सुश्रुतसंहिता · अध्याय 1.39
अथातः संशोधनसंशमनीयमध्यायं व्याख्यास्यामः ॥
यथोवाच भगवान् धन्वन्तरिः ॥
मदनकुटजजीमूतकेक्ष्वाकुधामार्गवकृतवेधनसर्षपविडङ्गपिप्पलीकरञ्जप्रपुन्नाडकोविदारकर्बुदारारिष्टाश्वगन्धाविदुलबन्धुजीवकश्वेताशणपुष्पीबिम्बीवचामृगेर्वारुश्चित्रा चेत्यूर्ध्वभागहराणि । तत्र कोविदारपूर्वाणां फलानि कोविदारादीनां मूलानि ॥
विवृताश्यामादन्तीद्रवन्तीसप्तलाशङ्खिनीविषाणिकागवाक्षीच्छगलान्त्रीस्रुक्सुवर्णक्षीरीचित्रककिणिहीकुशकाशतिल्वककम्पिल्लकरम्यकपाटलापूगहरीतक्यामलकबिभीतकनीलिनीचतुरङ्गुलैरण्डपूतीकमहावृक्षसप्तच्छदार्का ज्योतिष्मती चेत्यधोभागहराणि । तत्र तिल्वकपूर्वाणां मूलानि तिल्वकादीनां पाटलान्तानां त्वचः कम्पिल्लकफलरजः पूगादीनामेरण्डान्तानां फलानि पूतीकारग्वधयोः पत्राणि शेषाणां क्षीराणीति ॥
कोषातकी सप्तला शङ्खिनी देवदाली कारवेल्लिका चेत्युभयतोभागहराणि । एषां स्वरसा इति ॥
पिप्पलीविडङ्गापामार्गशिग्रुसिद्धार्थकशिरीषमरिचकरवीरबिम्बीगिरिकर्णिकाकिणिहीवचाज्योतिष्मतीकरञ्जार्कालर्कलशुनातिविषाशृङ्गवेरतालीशतमालसुरसार्जकेङ्गुदीमेषशृङ्गुकीमेषशृङ्गीमातुलुङ्गीसुरङ्गीपीलुजातीशालतालमधूकलाक्षाहिङ्गुलवणमद्यगोशकृद्रसमूत्राणीति शिरोविरेचनानि । तत्र करवीरपूर्वाणां फलानि करवीरादीनामर्कान्तानां मूलानि तालीशपूर्वाणां कन्दाः तालीशादीनामर्जकान्तानां पताणि इङ्गुकीमेषशृङ्ग्योस्तवचः मातुलुङ्गीसुरङ्गीपीलुजातीनां पूस्पाणि शालतालमधूकानां साराः हिङ्गुलाक्षे निर्यासौ लवणानि पार्थिवविशेषाः मद्यान्यासुतसंयोगाः शकृद्रसमूत्रे मलाविति ॥
संशमनान्यत ऊर्ध्वं वक्ष्यामः तत्र भद्रदारुकुष्ठहरिद्रावरुणमेषश्र्ङ्गीबलातिबलार्तगलकच्छुरासल्लकीकुबेराक्षीवीरतरुसहचराग्निमन्थवत्सादन्येरण्डाश्मभेदकालर्कार्कशतावरीपुनर्नवावसुकवशिरकाञ्चनकभार्गीकार्पासीवृश्चिकालीपत्तूरबदरयवकोलकुलत्थप्रभृतीनि विदारिगन्धादिश्च द्वे चाद्ये पञ्चमूल्यौ समसेन वातसंशमनो वर्गः ॥
चन्दनकुचन्दनह्रीवेरोशीरमञ्जिष्ठापयस्यादिदारीशतावरीगुन्द्राशैवलकह्लारकुमुदोत्पलकन्द(आ.द)लीदूर्वामूर्वाप्रभृतीनि काकोल्यादिः सारिवादिरञ्जनादिरुत्पलादिर्न्यग्रोधादिस्तृणपञ्चमूलमिति समासेन पित्तसंशमनो वर्गः ॥
कालेयकागुरुतिलपर्णीकुष्ठहरिद्राशीतशिवशतपुष्पासरलारास्नाप्रकीर्योदकीर्येङ्गुदीसुमनःकाकादनीलाङ्गलकीहस्तिकर्णमुञ्जातकलामज्जकप्रभृतीनि वल्लीकण्टकपञ्चमूल्यौ पिप्पल्यादिर्बृहत्यादिर्मुष्ककादिर्वचादिः सुरसादिरारग्वधादिरिति समासेन श्लेष्मसंशमनो वर्गः ॥
तत्र सर्वाण्येवौषधानि व्याध्यग्निपुरुषबलान्यम्{}इसमीक्ष्य विदध्यात् । तत्र व्याधिबलादधिकमौषधमुपयुक्तं तमुपशम्य व्याधिं व्याधिमन्यमावहति अग्निबलादधिकमजीर्णं विष्टभ्य वा पच्यते पुरुषबलादधिकं ग्लानिमूर्च्छामदानावहति संशमनं एवं संशोधनमतिपातयति । हीनमेभ्यो दत्तमकिंचित्करं भवति । तस्मात्सममेव विदध्यात् ॥
भवन्ति चात्र ।
रोगे शोधनसाध्ये तु यो भवेद्दोषदुर्बलः ।
तस्मै दद्याद्भिषक् प्राज्ञो दोषप्रच्यावनं मृदु ॥
चले दोषे मृदौ कोष्ठे नेक्षेतात्र बलं नृणाम् ।
अव्याधिदुर्बलस्यापि शोधनं हि तदा भवेत् ॥
स्वयं प्रवृत्तदोषस्य मृदुकोष्ठस्य शोधनम् ।
भवेदल्पबलस्यापि प्रयुक्तं व्याधिनाशनम् ॥
व्याध्यादिषु तु मध्येषु क्वाथस्याञ्जलिरिष्यते ।
बिडालपदकं चूर्णं देयः कल्कोऽक्षसंइतः ॥
मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0