भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 1.21

1.21.1

अथातो व्रणप्रश्नमध्यायं व्याख्यास्यामः ॥

1.21.2

यथोवाच भगवान् धन्वन्तरिः ॥

1.21.3

वातपित्तश्लेष्माण एव देहसंभवहेतवः । तैरेवाव्यापन्नैरधोमध्योर्ध्वसन्निविष्टैः शरीरमिदं धार्यतेऽगारमिव स्थूणाभिस्तिसृभिरतश्च त्रिस्थूणमाहुरेके । त एव च व्यापन्नाः प्रलयहेतवः । तदेभिरेव शोणितचतुर्थैः संभवस्थितिप्रलयेष्वप्यविरहितं शरीरं भवति ॥

1.21.4

भवति चात्र ।

1.21.4

नर्ते देहः कफादस्ति न पित्तान्न च मारुतात् ।

1.21.4

शोणितादपि वा नित्यं देह एतैस्तु धार्यते ॥

1.21.5

तत्र वा गतिगन्धनयोरिति धातुः तप सन्तापे श्लिष आलिङ्गने एतेषां कृद्विहितैः प्रत्ययैर्वातः पित्तं श्लेष्मेति च रूपाणि भवन्ति ॥

1.21.6

दोषस्थानान्यत ऊर्ध्वं वक्ष्यामः तत्र समासेन वातः श्रोणिगुदसंश्रयः तदुपर्यधो नाभेः पक्वाशयः पक्वामाशयमध्यं पित्तस्य आमाशयः श्लेष्मणः ॥

1.21.7

अतः परं पञ्चधा विभज्यन्ते । तत्र वातस्य वातव्याधौ वक्ष्यामः पित्तस्य यकृत्प्लीहानौ हृदयं दृष्तिस्त्वक् पूर्वोक्तं च श्लेष्मणस्तूरःशिरःकण्ठसन्धय इति पूर्वोक्तं च एतानि खलु दोषाणां स्थानान्यव्यापन्नानाम् ॥

1.21.8

विसर्गादानविक्षेपैः सोमसूर्यानिला यथा ।

1.21.8

धारयन्ति जगद्देहं कफपित्तानिलास्तथा ॥

1.21.9

तत्र जिज्ञास्यं किं पित्तव्यतिरेकादन्योऽग्निः आहोस्वित् पित्तमेवाग्निरिति । अत्रोच्यते न खलु पित्तव्यतिरेकादन्योऽग्निरुपलभ्यते आग्नेयत्वात् पित्ते दहनपचनादिष्वभिप्रवर्तमानेष्वग्निवदुपचारः क्रियतेऽन्तरग्निरिति क्षिणे ह्यग्निगुणे तत्समानद्रव्योपयोगादतिवृद्धे शीतक्रियोपयोगादागमाच्च पश्यामो न खलु पित्तव्यतिरेकादन्योऽग्निरिति ॥

1.21.10

तच्चादृष्टहेतुकेन विशेषेण पक्वामाशयमध्यस्थं पित्तं चतुर्विधमन्नपानं पचति विवेचयति च दोषरसमूत्रपुरीषाणि तत्रस्थमेव चात्मशक्त्या शेषाणां पित्तस्थानानां शरीरस्य चाग्निकर्मणानुग्रहं करोति तस्मिन् पित्ते पाचकोऽग्निरिति संज्ञा यत्तु यकृत्प्लीह्नोः पित्तं तस्मिन् रञ्जकोऽग्निरिति संज्ञा स रसस्य रागकृदुक्तः यत् पित्तं हृदयसंस्थं तस्मिन् साधकोऽग्निरिति संज्ञा सोऽभिप्रार्थितमनोरथसाधनकृदुक्तः यद्दृष्ट्यां पित्तं तस्मिन्नालोचकोऽग्निरिति संज्ञा स रूपग्रहणाधिकृतः यत्तु त्वचि पित्तं तस्मिन् भ्राजकोऽग्निरिति संज्ञा सोऽभ्यङ्गपरिषेकावगाहावलेपनादीनां क्रियाद्रव्याणां पक्ता छायानां च प्रकाशकः ॥

1.21.11

पित्तं तीक्ष्णं द्रवम् पूति नीलं पीतं तथैव च ।

1.21.11

उष्णं कटुरसं चैव विदग्धं चाम्लमेव च ॥

1.21.12

अत ऊर्ध्वं श्लेष्मस्थानान्यनुव्याख्यास्यामः । तत्र आमाशयः पित्ताशयस्योपरिष्ठात्तत्प्रत्यनीकत्वादूर्ध्वगतित्वात्तेजसश्चन्द्र इव आदित्यस्य स चतुर्विधस्याहारस्याधारः स च तत्रौदकैर्गुणैराहारः प्रक्लिन्नो भिन्नसंघातः सुखजरश्च भवति ॥

1.21.13

माधुर्यात् पिच्छिलत्वाच्च प्रक्लेदित्वात्तथैव च ।

1.21.13

आमाशये संभवति श्लेष्मा मधुरशीतलः ॥

1.21.14

स तत्रस्थ एव स्वशक्त्या शेषाणां श्लेष्मस्थानानां शरीरस्य चोदककर्मणानुग्रहं करोति उरःस्थस्त्रिकसन्धारणमात्मवीर्येणान्नरससहितेन हृदयावलम्बनं करोति जिह्वामूलकण्ठस्थो जिह्वेन्द्रियस्य सौम्यत्वात् सम्यग्रसज्ञाने वर्तते शिःरस्थः स्नेहसंतर्पणाधिकृतत्वादिन्द्रियाणामात्मवीर्येणानुग्रहं करोति सन्धिस्थस्तु श्लेष्मा सर्वसन्धिसंश्लेषात् सर्वसन्ध्यग्रनुहं करोति ॥

1.21.15

श्लेष्मा श्वेतो गुरुः स्निग्धः पिच्छिलः शीत एव च ।

1.21.15

मधुरस्त्वविग्धः स्याद्विदग्धो लवणः स्र्ंतः ॥

1.21.16

शोणितस्य स्थानं यकृत्प्लीहानौ तच्च प्रागभिहितं तत्रस्थमेव शेषाणां शोणितस्थानानामनुग्रहं करोति ॥

1.21.17

अनुष्णशीतं मधुरं स्निग्धं रक्तं च वर्णतः ।

1.21.17

शोणितं गुरु विस्रं स्याद्विदाहश्चास्य पित्तवत् ॥

1.21.18

एतानि खलु दोषस्थानानि एषु संचीयन्ते दोषाः । प्राक् संचयहेतुरुक्तः । तत्र संचितानां खलु दोषाणां स्तब्धपूर्णकोष्ठता पीतावभासता मन्दोष्मता चाङ्गानां गौरवमालस्यं चयकारणविद्वेषश्चेति लिङ्गानि भवन्ति । तत्र प्रथमः क्रियाकालः ॥

1.21.19

अत ऊर्ध्वं प्रकोपणानि वक्ष्यामः । तत्र बलवद्विग्रहातिव्यायामव्यवायाध्ययनप्रपतनप्रधावनप्रपीडनाभिघातलङ्घनप्लवनतरणरात्रिजागरणभारहरणगजतुरगरथपदातिचर्याकटुकषायतिक्तरूक्षलघुशीतवीर्यशुष्कशाकवल्लूरवरकोद्दालककोरदूषश्यामाकनीवारमुद्गमसूराढकीहरेणुकलायनिष्पावानशनविषमाशनाध्यशनवातमूत्रपुरीषशुक्रच्छर्दिक्षवथूद्गारबाष्पवेगविघातादिभिर्विशेषैर्वायुः प्रकोपमापद्यते ॥

1.21.20

स शीताभ्रप्रवातेषु घर्मान्ते च विशेषतः ।

1.21.20

प्रत्यूषस्यपराह्णे तु जीर्णेऽन्ने च प्रकुप्यति ॥

1.21.21

क्रोधशोकभयायासोपवासविदग्धमैथुनोपगमनकट्वम्ललवणतीक्ष्णोष्णलघुविदाहितिलतैलपिण्याककुलत्थसर्षपातसीहरितकशाकगोधामत्स्याजाविकमांसदधितक्रकूर्चिकामस्तुसौवीरकसुराविकाराम्लफलकट्वरप्रभृतिभिः पित्तं प्रकोपमापद्यते ॥

1.21.22

तदुष्णैरुष्णकाले च मेघान्ते च विषेशतः ।

1.21.22

मध्याह्ने चार्धरात्रे च जीर्यत्यन्ने च कुप्यति ॥

1.21.23

दिवास्वप्नाव्यायामालस्यमधुराम्ललवणशीतस्निग्धगुरुपिच्छिलाभिष्यन्दिहायनकयवकनैषधेत्कटमाषमहामाषगोधूम-तिल-पिष्ट-विकृतिदधिदुग्धकृशरापायसेक्षु-विकारानूपौदकमांसवसाबिसमृणालकसेरुकशृङ्गाटकमधुर-वल्ली-फलसमशनाध्यशनप्रभृतिभिः श्लेष्मा प्रकोपमापद्यते ॥

1.21.24

स शीतैः शीतकाले च वसन्ते च विशेषतः ।

1.21.24

पूर्वाह्णे च प्रदोषे च भुक्तमात्रे प्रकुप्यति ॥

1.21.25

पित्तप्रकोपणैरेव चाभीक्ष्णं द्रवस्निग्धगुरुभिराहारैर्दिवास्वप्नक्रोधानलातपश्रमाभिघाताजीर्णविरुद्धाध्यशनादिभिर्विशेषैरसृक् प्रकोपमापद्यते ॥

1.21.26

यस्माद्रक्त्मं विना दोषैर्ना कदाचित् प्रकुप्यति ।

1.21.26

तस्मात्तस्य यथादोषं कालं विद्यात्प्रकोपणे ॥

1.21.27

तेषां प्रकोपात् कोष्ठतोदसंचरणाम्लिकापिपासापरिदाहान्नद्वेषहृदयोत्क्लेदाश्च जायन्ते । तत्र द्वितीयः क्रियाकालः ॥

1.21.28

अत ऊर्ध्वं प्रसरं वक्ष्यामः तेषामेभिरातङ्कविशेषैः प्रकुपितानां(पर्युषित) किण्वोदकपिष्टसमवाय इवोद्रिक्तानां प्रसरो भवति । तेषां वायुर्गतिमत्त्वात् प्रसरणहेतुः सत्यप्यचैतन्ये । स हि रजोभूयिष्ठः रजश्च प्रवर्तकं सर्वभावानाम् । यथा महानुदकसंचयोऽतिवृद्धः सेतुमवदार्यापरेणोदकेन व्यामिश्रः सर्वतः प्रधावति एवं दोषाः कदाचिदेकशो द्विशः समस्ताः शोणितसहिता वानेकधा प्रसरन्ति । तद्यथा वातः पित्तं श्लेष्मा शोणितं वातपित्ते वातश्लेष्माणौ पित्तश्लेष्माणौ वातशोणिते पित्तशोणिते श्लेष्मशोणिते वातपित्तशोणितानि वातश्लेष्मशोणितानि पित्तश्लेष्मशोणितानि वातपित्तकफाः वातपित्तकफशोणितानि इत्येवं पञ्चदशधा प्रसन्ति ॥

1.21.29

कृत्स्नेऽर्धेऽवयवे वापि यत्राङ्गे कुपितो भृशम् ।

1.21.29

दोषो विकारं नभसि मेघवत्तत्र वर्षति ॥

1.21.30

नात्यर्थं कुपितश्चापि लीनो मार्गेषु तिष्ठति ।

1.21.30

निष्प्रत्यनीकः कालेन हेतुमासाद्य कुप्यति ॥

1.21.31

तत्र वायोः पित्तस्थानगतस्य पित्तवत् प्रतीकारः पित्तस्य च कफस्थानगतस्य कफवत् कफस्य च वातस्थानगतस्य वातवत् एष क्रियाविभागः ॥

1.21.32

एवं प्रकुपितानां प्रसरतां च वायोर्विमार्गगमनाटोपौ ओषचोषपरिदाहधूमायनानि पित्तस्य अरोचकाविपाकाङ्गसादाश्छर्दिश्चेति श्लेष्मणो लिङ्गानि बवन्ति तत्र तृतीयः क्रियाकालः ॥

1.21.33

अत ऊर्ध्वं स्थानसंश्रयं । एवं प्रकुपिताः तांस्तान् शरीरप्रदेशानागम्य तांस्तान् व्याधीन् जनयन्ति । ते यदोदरसन्निवेशं कुर्वन्ति तदा गुल्मविद्रध्युदराग्निसङ्गानाहविसूचिकातिसारप्रभृतीन् जनयन्ति बस्तिगताः प्रमेहाश्मरीमूत्राघातमूत्रदोषप्रभृतीन् वृषणगता वृद्धीः मेढ्रगता निरुद्धप्रकशोपदंशशूकदोषप्रभृतीन् गुदगता भगन्दरार्शःप्रभृतीन् ऊर्ध्वजत्रुगतास्तूर्ध्वजान् तवङ्नांसशोणितस्थाः क्षुद्ररोगान् कुष्ठानि विसर्पांश्च मेदोगता ग्रन्थ्यपच्यर्बुदगलगण्डालजीप्रभृतीन् अस्थिगता विद्रध्यनुशयीप्रभृतीन् पादगताः श्लीपदवातशोणितवातकण्टकप्रभृतीन् सर्वाङ्गागता ज्वरसरवाङ्गरोगप्रभृतीन् तेषामेवमभिनिविष्टानां पूर्वरूपप्रादुर्भावः तं प्रतिरोगं वक्ष्यामः । तत्र पूर्वरूपगतेषु चतुर्थः क्रियाकालः ॥

1.21.34

अत ऊर्ध्वं व्याधेर्दर्शनं वक्ष्यामः शोफार्बुदग्रन्थिविद्रधिविसर्पप्रभृतीनां प्रव्यक्तलक्षणता ज्वरातीसारप्रभृतीनां च । तत्र पञ्चमः क्रियाकालः ॥

1.21.35

अत ऊर्ध्वमेतेषामवदीर्णानां ब्रणभावमापन्नानां षष्ठः क्रियाकालः ज्वरातिसारप्रभृतीनां च दीर्घकालानुबन्धः । तत्राप्रतिक्रियमाणेऽसाध्यतामुपयान्ति ॥

1.21.36

भवन्ति चात्र ।

1.21.36

संचयं च प्रकोपं च प्रसरं स्थानसंश्रयम् ।

1.21.36

व्यक्तिं भेदं च यो वेत्ति दोषाणां स भवेद्भिषक् ॥

1.21.37

संचयेऽपहृता दोषा लभन्ते नोत्तरा गतीः ।

1.21.37

ते तूत्तरासु गतिषु भवन्ति बलवत्तराः ॥

1.21.38

सर्वैर्भावैस्त्रिभिर्वापि द्वाभ्यामेकेन वा पुनः ।

1.21.38

संसर्गे कुपितः क्रुद्धं दोषं दोषोऽनुधावति ॥

1.21.39

संसर्गे यो गरीयान् स्यादुपक्रम्यः स वै भवेत् ।

1.21.39

शेषदोषाविरोधेन सन्निपाते तथैव च ॥

1.21.40

वृणोति यस्मात् रूढेऽपि व्रणवस्तु न नश्यति ।

1.21.40

आदेहधारणात्तस्माद्द्रण इत्युच्यते बुधैः ॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc