भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 1.20

1.20.1

अथातो हिताहितीयमध्यायं व्याख्यास्यामः ॥

1.20.2

यथोवाच भगवान् धन्वन्तरिः ॥

1.20.3

यद्वायोः पथ्यं तत् पित्तस्यापथ्यमित्यनेन हेतुना न किंचिद्द्रव्यमेकान्तेन हितमहितं वास्तीति केचिदाचार्या ब्रुवते । तत्तु न सम्यक् । इह खलु यस्माद्द्रव्याणि स्वभावतः संयोगतश्चैकान्तहितान्येकान्ताहितानि हिताहितानि च भवन्ति ॥

1.20.4

तत्र एकान्तहितानि जातिसात्म्यात् सलिलघृतदुग्धौदनप्रभृतीनि एकान्ताहितानि तु दहनपचनमारणादिषु प्रवृत्तान्यग्निक्षारविषादीनि संयोगादपराणि विषतुल्यानि भवन्ति हिताहितानि तु यद्वायोः पथ्यं तत्पित्तस्यापथ्यमिति ॥

1.20.5

अतः सर्वप्राणिनामयमाहारार्थं वर्ग उपदिश्यते तद्यथा रक्तशलिषष्टिककङ्गुकमुकुन्दकपाण्डुकपीतकप्रमोदककालकासनपुष्पककर्दमकशकुनाहृतसुगन्धककलमनीवारकोद्रवोद्दालकश्यामाकगोधूमवेणुयवादय एणहरिणकुरङ्गमृगमातृकाश्वदंष्ट्राकरालक्रकरकपोतलावतित्तिरिकपिञ्जलवर्तीरवर्तिकादीनां मांसानि मुद्गवनमुद्गमकुष्ठकलायमसूरमङ्गल्यचणकहरेण्वाढकीसतीनाः चिल्लिवास्तुकसुनिषण्णकजीवन्तीतण्डुलीयकमण्डूकपर्ण्यः गव्यं घृतं सैन्धवदाडिमामलकमित्येष वर्गः सर्वप्राणिनां सामान्यतः पथ्यतमः ॥

1.20.6

तथा ब्रह्मचर्यनिवातशयनोष्णोदकस्नाननिशास्वप्नव्यायामाश्चैकान्ततः पथ्यतमाः ॥

1.20.7

एकान्तहितान्येकान्ताहितानि च प्रागुपदिष्टानि हिताहितानि तु यद्वायोः पथ्यं तत्पित्तस्यापथ्यमिति ॥

1.20.8

संयोगतस्त्वपराणि विषतुल्यानि भवन्ति । तद्यथा वल्लीफलकवककरीराम्लफललवणकुलत्थपिण्याकदधितैलविरोहिपिष्टशुष्कशाकाजाविकमांसमद्यजाम्बवचिलिचिममत्स्यगोधावराहांश्च नैकध्यमश्नीयात् पयसा ॥

1.20.9

रोगं सात्म्यं च देशं च कालं देहं च बुद्धिमान् ।

1.20.9

अवेक्ष्याग्न्यादिकान् भावान् रोगवृत्तेः प्रयोजयेत् ॥

1.20.10

अवस्थान्तरबाहुल्याद्रोगादीनां व्यवस्थितम् ।

1.20.10

द्रव्यं नेच्छन्ति भिषज इच्छन्ति स्वस्थरक्षणे ॥

1.20.11

द्वयोरन्यतरादाने वदन्ति विषदुग्धयोः ।

1.20.11

दुग्धस्यैकान्तहिततां विषमेकान्ततोऽहितम् ॥

1.20.12

एवं युक्तरसेष्वेषु द्रव्येषु सलिलादिषु ।

1.20.12

एकान्तहिततां विद्धि वत्स सुश्र्त नान्यथा ॥

1.20.13

अतोऽन्यान्यपि संयोगादहितानि वक्ष्यामः न वविरूढधान्यैर्वसामधुपयोगुडमाषैर्वा ग्राम्यानूपौदकपिशितादीनि नाभ्यवहरेत् न पयोमधुभ्यां रोहिणीशाकं जातुकशाकं वाश्नीयात् बलाकां वारुणीकुल्माषाभ्यां काकमाचीं पिप्पलीमरिचाभ्यां नाडीभङ्गशाककुक्कुटदधीनि च नैकध्यं मधु चोष्णोदकानुपानं पित्तेन चाममांसानि सुराकृशरापायसांश्च नैकध्यं सौवीरकेण सह तिलशष्कुलीं मत्स्यैः सहेक्षुविकारान् गुडेन काकमाचीं मधुना मूलकं गुडेन वाराहं मधुना च सह विरुद्धं क्षीरेण मूलकमाम्रजाम्बवश्वाविच्छूकरगोधाश्च सर्वांश्च मत्स्यान् पयसा विशेषेण चिलिचिमं कदलीफलं तालफलेन पयसा दध्ना तक्रेण वा लकुचफलं पयसा दध्ना माषसूपेन वा प्राक् पयसः पयसोऽन्ते वा ॥

1.20.14

अतः कर्मविरुद्धान् वक्ष्यामः कपोतान् सर्षपतैलभृष्टान्नाद्यात् कपिञ्जलमयूरलावतित्तिरिगोधाश्चैरण्डदार्व्यग्निसिद्धा एरण्डतैलसिद्धा वा नाद्यात् कांस्यभाजने दशरात्रपर्युषितं सर्पिः मधु चोष्णैरुष्णे वा मत्स्यपरिपचने श्र्ण्गवेरपरिपचने वा सिद्धां काकमाचीं तिलकल्कसिद्धमुपोदिकाशाकं नारिकेलेन वराहवसा परिभृष्टां बलाकां भासमङ्गारशूल्यं नाश्नीयादिति ॥

1.20.15

अतो मानविरुद्धान् वक्ष्यामः मध्वम्बुनी मधुसर्पिषी मानतस्तुल्ये नाश्नीयात् स्नेहौ मधुस्नेहौ जलस्नेहौ वा विशेषादान्तरीक्षोदकानुपानौ ॥

1.20.16

अत ऊर्ध्वं रसद्वन्द्वानि रसतो वीर्यतो विपाकतश्च विरुद्धानि वक्ष्यामः तत्र मधुराम्लौ रसवीर्यविरुद्धौ मधुरलवणौ च मधुरकटुकौ च सर्वतः मधुरतिक्तौ रसविपाकाभ्यां मधुरकषायौ च अम्ललवणौ रसतः अम्लकटुकौ रसविपाकाभ्यां अम्लतिक्तावम्लकषायौ च सर्वतः लवणकटुकौ रसविपाकाभ्यां लवणतिक्तौ लवणकषायौ च सर्वतः कटुतिक्तौ रसवीर्याभ्यां कटुकषायौ च तिक्तकषायौ रसतः ॥

1.20.17

तरतमयोगयुक्तांश्च भावानतिरूक्षानतिस्निग्धानत्युष्णानतिशीतानित्येवमादीन् विवर्जयेत् ॥

1.20.18

भवन्ति चात्र ।

1.20.18

विरुद्धान्येवमादीनि वीर्यतो यानि कानि च ।

1.20.18

तान्येकान्ताहितान्येव शेषं विद्याद्धिताहितम् ॥

1.20.19

व्याधिमिन्द्रियदौर्बल्यं मरणं चाधिगच्छति ।

1.20.19

विरुद्धरसवीर्याणि भुञ्जानोऽनात्मवान्नरः ॥

1.20.20

यत्किंचिद्दोषमुत्क्लेश्य भुक्तं कायान्न निर्हरेत् ।

1.20.20

रसादिष्वयथार्थं वा तद्विकाराय कल्पते ॥

1.20.21

विरुद्धाशनजान् रोगान् प्रतिहन्ति विरेचनम् ।

1.20.21

वमनं शमनं वापि पूर्वं वा हितसेवनम् ॥

1.20.22

सात्य्म्यतोऽल्पतया वापि दीप्ताग्नेस्तरुणस्य च ।

1.20.22

स्निग्धव्यायामबलिनां विरुद्धं वितथं भवेत् ॥

1.20.23

अथ वातगुणान् वक्ष्यामः

1.20.23

पूर्वः समधुरः स्निग्धो लवणश्चैव मारुतः ।

1.20.23

गुरुर्विदाहजननो रक्तपित्ताभिवर्धनः ॥

1.20.24

क्षतानां विषजुष्टानां व्रणिनः श्लेष्मलाश्च ।

1.20.24

तेषामेव विशेषेण सदा रोगविवर्धनः ॥

1.20.25

वातलानां प्रशस्तश्च श्रान्तानां कफशोषिणाम् ।

1.20.25

तेषामेव विशेषेण व्रणक्लेदविवर्धनः ॥

1.20.26

मधुरश्चाविदाही च कषायानुरसो लघुः ।

1.20.26

दक्षिणो मारुतः श्रेष्ठश्चक्षुष्यो बलवर्धनः ॥

1.20.27

रक्तपित्तप्रशमनो न च वातप्रकोपणः ।

1.20.27

विशदो रूक्षपरुषः खरः स्नेहबलापहः ॥

1.20.28

पश्चिमो मारुतस्तीक्ष्णः कफमेदोविशोषणः ।

1.20.28

सद्यः प्राणक्षयकरः शोषणस्तु शरीरिणाम् ॥

1.20.29

उत्तरो मारुतः स्निग्धो मृदुर्मधुर एव च ।

1.20.29

कषायानुरसः शीतो दोषाणां चाप्रकोपणः ॥

1.20.30

तस्माच्च प्रकृतिस्थानां क्लेदनो बलवर्धनः ।

1.20.30

क्षीणक्षयविषार्तानां विशेषेण तु पूजितः ॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc