भाषा

ENहिગુ
ग्रंथ पाठ

सुश्रुतसंहिता · अध्याय 1.18

1.18.1

अथातो व्रणालेपनबन्धविधिमध्यायं व्याख्यास्यामः ॥

1.18.2

यथोवाच भगवान् धन्वन्तरिः ॥

1.18.3

आलिप आद्य उपक्रमः एष सर्वशोफानां सामान्यः प्रधानतमश्च तं च प्रतिरोगं वक्ष्यामः ततो बन्धः प्रधानं तेन शुद्धिर्व्रणरोपणमस्थिसंधिस्थैर्यं च ॥

1.18.4

तत्र प्रतिलोममालिम्पेन्नानुलोमम् । प्रतिलोमे हि सम्यगौषधमवतिष्ठतेऽनुप्रविशति रोमकूपान् स्वेदवाहिभिश्च सिरामुखैर्वीर्यं प्राप्नोति ॥

1.18.5

न च शुष्यमाणमुपेक्षेत अन्यत्र पीडयितव्यात् शुष्को ह्यपार्थको रुक्करश्च ॥

1.18.6

स त्रिविधः प्रलेपः प्रदेह आलेपश्च । तेषामन्तरं प्रलेपः शीतस्तनुरविशोषी विशोषी च प्रदेहस्तूष्णः शीतो वा बहलोऽबहुरविशोषी च मधय्मोऽत्रालेपः । तत्र रक्तपित्तप्रसादकृदालेपः प्रदेहो वातश्लेष्मप्रशमनः संधानः शोधनो रोपणः शोफवेदनापहश्च तस्योपयोगः क्षताक्षतेषु यस्तु क्षतेषूपयुज्यते स भूयः कल्क इति संज्ञां लभते निरुद्दालेपनसंज्ञः तेनास्रावसन्निरोधो मृदुता पूतिमांसापकर्षणमनन्तर्दोषता व्रणशुद्धिश्च भवति ॥

1.18.7

अविदग्धेषु शोफेषु हितमालेपनं भवेत् ।

1.18.7

यथास्वं दोषशमनं दाहकण्डूरुजापहम् ॥

1.18.8

त्वक्प्रसादनमेवाग्र्यं मांसरक्तप्रसादनम् ।

1.18.8

दाहप्रशमनं श्रेष्ठं तोदकण्डूविनाशनम् ॥

1.18.9

मर्मदेशेषु ये तोगा गुह्येष्वपि तथा नृआम् ।

1.18.9

संशोधनाय तेषां हि कुर्यादालेपनं भिषक् ॥

1.18.10

(षड्भागं पैत्तिके स्नेहं चत्रुभागं तु वातिके ।

1.18.10

अष्टभागं तु कफजे स्नेहमात्रां प्रदापयेत् ॥)

1.18.11

तस्य प्रमाणमार्द्रमाहिषचर्मोत्सेधमुपदिशन्ति ॥

1.18.12

न चालेपं रात्रौ प्रयुञ्जीत मा भूच्छैत्यपिहितोष्मणस्तदनिर्गमाद्विकारप्रवृत्ति(आ.द्धि)रिति ॥

1.18.13

प्रदेहसाध्ये व्याधौ तु हितमालेपनं दिवा ।

1.18.13

पित्तरक्ताभिघातोत्थे सविषे च विशेषतः ॥

1.18.14

न च पर्युषितं लेपं कदाचिदवचारयेत् ।

1.18.14

उपर्युपरि लेपं तु न कदाचित् प्रदापयेत् ॥

1.18.15

ऊष्माणं वेदनां दाहं घनत्वाज्जनयेत् स हि ।

1.18.15

न च तेनैव लेपेन प्रदेहं दापयेत् पुनः ।

1.18.15

शुष्कभावात्स निर्वीर्यो युक्तोऽपि स्यादपार्थकः ॥

1.18.16

अत ऊर्ध्वं व्रणबन्धनद्रव्याण्युपदेक्ष्यामः तद्यथा क्षौमकार्पासाविकदुकूलकौशेयपत्रोर्णचीनपट्टचर्मान्तर्वल्कलालाबूशकललताविदलरज्जुतूलफलसन्तानिकालौहानीति तेषं व्याधिं कालं चावेक्ष्योपयोगः प्रकरणतश्चैषामादेशः ॥

1.18.17

तत्र कोशदामस्वस्तिकानुवेल्लितप्र(आ.मु)तोलीमण्डलस्थगिकायमकखट्वाचीनविबन्धवितानगोफणाः पञ्चाङ्गी चेति चतुर्दश बन्धविशेषाः । तेषां नामभिरेवाकृतयः प्रायेण व्याख्याताः ॥

1.18.18

तत्र कोशमङ्गुष्ठाङ्गुलिपर्वसु विदध्यात् दामसंबाधेऽङ्गे सन्धिकूर्चकभ्रूस्तनान्तरतलकर्णेषु स्वस्तिकं अनुवेल्लितं तु शाखासु ग्रीवामेढ्रयोः प्रतोलीं वृत्तेऽङ्गे मण्डलं अङ्गुष्ठाङ्गुलिमेढ्राग्रेषु स्थगिकां यमलव्रणयोर्यमकं हनुशङ्खगण्डेषु खट्वां अपाङ्गयोश्चीनं पृष्ठोदरोरःसु विबन्धं मूर्धनि वितानं चिबुकनासौष्ठांसबस्तिषु गोफणां जत्रुण ऊर्ध्वं पञ्चाङ्गीमिति यो वा यस्मिन् शरीरप्रदेशे सुनिविष्टो भवति तं तस्मिन् विदध्यात् ॥

1.18.19

यन्त्रणमूर्ध्वमधिस्तिर्यक् च ॥

1.18.20

तत्र घनां कवलिकां दत्त्वा वामहस्तपरिक्षेपमृजुमनाविद्धमसंकुचितं मृदु पट्टं निवेश्य बध्नीयात् । न च व्रणस्योपरि कुर्याद्ग्रन्थिमाबाधकरं च ॥

1.18.21

न च विकेशिकौषधेऽतिस्निग्धेऽतिरूक्षे विषमे वा कुर्वीत यस्मादतिस्नेहात् क्लेदो रौक्ष्याच्छेदो दुर्न्यासाह्रणवर्त्मावघर्षणमिति ॥

1.18.22

तत्र व्रणयतनविशेषाद्बन्धविशेषस्त्रिविधो भवति गाढः समः शिथिल इति ॥

1.18.23

पीडयन्नरुजो गाढः सोच्छ्वासः शिथिलः स्मृतः ।

1.18.23

नैव गाढो न शिथिलः समो बन्धः प्रकीर्तितः ॥

1.18.24

तत्र स्फिक्कुक्षिकक्षावङ्क्षणोरुशिरःसु गाढः शाखावदनकर्णकण्ठमेढ्रमुष्कपृष्ठपार्श्वोदरोरःसु समः अक्ष्णोः सन्धिषु च शिथिल ति ॥

1.18.25

तत्र पैत्तिकं गाढस्थाने समं बध्नीयात् समस्थाने शिथिलं शिथिलस्थाने नैव एवं शोणितदुष्टं च श्लैष्मिकं शिथिलस्थाने समं समस्थाने गाढं गाढस्थाने गाढतरं एवं वातदुष्टं च ॥

1.18.26

तत्र पैत्तिकं शरदि ग्रीष्मे द्विरह्नो बध्नीयात् रक्तोपद्रुतमप्येवं श्लैष्मिकं हेमन्तवसन्तयोस्त्र्यहात् वातोपद्रुतमप्येवम् । एवमभ्यूह्य बन्धविपर्ययं च कुर्यात् ॥

1.18.27

तत्र समशिथिलस्थानेषु गाढं बद्धे विकेशिकौषधनैरर्थक्यं शोफवेदनाप्रादुर्भावश्च गाढसमस्थानेषु शिथिलं बद्धे विकेशिकौषधपतनं पट्टसंचाराह्रणवर्त्मावघर्षनमिति गाढशिथिलस्थानेषु समं बद्धे च गुणाभाव इति ॥

1.18.28

अविपरीतबन्धे वेदनोपशान्तिरसृक्प्रसादो मार्दवं च ॥

1.18.29

अबध्यमानो दंशमशकतृणकाष्ठोपलपांशुशीतवातातपप्रभृतिभिर्विशेषैरभिहन्यते व्रणो विविधवेदनोपद्रुतश्च दुष्टतामुपैत्यालेपनादीनि चास्य विशोषमुपयान्ति ॥

1.18.30

चूर्णितं मथितं भग्नं विश्लिष्टमतिपातितम् ।

1.18.30

अस्थिस्नायुसिराच्छिन्नमाशु बन्धेन रोहति ॥

1.18.31

सुखमेवं व्रणी शेते सुखं गच्छति तिष्ठति ।

1.18.31

सुखं शय्यासनस्थस्य क्षिप्रं संरोहति व्रणः ॥

1.18.32

अबन्ध्याः पित्तरक्ताभिघातविषनिमित्ता यदा च शोफदाहपाकरागतोदवेदनाभिभूताः क्षाराग्निदग्धाः पाकात् प्रकुथितप्रशीर्णमांसाश्च भवन्ति ॥

1.18.33

कुष्ठिनामग्निदग्धानां पिडका मधुमेहिनाम् ।

1.18.33

कर्णिकाश्चोन्दुरुविषे विषजुष्टव्रणाश्च ये ॥

1.18.34

मांसापाके न बध्यन्ते गुदपाके च दारुणे ।

1.18.34

स्वबुद्ध्या चापि विभजेत्कृत्याकृत्यांश्च बुद्धिमान् ॥

1.18.35

देशं दोषं च विज्ञाय व्रणं च व्रणकोविदः ।

1.18.35

ऋतूंश्च परिसंख्याय ततो बन्धान्निवेशयेत् ॥

1.18.36

ऊर्ध्वं तिर्यगधस्ताच्च यन्त्रणा त्रिविधा स्मृता ।

1.18.36

यथा च बध्यते बन्धस्तथा वक्ष्याम्यशेषतः ॥

1.18.37

घनां कवलिकां दत्त्वा मृदु चैवापि पट्टकम् ।

1.18.37

विकेशिकामौषधं च नातिस्निग्धं समाचरेत् ॥

1.18.38

प्रक्लेदयत्यतिस्निग्धा तथा रूक्षा क्षिणोति च ।

1.18.38

युक्तस्नेहा रोपयति दुर्न्यस्ता वर्त्म घर्षति ॥

1.18.39

विषमं च व्रणं कुर्यात् स्तम्भयेत् स्रावयेत्तथा ।

1.18.39

यथाव्रणं विदित्वा तु योगं वैद्यः प्रयोजयेत् ॥

1.18.40

पित्तजे रक्तजे वापि सकृतेव परिक्षिपेत् ।

1.18.40

असकृत् कफजे वापि वातजे च विचक्षणः ॥

1.18.41

तलेन प्रतिपीड्याथ स्रावयेदनुलोमतः ।

1.18.41

सर्वांश्च बन्धान् गूढान्तान् सन्धींश्च विनिवेशयेत् ॥

1.18.42

ओष्ठस्याप्येष सन्धाने यथोद्दिष्टो विधिः स्मृतः ।

1.18.42

बुद्ध्योत्प्रेक्ष्याभियुक्तेन तथा चास्थिषु जानता ॥

1.18.43

उत्तिष्ठतो निषण्णस्य शयनं वाधिगच्छतः ।

1.18.43

गच्छतो विविधैर्यानैर्नास्य दुष्यति स व्रणः ॥

1.18.44

ये च स्युर्मांससंस्था वै त्वग्गताश्च तथा व्रणाः ।

1.18.44

सन्ध्यस्थिकोष्ठप्राप्ताश्च सिरास्नायुगतास्तथा ॥

1.18.45

तथावगाढगम्भीराः सर्वतो विषमस्थिताः ।

1.18.45

नैते साधयितुं शक्या ऋते बन्धाद्भवन्ति हि ॥

मूल पाठ: Suśrutasaṃhitā · Edition: ed. Yādavaśarman Trivikrama Ācārya (Nirnaya Sagar Press); e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc