भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 1.33

1.33.1

अथातोऽवारणीयमध्यायं व्याख्यास्यामः ॥

1.33.2

यथोवाच भगवान् धन्वन्तरिः ॥

1.33.3

उपद्रवैस्तु ये जुष्टा व्याधयो यान्त्यवार्यताम् ।

1.33.3

रसायनाद्विना वत्स तान् शृण्वेकमना मम ॥

1.33.4

वातव्याधिः प्रमेहश्च कुष्ठमर्शो भगन्दरम् ।

1.33.4

अश्मरी मूढगर्भश्च तथैवोदरमष्टमम् ॥

1.33.5

अष्टावेते प्रकृत्यैव दुश्चिकित्स्या महागदाः ।

1.33.5

प्राणमांसक्षयश्वासतृष्नाशोषवमीज्वरैः ॥

1.33.6

मूर्च्छातिसारहिक्काभिः पुनश्चैतैरुपद्रुताः ।

1.33.6

वर्जनीया विशेषेण भिषजा सिद्धिमिच्छता ॥

1.33.7

शूनं सुप्तत्वचं भग्नं कम्पाध्माननिपीडितम् ।

1.33.7

नरं रुजार्तमन्तश्च वातव्याधिर्विनाशयेत् ॥

1.33.8

यथोक्तोपद्रवाविष्टमतिप्रस्रुतमेव वा ।

1.33.8

पिडकापीडितं गाढं प्रमेहो हन्ति मानवम् ॥

1.33.9

प्रभिन्नं प्रस्रुताङ्गं च रक्तनेत्रं हतस्वरम् ।

1.33.9

पञ्चकर्मगुणातीतं कुष्ठं हन्तीह कुष्ठिनम् ॥

1.33.10

तृष्णारोचकशूलार्तमतिप्रस्रुतशोणितम् ।

1.33.10

शोफातीसारसंयुक्तमर्शोव्याधिर्विनाशयेत् ॥

1.33.11

वातमूत्रपुरीषाणि क्रिमयः शुक्रमेव च ।

1.33.11

भगन्दरात् प्रस्रवन्ति यस्य तं परिवर्जयेत् ॥

1.33.12

प्रशूननाभिवृषणं रुद्धमूत्रं रुगन्वितम् ।

1.33.12

अश्मरी क्षपयत्याशु सिकताशर्करान्विता ॥

1.33.13

गर्भकोषपरासङ्गो मक्कल्लो योनिसंवृतिः ।

1.33.13

हन्यात् स्त्रियं मूढगर्भे यथोक्ताश्चाप्युपद्रवाः ॥

1.33.14

पार्श्वभङ्गान्नविद्वेषशोफातीसारपीडितम् ।

1.33.14

विरिक्तं पूर्यमाणं च वर्जयेदुदरार्दितम् ॥

1.33.15

यस्ताम्यति विसंज्ञश्च शेते निपतितोऽपि वा ।

1.33.15

शीतार्दितोऽन्तरुष्णश्च ज्वरेण म्रियते नरः ॥

1.33.16

यो हृष्टरोमा रक्ताक्षो हृदि संघातशूलवान् ।

1.33.16

नित्यं वक्त्रेण चोच्छ्वस्यात्तं ज्वरो हन्ति मानवम् ॥

1.33.17

हिक्काश्वासपिपासार्तं मूढं विभ्रान्तलोचनम् ।

1.33.17

सन्ततोच्छ्वासिनं क्षीणं नरं क्षपयति ज्वरः ॥

1.33.18

आविलाक्षं प्रताम्यन्तं निद्रायुक्तमतीव च ।

1.33.18

क्षीणशोणितमांसं च नरं नाशयति ज्वरः ॥

1.33.19

श्वासशूलपिपासार्तं क्षीणं ज्वरनिपीडितम् ।

1.33.19

विशेषेण नरं वृद्धमतीसारो विनाशयेत् ॥

1.33.20

शुक्लाक्षमन्नद्वेष्टारमूर्ध्वश्वासनिपीडितम् ।

1.33.20

कृच्छ्रेण बहु मेहन्तं यक्ष्मा हन्तीह मानवम् ॥

1.33.21

श्वासशूलपिपासान्नविद्वेषग्रन्थिमूढताः ।

1.33.21

भवन्ति दुर्बलत्वं च गुल्मिनो मृत्युमेष्यतः ॥

1.33.22

आध्मातं बद्धनिष्यन्दं छर्दिहिक्कातृडन्वितम् ।

1.33.22

रुजाश्वाससमाविष्टं विद्रधिर्नाशयेन्नरम् ॥

1.33.23

पाण्डुदन्तनखो यश्च पाण्डुनेत्रश्च मानवः ।

1.33.23

पाण्डुसंघातदर्शी च पाण्डुरोगी विनश्यति ॥

1.33.24

लोहितं छर्दयेद्यस्तु बहुशो लोहितेक्षणः ।

1.33.24

रक्तानां च दिशां द्रष्टा रक्तपित्ती विनश्यति ॥

1.33.25

अवाङ्नुखस्तून्मुखो वा क्षीणमांसबलो नरः ।

1.33.25

जागरिष्णुरसन्देहमुन्मादेन विनश्यति ॥

1.33.26

बहुशोऽपस्मरन्तं तु प्रक्षीणं चलितभ्रुवम् ।

1.33.26

नेत्राभ्यां च विकुर्वाणमपस्मारो विनाशयेत् ॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc