सुश्रुतसंहिता · अध्याय 1.40
अथातो द्रव्यरसगुणवीर्यविपाकविज्ञानीयमध्यायं व्याख्यास्यामः ॥
यथोवाच भगवान् धन्वन्तरिः ॥
केचिदाचार्या ब्रुवते द्रव्यं प्रधानं कस्मात् व्यवस्थितत्वात् इह खलु द्रव्यं व्यवस्थितं न रसादयः यथा आमे फले ये रसादयस्ते पक्वे न सन्ति नित्यत्वाच्च नित्यं हि द्रव्यमनित्या गुणाः यथा कल्कादिप्रविभागः स एव संपन्नरसगन्धो व्यापन्नरसगन्धो वा भवति स्वजात्यवस्थानाच्च यथा हि पार्थिवं द्रव्यमन्यभावं न गच्छत्येवं शेषाणि पञ्चेन्द्रियग्रहणाच्च पञ्चभिरिन्द्रियैर्गृह्यते द्रव्यं न रसादयः आश्रयतवाच्च द्रव्यमाश्रिता रसादयो भवन्ति आरम्भसामर्थ्याच्च द्रव्याश्रित आरम्भः यथा विदारिगन्धादिमाहृत्य संक्षुद्य विपचेदित्येवमादिषु न रसादिष्वारम्भः शास्त्रप्रामाण्याच्च शास्त्रे हि द्रव्यं प्रधानमुपदेशे हि योगानां यथा मातुलुङ्गाग्निमन्थौ चेत्यादौ न रसादय उपदिश्यन्ते क्रमापेक्षितत्वाच्च रसादीनां रसादयो हि द्रव्यक्रममपेक्षन्ते यथा तरुणे तरुणाः संपूर्णे संपूर्णा इति एकदेशसाध्यत्वाच्च द्रव्याणामेकदेशेनापि व्याधयः साध्यन्ते यथा महावृक्षक्षीरेणेति तस्माद्द्रव्यं प्रधानम् । द्रव्यलक्षणं तु क्रियागुणवत् समवायिकारणम् इति ॥
नेत्याहुरन्ये रसास्तु प्रधानं कस्मात् आगमात् आगमो हि शास्त्रमुच्यते शास्त्रे हि रसा अधिकृताः यथा रसायत्त आहार इति तस्मिंश्च प्राणाः उपदेशाच्च उपदिश्यन्ते हि रसाः यथा मधुराम्ललवणा वातं शमयन्ति अनुमानाच्च रसेन ह्यनुमीयते द्रव्यं यथा मधुरमिति ऋषिवचनाच्च ऋषिवचनं वेदो यथा किंचिदिज्यार्थं मधुरमाहरेदिति तस्माद्रसाः प्रधानं रसेषु गुणसंज्ञा । रसलक्षणमन्यत्रोपदेक्ष्यामः ॥
नेत्याहुरन्ये वीर्यं प्रधानमिति । कस्मात् तद्वशेनौषधकर्मनिष्पत्तेः । इहौषधकर्माण्यूर्ध्वाधोभागोभयभागसंशोधनसंशमनसंग्राहकाग्निदीपनपीडनलेखनबृंहणरसायनवाजीकरणश्वयथुकरविलयनदहनदारणमादनप्राणघ्नविषप्रशमनानि वीर्यप्राधान्याद्भवन्ति । तच्च वीर्यं द्विविधमुष्णं शीतं च अग्नीषोमीयत्वाज्जगतः । केचिदष्टविधमाहुः शीतमुष्णं स्निग्धं रूक्षं विशदं पिच्चिलं मृदु तीक्ष्णं चेति । एतानि वीर्याणि स्वबलगुणोत्कर्षाद्रसमभिभूयात्मकर्म कुर्वन्ति । यथा तावन्महत्पञ्चमूलं कषायं तिक्तानुरसं वातं शमयति उष्णवीर्यत्वात् तथा कुलत्थाः कषायः कटुकः पलाण्डुः स्नेहभावाच्च मधुरश्चेक्षुरसो वातं वर्धयति शीतवीर्यत्वात् कटुका पिप्पली पित्तं शमयति मृदुशीतवीर्यत्वात् अम्लमामलकं लवणं सैधवं च तिक्ता काकमाची पित्तं वर्धयति उष्णवीर्यत्वात् मधुरा मत्स्याश्च कटुकं मूलकं श्लेष्माणं शमयति रूक्षवीर्यत्वात् मधुरं क्षौद्रं च तदेतन्निदर्शनमात्रमुक्तम् ॥
भवन्ति चात्र ।
ये रसा वातशमना भवन्ति यदि तेषु वै ।
रौक्ष्यलाघवशैत्यानि न ते हन्युः समीरणम् ॥
ये रसाः पित्तशमना भवन्ति यदि तेषु वै ।
तैक्ष्ण्यौष्ण्यलघुताश्चैव न ते तत्कर्मकारिणः ॥
ये रसाः श्लेष्मशमना भवन्ति यदि तेषु वै ।
स्नेहगौरवशैत्यानि न ते तत्कर्मकारिणः ॥
तस्माद्वीर्यं प्रधानमिति ॥
नेत्याहुरन्ये विपाकः प्रधानमिति । कस्मात् सम्यङ्निथ्याविपाकत्वात् इह सर्वद्रवाण्य्{ओ.व्याण्य्}अभ्यवहृतानि सम्यङ्निथ्याविपक्वानि गुणं दोषं वा जनयन्ति । तत्राहुरन्ये प्रति रसं पाक इति । केचित्त्रिविधमिच्छन्ति मधुरमम्लं कटुकं चेति । तत्तु न सम्यक् भूतगुणादामाच्चान्योऽम्लो विपाको नास्ति पित्तं हि विदग्धमम्लतामुपैत्यग्नेर्मन्दत्वात् यद्येवं लवणोऽप्यन्यः पाको भविष्यन्ति श्लेष्मा हि विदग्धो लवणतामुपैतीति । मधुरो मधुरस्याम्लोऽम्लस्यैवं सर्वेषामिति केचिदाहुः दृष्टान्तं चोपदिशन्ति यथा तावत् क्षीरमुखागतं पच्यमानं मधुरमेव स्यात्तथा शालियवमुद्गादयः प्रकीर्णाः स्वभावमुत्तरकालेऽपि न परित्यजन्ति तद्वदिति । केचिद्वदन्ति अबलवन्तो बलवतां वशमायान्तीति । एवमनवस्थितिः तस्मादसिद्धान्त एषः । आगमे हि द्विविध एव पाको मधुरः कटुकश्च । तयोर्मधुराख्यो गुरुः कटुकाख्यो लघुरिति । तत्र पृथिव्यप्तेजोवाय्वाकाशानां द्वैविध्यं भवति गुणसाधर्म्याद्गुरुता लघुता च पृथिव्यापश्च गुर्व्यः शेषाणि लघूनि तस्माद्द्विविध एव पाक इति ॥
भवन्ति चात्र ।
द्रव्येषु पच्यमानेषु येष्वम्बुपृथिवीगुणाः ।
निर्वर्तन्तेऽधिकास्तत्र पाको मधुर उच्यते ॥
तेजोऽनिलाकाशगुणाः पच्यमानेषु येषु तु ।
निर्वर्तन्तेऽधिकास्तत्र पाकः कटुक उच्यते ॥
पृथक्त्वदर्शिनामेष वादिनां वादसंग्रहः ।
चत्रुणामपि सामग्र्यमिच्छन्त्यत्र विपश्चितः ॥
तद्द्रव्यमात्मना किंचित्किंचिद्वीर्येण सेवितम् ।
किंचिद्रसविपाकाभ्यां दोषं हन्ति करोति वा ॥
पाको नास्ति विना वीर्याद्वीर्यं नास्ति विना रसात् ।
रसो नास्ति विना द्रव्याद्द्रव्यं श्रेष्ठतं स्मृतम् ॥
जन्म तु द्रव्यरसयोरन्योन्यापेक्षिकं स्मृतम् ।
अन्योन्यापेक्षिकं जन्म यथा स्याद्देहदेहिनोः ॥
वीर्यसंज्ञा गुणा येऽष्टौ तेऽपि द्रव्याश्रयाः स्मृताः ।
रसेषु न भवन्त्येते निर्गुणास्तु गुणाः स्मृताः ॥
द्रव्ये द्रव्याणि यस्माद्धि विपच्यन्ते न षड्रसाः ।
श्रेष्ठं द्रव्यमतो ज्ञेयं शेषा भावास्तदाश्रयाः ॥
अमीमांस्यान्यचिन्त्यानि प्रसिद्धानि स्वभावतः ।
आगमेनोपयोज्यानि भेषजानि विचक्षणैः ॥
प्रत्यक्षलक्षणफलाः प्रसिद्धाश्च स्वभावतः ।
नौषधीर्हेतुभिर्विद्वान् परीक्षेत कथं(आ.दा)चन ॥
सहस्रोणापि हेतूनां नाम्बष्ठादिर्विरेचयेत् ।
तस्मात्तिष्ठेत्तु मतिमानागमे न तु हेतुषु ॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0