभ्ये च सूच्यः सीवने इत्यष्टविधे कर्मण्युपयोगः शस्त्राणां व्याक्ख्यातः ॥

1.8.5

तेषमथ यथायोगं ग्रहणसमासोपायः कर्मसुवक्ष्यते तत्र वृद्धिपत्रं वृन्तफलसाधारणे भागे गृह्णीयाद्भेदनान्येवं सर्वाणि वृद्धिपत्रं मण्डलाग्रं च किंचिदुत्तानेन पाणिना लेखने बहुशोऽवचार्यं वृन्ताग्रे विस्रावणानि विशेषेण तु बालवृद्धसुकुमारभीरुनारीणां राज्ञां राजपुत्राणां च त्रिकूर्चकेन विस्रावयेत् तलप्रच्छादितवृन्तमङ्गुष्ठप्रदेशिनीभ्यां व्रीहिमुखं कुठारिकां वामहस्तन्यस्तामितरहस्तमध्यमाङ्गुल्याङ्गुष्ठविष्टब्धयाभिहन्यात् आराकरपत्रैषण्यो मूले शेषाणि तु यथायोगं कृह्णीयात् ॥

1.8.6

तेषां नामभिरेवाकृतयः प्रायेण व्याख्याताः ॥

1.8.7

तत्र नखशस्त्रैषण्यावष्टाङ्गुले सूच्यो वक्ष्यन्ते ( प्रदेशिन्यग्रपर्वप्रदेशप्रमाणा मुद्रिका दशाङ्गुला शरारिमुखी सा च कर्तरीति कथ्यते ।) शेषाणि तु षडङ्गुलानि ॥

1.8.8

तानि सुग्रहाणि सुलोहानि सुधाराणि सुरूपाणि सुसमाहितमुखाग्राणि अकरालानि चेति शस्त्रसंपत् ॥

1.8.9

तत्र वक्रं कुण्ठं खण्डं खरधारं अतिस्थूलं अतितुच्छं अतिदीर्घं अतिह्रस्वं इत्यष्टौ शस्त्रदोषाः । अतो विपरीतगुणमाददीत अन्यत्र करपत्रात् तद्धि खरधारमस्थिच्छेदनार्थम्॥

1.8.10

तत्र धारा भेदनानां मासूरी लेखनानामर्धमासूरी व्यधनानां विस्रावणानां च कैशिकी छेदनानामर्धकैशिकीति ॥

1.8.11

बडिशं दन्तशङ्कुश्चानताग्रे । तीक्ष्णकण्टकप्रथमयवपत्रमुख्येषणी ( गण्डूपदाकारमुखी च ) ॥

1.8.12

तेषां पायना त्रिविधा क्शारोदकतैलेषु । तत्र क्षारपायितं शरशल्यास्थिच्छेदनेषु उदकपायितं मांसच्छेदनभेदनपाटनेषु तैलपायितं सिराव्यधनस्नायुच्छेदनेषु ॥

1.8.13

तेषां निशानार्थं श्लक्ष्णशिला माषवर्णा धारासंस्थापनार्थं शाल्मलीफलकमिति ॥

1.8.14

भवति चात्र ।

1.8.14

यदा सुनिशितं शस्त्रं रोमच्छेदि सुसंस्थितम् ।

1.8.14

सुगृहीतं प्रमाणेन तदा कर्मसु योजयेत् ॥

1.8.15

अनुशस्त्राणि तु त्वक्सारस्फटिककाचकुरुविन्दजलौकोग्निक्षारनखगोजीशेफालिकाशाकपत्रकरीरबालाङ्गुलय इति ॥

1.8.16

शिषूनां शस्त्रभीरूणां शस्त्राभावे च योजयेत् ।

1.8.16

त्वक्सारादिचतुर्वर्गं छेद्ये च बुद्धिमान् ॥

1.8.17

आहार्यच्छेद्यभेद्येषु नखं शक्येषु योजयेत् ।

1.8.17

विधिः प्रवक्ष्यते पश्चात् क्षारवह्निजलौकसाम् ॥

1.8.18

ये स्युर्मुखगता रोगा नेत्रवर्त्मगताश्च ये ।

1.8.18

गोजीशेफालिकाशाकपत्रैर्विस्रावयेत्तु तान् ॥

1.8.19

एष्येष्वेषण्यलाभे तु बालाङ्गुल्यङ्कुरा हिताः ।

1.8.19

शस्त्राण्येतानि मतिमान् शुद्धशैक्यायसानि तु ।

1.8.19

कारयेत् करणप्राप्तं कर्मारं कर्मकोविदम् ॥

1.8.20

प्रयोगज्ञस्य वैद्यस्य सिद्धिर्भवति नित्यशः ।

1.8.20

तस्मात् परिचयं कुर्याच्छस्त्राणां ग्रहणे सदा ॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc