भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 1.43

1.43.1

अथातो वमनद्रव्यविकल्पविज्ञानीयमध्यायं व्याख्यास्यामः ॥

1.43.2

यथोवाच भगवान् धन्वन्तरिः ॥

1.43.3

वमनद्रव्याणां फलादीनां मदनफलानि श्रेष्ठतमानि भवन्ति । अथ मदनपुष्पाणामातपपरिशुष्काणां चूर्णप्रकुञ्चं प्रत्यक्पुष्पासदापुष्पीनिम्बकषायाणामन्यतमेनालोड्य मधुसैन्धवयुक्तां पुष्पचूर्णमात्रां पाययित्वा वामयेत् । मदनशलाटुचूर्णान्येवं वा बकुलरम्यकोपयुक्तानि मधुलवणयुक्तान्यभिप्रतप्तानि मदनशलाटुचूर्णसिद्धां वा तिलतण्डुलयवागूम् । निर्वृत्तानां वा नातिहरितपाण्डूनां कुशमूढावबद्धमृद्गोमयप्रलिप्तानां यवतुषमुद्गमाषशाल्यादिधान्यराशावष्टरात्रोषितक्लिन्नभिन्नानां फलानां फलपिप्पलीरुद्धृत्यातपे शोषयेत् तासां दधिमधुपललविमृदितपरिशुष्काणां सुभाजनस्थानामन्तर्नखमुष्टिमुष्णे यष्टीमधुककषाये कोविदारादीनामन्यतमे वा कषाये प्रमृद्य रात्रिपर्युषितं मधुसैन्धवयुक्तमाशीर्भिरभिमन्त्रितमुदङ्नुखः प्राङ्नुखमातुरं पाययेदनेन मन्त्रेणाभिमन्त्र्य ---

1.43.4

जीमूतककुसुमचूर्णं पूर्ववदेव क्षीरेण निर्वृत्तेषु क्षीरयवागूं रोमशेषु सन्तानिकां अरोमशेषु दध्युत्तरं हरितपाण्डुषु दधि तत्कषायसंसृष्टां वा सुरां कफारोचककासश्वासपाण्डुरोगयक्ष्मसु पर्यागतेषु मदनफलमज्जवदुपयोगः ॥

1.43.5

तद्वदेव कुटजफलविधानम् ॥

1.43.6

कृतवेधनानामप्येष एव कल्पः ॥

1.43.7

इक्ष्वाकुकुसुमचूर्णं वा पूर्ववत् एवं क्षीरेण कासश्वासच्छर्दिकफरोगेषूपयोगः ॥

1.43.8

धामार्गवस्यापि मदनफलमज्जवदुपयोगो विशेषतस्तु गरगुल्मोदरकासश्वासश्लेष्मामयेषु वायौ च कफस्थानगते ॥

1.43.9

कृतवेधनफलपिप्पलीनां वमनद्रव्यकषायपरिपीतानां बहुशश्चूर्णमुत्पलादिषु दत्तमाघ्रातं वामयति तत्त्वनवबद्धदोषेषु यवागूमाकण्ठात्पीतवत्सु च विदध्यात् । वमनविरेचनशिरोविरेचनद्रव्याण्येवं वा प्रधानतमानि भवन्ति ॥

1.43.10

भवतश्चात्र ।

1.43.10

वमनद्रव्ययोगाणां दिगियं संप्रकीर्तिता ।

1.43.10

तां विभज्य यथाव्याधि कालशक्तिविनिश्चयात् ॥

1.43.11

कषायैः स्वरसैः कल्कैश्चूर्णैरपि च बुद्धिमान् ।

1.43.11

पेयलेह्याद्यभोज्येषु वमनान्युपकल्पयेत् ॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc