सुश्रुतसंहिता · अध्याय 1.41
अथातो द्रव्यविशेषविज्ञानीयमध्यायं व्याख्यास्यामः ॥
यथोवाच भगवान् धन्वन्तरिः ॥
तत्र पृथिव्यप्तेजोवाय्वाकाशानां समुदायाद्द्रव्याभिनिर्वृत्तिः उत्कर्षस्त्वभिव्याज्ञ्जलो भवति इदं पार्थिवमिदमाप्यमिदं तैजसमिदं वायव्यमिदमाकाशीयमिति ॥
अनेन निदर्शनेन नानौषधीभूतं जगति किंचिद्द्रव्यमस्तीति कृत्वा तं तं युक्तिविशेषमर्थं चाभिसमीक्ष्य स्ववीर्यगुणयुक्तानि द्रव्याणि कार्मुकाणि भवन्ति । तानि यदा कुर्वन्ति स कालः यत्कुर्वन्ति तत्कर्म येन कुर्वन्ति तद्वीर्यं यत्र कुर्वन्ति तदधिकरनं यथा कुर्वन्ति स उपायः यन्निष्पादयन्ति तत् फलमिति ॥
तत्र विरेचनद्रव्याणि पृथिव्यम्बुगुणभूयिष्ठानि पृथिव्यापो गुर्व्यस्ता गुरुत्वादधो गच्छन्ति तस्माद्विरेचनमधोगुणभूयिष्ठमनुमानात् वमनद्रव्याण्यग्निवायुगुणभूयिष्ठानि अग्निवायू हि लघू लघुत्वाच्च तान्यूर्ध्वमुत्तिष्ठन्ति तस्माद्वमनमप्यूर्ध्वगुणभूयिष्ठम् उभयगुणभूयिष्ठमुभ्यतोभागम् आकाशगुणभूयिष्ठं संशमनं सांग्राहिकमनिलगुणभूयिष्ठम् अनिलस्य शोषणात्मकत्वात् दीपनमग्निगुणभूयिष्ठं ( तत्समानत्वात् ) लेखनमनिलानलगुणभूयिष्ठं बृंहणं पृथिव्यम्बुगुणभूयिष्ठम् एवमौषधकर्माण्यनुमानात्साधयेत् ॥
भवन्ति चात्र ।
भूतेजोवारिजैर्द्रव्यैः शमं याति समीरणः ।
भूम्यम्बुवायुजैः पित्तं क्षिप्रमाप्नोति निर्वृतिम् ॥
खतेजोनिलजैः श्लेष्मा शममेति शरीरिणाम् ।
वियत्पवनजाताभ्यां वृद्धिमाप्नोति मारुतः ॥
आग्नेयमेव यद्द्रव्यं तेन पित्तमुदीर्यते ।
वसुधाजलजाताभ्यां बलासः परिवर्धते ॥
एवमेतद्गुणाधिक्यं द्रव्ये द्रव्ये विनिश्चितम् ।
द्विशो वा बहुशो वापि ज्ञात्वा दोषेषु चाचरेत् ॥
तत्र य इमे गुणा वीर्यसंज्ञकाः शीतोष्णस्निग्धरूक्षमृदुतीक्ष्णपिच्छिलविशदास्तेषां तीक्ष्णोष्णावाग्नेयौ शीतपिच्छिलावम्बुगुणभूयिष्ठौ पृथिव्यम्बुगुणभूयिष्ठः स्नेहः तोयाकाशगुणभूयिष्ठं मृदुत्वं वायुगुणभूयिष्ठं रौक्ष्यं क्षितिसमीरणगुणभूयिष्ठं वैशद्यं गुरुलघुविपाकावुक्तगुणौ तत्र उष्णस्निग्धौ वातघ्नौ शीतमृदुपिच्छिलाः पित्तघ्नाः तीक्ष्नरूक्षविशदाः श्लेष्मघ्नाः गुरुपाको वातपित्तघ्नः लघुपाकः श्लेष्मघ्नः तेषां मृदुशीतोष्णाः स्पर्शग्राह्याः पिच्छलविशदौ चक्षुःस्पर्शाभ्यां स्निग्धरूक्षौ चक्षुषा तीक्ष्णो मुखदुःखोत्पादनात् गुरुपाकः सृष्टविण्मूत्रतया कफोत्क्लेशेन च लघुर्बद्धविण्मूत्रतया मारुतकोपेन च । तत्र तुल्यगुणेषु भूतेषु रसवैशेष्यमुपलक्षयेत् तद्यथा मधुरो गुरुश्च पार्थिवः मधुरः स्निग्धश्चाप्य इति ॥
भवति चात्र ।
गुणा य उक्ता द्रव्येषु शरीरेष्वपि ते तथा ।
स्थानवृद्धिक्षयास्तस्माद्देहिनां द्रव्यहेतुकाः ॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0