सुखावतीव्यूह, विस्तरमातृका · श्लोक vs_13-18
सचि मि उपगतस्य बोधिमण्डं दशदिशि प्रव्रजि नामधेयु क्षिप्रम् ।
पृथु बहव अनन्त बुद्धक्षेत्रा माह सिया बलप्राप्तु लोकनाथः
सचि खु अहु रमेय कामभोगां स्मृतिमतिया गतिया विहीनु सन्तः ।
अतुल शिव समेयमान बोधिं माह सिया बलप्राप्तु शास्त्र लोके
विपुलप्रभ अतुल्यनन्त नाथ दिशि विदिशि स्फुरि सर्वबुद्धक्षेत्रा ।
राग प्रशमि सर्वदोषमोहां नरकगतिस्मि प्रशामि धूमकेतुम्
जनिय सुरुचिरं विशालनेत्रं विधुनिय सर्वनराण अन्धकारम् ।
अपनिय सु न अक्षणानशेषां उपनयि स्वर्गगताननन्ततेजां
न तपति नभ चन्द्रसूर्यआभा मणिगण अग्निप्रभा न देवतानाम् ।
अभिभवति नरेन्द्र आभ सर्वां पुरिमचरिं परिशुद्ध आचरित्वा
पुरुषवरु निधान दुःखितानां दिशि विदिशासु न अस्ति एवरूपः ।
कुशलशतसहस्रसर्वपूर्ण पर्षगरो नदि बुद्धसिंहनादम्
पुरिमजिन स्वयंभु सत्करित्वा व्रततपकोटि चरित्व अप्रमेयाम् ।
प्रवरवरसमे ऽस्मि ज्ञानस्कन्ध प्रणिधिबलप्रतिपूर्ण सत्त्वसारो
यथ भगव असङ्गज्ञानदर्शी त्रिविध प्रजानति संस्कृते नरेन्द्रः ।
अहमपि सिय तुल्यदक्षिणीयो विदुप्रवरो नरनायको नराणाम्
सचि मि अयु नरेन्द्र एवरूपा प्रणिधि समृध्यति बोधि प्रापुणित्वा ।
चलतु अय सहस्रलोकधातु कुसुमप्रवर्षण भातु देवसंघां
प्रचलित वसुधा प्रवर्षि पुष्पाः तूर्यशता गगने ऽथ संप्रणेदुः ।
दिव्यरुचिरचन्दनस्य चूर्णा अवकिरि चैव भविष्य लोकि बुद्धः
इति
स्तर्त् सुख्व् 10:
एवंरूपया आनन्द प्रणिधानसंपदा स धर्माकरो भिक्षुर्बोधिसत्त्वो महासत्त्वः समन्वागतो ऽभूत् । एवंरूपया चानन्द प्रणिधानसंपदा अल्पका बोधिसत्त्वाः समन्वागताः । अल्पकानां चैवंरूपाणां प्रणिधीनां लोके प्रादुर्भावो भवति परीत्तानाम् । न पुनः सर्वशो नास्ति । स खलु पुनरानन्द धर्माकरो भिक्षुस्तस्य भगवतो लोकेश्वरराजस्य तथागतस्य पुरतः सदेवकस्य लोकस्य समारकस्य सब्रह्मकस्य सश्रमणब्राह्मणिकायाः प्रजायाः सदेवमानुषासुरायाः पुरत इमानेवंरूपान् प्रणिधानविशेषान्निर्दिश्य यथाभूतप्रतिज्ञाप्रतिपत्तिप्रतिष्ठितो ऽभूत् । स इमामेवंरूपां बुद्धक्षेत्रपरिशुद्धिं बुद्धक्षेत्रमाहात्म्यं बुद्धक्षेत्रोदारतां समुदानयन् बोधिसत्त्वचर्यां चरन् अप्रमेयासंख्येयाचिन्त्यातुल्यामाप्यापरिमाणानभिलाप्यानि वर्षकोटीनियुतशतसहस्राणि न जातु कामव्यापादविहिंसावितर्कान् वितर्कितवान्,न जातु कामव्यापादविहिंसासंज्ञामुत्पादितवान्, न जातु रूपशब्दगन्धरसस्प्रष्टव्यसंज्ञामुत्पादितवान् । स दहरमनोहर एव सुरतो ऽभूत्सुखसंवासो ऽधिवासनजातीयः सुभगः सुपोषो ऽल्पेच्छः संतुष्टः प्रविविक्तो ऽदुष्टो ऽमूढो ऽशङ्को ऽजिह्मो ऽशठो ऽमायावी सुखिलोमः प्रियालापो नित्याभियुक्तः शुक्लधर्मपर्येष्टौ सुनिक्षिप्तधुरः सर्वसत्त्वानामर्थाय महाप्रणिधानं समुदानितवान् बुद्धधर्मसंघाचार्योपाध्यायकल्याणमित्रसगौरवो नित्यसंनद्धो बोधिसत्त्वचर्यायामार्जवो मार्दवो ऽकुहको ऽनिलपको गुणवान् पूर्वंगमः सर्वकुशलधर्मसमादापनतायै शून्यतानिमित्ताप्रणिहितानभिसंस्कारानुत्पादविहारैर्निर्मानः स्वारक्षितवाक्यश्चाभूत् । बोधिसत्त्वचर्यां चरन् स यद्वाक्कर्मोत्सृष्टमात्मपरोभयव्यापादाय संवर्तते, तथाविधं त्यक्त्वा यद्वाक्कर्म स्वपरोभयहितसुखसंवर्तकं तदेवाभिप्रयुक्तवान् । एवं च सम्प्रजानो ऽभूत् यद्ग्रामनगरनिगमजनपदराष्ट्रराजधानीष्ववतरन्न जातु रूपशब्दगन्धरसस्प्रष्टव्यधर्मेष्वनुनीतो ऽभूदप्रतिहतः । स बोधिसत्त्वचर्यायां चरन् स्वयं च दानपारमितायामचरत् परांश्च तत्रैव समादापितवान्, स्वयं च शीलक्षान्तिवीर्यध्यानप्रज्ञापारमितास्वचरत्, परांश्च तत्रैव समादापितवान् । तथारूपाणि च कुशलमूलानि समुदानीतवान्,यैः समन्वागतो यत्रयत्रोपपद्यते, तत्र तत्र अस्यानेकानि निधानकोटीनियुतशतसहस्राणि धरण्याः प्रादुर्भवन्ति । तेन बोधिसत्त्वचर्यां चरता तावदप्रमेयासंख्येयानि सत्त्वकोटीनियुतशतसहस्राण्यनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापितानि, येषां न सुकरं वाक्कर्मणा पर्यन्तमधिगन्तुम् । तावदप्रमेयासंख्येया बुद्धा भगवन्तः सत्कृता गुरुकृता मानिताः पूजिताश्चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सर्वसुखोपधानस्पर्शविहारैः प्रतिपादिताः । यावन्तः सत्त्वाः श्रेष्ठिगृहपत्यमात्यक्षत्रियब्राह्मणमहाशालकुलेषु प्रतिष्ठापिताः, तेषां न सुकरो वाक्कर्मनिर्देशेन पर्यन्तो ऽधिगन्तुम् । एवं जाम्बूद्वीपेश्वराश्च प्रतिष्ठापिताश्चक्रवर्तित्वे लोकपालत्वे शक्रत्वे सुयामत्वे ( सुख्व्, वैद्य 233 ) सुतुषितत्वे सुनिर्मितत्वे सुवशवर्तित्वे देवराजत्वे महाब्रह्मत्वे च प्रतिष्ठापिताः । तावदप्रमेयासंख्येया बुद्धा भगवन्तः सत्कृता गुरुकृता मानिताः पूजिताश्चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सर्वसुखोपधानस्पर्शविहारैः प्रतिपादिताः । यावन्तः सत्त्वाः श्रेष्ठिगृहपत्यमात्यक्षत्रियब्राह्मणमहाशालकुलेषु प्रतिष्ठापिताः, तेषां न सुकरो वाक्कर्मनिर्देशेन पर्यन्तो ऽधिगन्तुम् । एवं जाम्बूद्वीपेश्वराश्च प्रतिष्ठापिताश्चक्रवर्तित्वे लोकपालत्वे शक्रत्वे सुयामत्वे सुतुषितत्वे सुनिर्मितत्वे वशवर्तित्वे देवराजत्वे महाब्रह्मत्वे च प्रतिष्ठापिताः । तावदप्रमेयासंख्येया बुद्धा भगवन्तः सत्कृता गुरुकृता मानिताः पूजिता धर्मचक्रप्रवर्तनार्थं चाधीष्टाः,येषां न सुकरो वाक्कर्मनिर्देशेन पर्यन्तो ऽधिगन्तुम् । स एवंरूपं कुशलं समुदानयत्,यदस्य बोधिसत्त्वचर्यां चरतो ऽप्रमेयासंख्येयाचिन्त्यातुल्यामाप्यापरिमाणानभिलाप्यानि कल्पकोटीनियुतशतसहस्राणि सुरभिर्दिव्यातिक्रान्तचन्दनगन्धो मुखात्प्रवाति स्म । सर्वरोमकूपेभ्य उत्पलगन्धो वाति स्म । सर्वलोकाभिरूपश्चाभूत्प्रासादिको दर्शनीयः परमशुभवर्णपुष्कलतया समन्वागतः लक्षणव्यञ्जनसमलंकृतेनात्मभावेन । तस्य सर्वरत्नालकाराः सर्ववस्त्रचीवराभिनिर्हाराः सर्वपुष्पधूपगन्धमाल्यविलेपनच्छत्रध्वजपताकाभिनिर्हाराः सर्ववाद्यसंगीत्यभिनिर्हाराश्च सर्वरोमकूपेभ्यः पाणितलाभ्यां च निश्चरन्ति स्म । सर्वान्नपानखाद्यभोज्यलेह्यरसाभिनिर्हाराः सर्वोपभोगपरिभोगाभिनिर्हाराश्च पाणितलाभ्यां प्रस्यन्दन्तः प्रादुर्भवन्ति स्म । इति हि सर्वपरिष्कारवशिताप्राप्तः स आनन्द धर्माकरो भिक्षुरभूत् पूर्वं बोधिसत्त्वचर्यां चरन्
स्तर्त् सुख्व् 11:
एवमुक्ते आयुष्मानानन्दो भगवन्तमेतदवोचत् - किं पुनर्भगवन् स धर्माकरो भिक्षुर्बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यातीतः परिनिर्वृतः, उताहो ऽनभिसंबुद्धः अथ प्रत्युत्पन्नो ऽभिसंबुद्ध एतर्हि तिष्ठति ध्रियते यापयति धर्मं च देशयति? भगवानाह - न, खलु पुनरानन्द स तथागतो ऽतीतो न अनागतः । अपि त्वेव स तथागतो ऽर्हन् सम्यक्संबोधिमभिसंबुद्ध एतर्हिं तिष्ठति ध्रियते यापयति धर्मं च देशयति पश्चिमायां दिशि इतो कोटीनियुतशतसहस्रतमे च बुद्धक्षेत्रे सुखावत्यां लोकधातावमिताभो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो ऽपरिमाणैर्बोधिसत्त्वैः परिवृतः पुरस्कृतो ऽनन्तैः श्रावकैरनन्तया बुद्धक्षेत्रसंपदा समन्वागतः
स्तर्त् सुख्व् 12:
अमिता चास्य प्रभा यस्य न सुकरं प्रमाणपर्यन्तमधिगन्तुम् - इयन्ति बुद्धक्षेत्रशतानि, इयन्ति बुद्धक्षेत्रसहस्राणि, इयन्ति बुद्धक्षेत्रशतसहस्राणि, इयन्ति बुद्धक्षेत्रकोटीनि, इयन्ति बुद्धक्षेत्रकोटीशतानि, इयन्ति बुद्धक्षेत्रकोटीसहस्राणि, इयन्ति बुद्धक्षेत्रकोटीशतसहस्राणि, इयन्ति बुद्धक्षेत्रकोटीनियुतशतसहस्राणि स्फरित्वा तिष्ठतीति । अपि तु खलु पुनरानन्द संक्षिप्तेन पूर्वस्यां दिशि गङ्गानदीवालुकोपमानि बुद्धक्षेत्रकोटीनियुतशतसहस्राणि तया तस्य भगवतो ऽमिताभस्य प्रभया सदा स्फुटानि । एवं दक्षिणपश्चिमोत्तरास्वध ऊर्ध्वं दिग्विदिक्षु च एकैकस्यां दिशि समन्ताद्गङ्गानदीवालुकोपमानि यावद्बुद्धक्षेत्रकोटीनियुतशतसहस्राणि ( सुख्व्, वैद्य 234 ) तस्य भगवतो ऽमिताभस्य प्रभया सदा परिस्फुटानि स्थापयित्वा बुद्धान् भगवतः पूर्वप्रणिधानाधिष्ठानेन ये व्यामप्रभया एकद्वित्रिचतुःपञ्चदशविंशतित्रिंशच्चत्वारिंशत्पञ्चाशद्योजनप्रभया योजनशतप्रभया योजनसहस्रप्रभया योजनशतसहस्रप्रभया यावदनेकयोजनकोटीनियुतशतसहस्रप्रभया वा लोकं स्फरित्वा तिष्ठन्ति । नास्त्यानन्द उपमोपन्यासो येन शक्यं तस्यामिताभस्य तथागतस्य प्रभायाः प्रमाणमुद्ग्रहीतुम् । तदनेनानन्द पर्यायेण स तथागतो ऽमिताभ इत्युच्यते, अमितप्रभो ऽमितप्रभासो ऽसमाप्तप्रभो ऽसंगतप्रभः प्रभाशिखोत्सृष्टप्रभः सदिव्यमणिप्रभो ऽप्रतिहतरश्मिरागप्रभो राजनीयप्रभः प्रेमणीयप्रभः प्रमोदनीयप्रभः संगमनीयप्रभ उपोषणीयप्रभो निबन्धनीयप्रभो ऽतिवीर्यप्रभो ऽतुल्यप्रभो ऽभिभूयनरेन्द्रामून्नयेन्द्रप्रभः(?) श्रान्तसंचयेन्दुसूर्यजिह्मीकरणप्रभो ऽभिभूय लोकपालशक्रब्रह्मशुद्धावासमहेश्वरसर्वदेवजिह्मीकरणप्रभ इत्युच्यते । सा च आर्यप्रभा विमला विपुला कायसुखसंजननी चित्तौद्विल्यकरणी देवासुरनागयक्षगन्धर्वगरुडमहोरगकिन्नरमनुष्यामनुष्याणां प्रीतिप्रामोद्यसुखकरणी कुशलाशयानां सत्त्वानां कल्यकुशलमिमिणेवद्विप्रामोद्यकरणी(?) ये ऽन्येष्वप्यनन्तापर्यन्तेषु बुद्धक्षेत्रेषु । अनेन चानन्द पर्यायेण तथागतः परिपूर्णं कल्पं भाष्येत् तस्यामिताभस्य तथागतस्य नाम कर्मोपादाय प्रभामारभ्य, न च शक्नोति गुणपर्यन्तमधिगन्तुं तस्याः प्रभायाः, तथागतस्य वैशारद्योपच्छेदो भवेत् । तत्कस्य हेतोः? उभयमप्येतदानन्द अप्रमेयमसंख्येयमचिन्त्यापर्यन्तं यदिदं तस्य भगवतो ऽमिताभस्य तथागतस्य प्रभागुणविभूतिः, तथागतस्य चानुत्तरं प्रज्ञाप्रतिभानम्
स्तर्त् सुख्व् 13:
तस्य खलु पुनरानन्द अमिताभस्य तथागतस्याप्रमेयः श्रावकसंघो यस्य न सुकरं प्रमाणमुद्ग्रहीतुम् - इयत्यः श्रावककोट्यः,इयन्ति श्रावककोटीशतानि, इयन्ति श्रावककोटीसहस्राणि, इयन्ति श्रावककोटीशतसहस्राणि, इयन्ति कंकराणि, इयन्ति बिम्बराणि, इयन्ति नयुतानि, इयन्त्ययुतानि, इयन्त्यक्षोभ्याणि, इयन्तो विवाहाः, इयन्ति स्रोतांसि, इयन्ति ओजांसि, इयन्त्यप्रमेयाणि, इयन्त्यसंख्येयानि, इयन्त्यगण्यानि, इयन्त्यतुल्यानि, इयन्त्यचिन्त्यानीति । तद्यथा आनन्द भिक्षुर्मौद्गल्यायन ऋद्धिवशिताप्राप्तः । स आकाङ्क्षन् त्रिसाहस्रमहासाहस्रलोकधातौ यावन्ति तारारूपाणि तानि सर्वाण्येकरात्रिदिने नगरेण गणयेत्, एवंरूपाणां च ऋद्धिमतां कोटीनियुतशतसहस्रं भवेत्, ते च वर्षकोटीनियुतशतसहस्रमनन्यकर्मणा अमिताभस्य तथागतस्य प्रथमश्रावकसंनिपातं गणयेयुः । एभिर्गणयद्भिः शततमो ऽपि भागो न गणितो भवेत्, सहस्रतमो ऽपि शतसहस्रतमो ऽपि, यावत्कलामपि उपमामपि उपनिसामपि न गणितो भवेत् । तद्यथा आनन्द महासमुद्राच्चतुरशीतियोजनसहस्राण्यावेधेन तिर्यगप्रमेयात् कश्चिदेव पुरुषः शतधा भिन्नया बालाग्रकोट्या एकमुदकबिन्दुमभ्युत्क्षिपेत्, तत्किं मन्यसे आनन्द कतमो ऽत्र बहुतरः - यो वा शतधा भिन्नया बालाग्रकोट्याभ्युत्क्षिप्त एक उदकबिन्दुः, यो वा महासमुद्रे ऽप्सकन्धो ऽवशिस्ट इति? आनन्द आह - योजनसहस्रमपि तावद्भगवन् महासमुद्रस्य परीत्तं भवेत् किमङ्ग पुनः शतधा भिन्नया बालाग्रकोट्या ( सुख्व्, वैद्य 235 ) उत्क्षिप्त एक उदकबिन्दुः । भगवानाह - तद्यथा स एकबिन्दुः, इयत्तमः स प्रथमसंनिपातो ऽभूत् । तैर्मौद्गल्यायनसदृशैर्भिक्षुभिर्गणयद्भिस्तेन वर्षकोटीनियुतशतसहस्रेण गणितं भवेत्, यथा महासमुद्रे ऽप्स्कन्धो ऽवशिष्टः । एवमगणितं द्रष्टव्यम् । कः पुनर्वादो द्वितीयतृतीयादीनां श्रावकसंनिपातानाम् । एवमनन्तापर्यन्तस्तस्य भगवतः श्रावकसंघो यो ऽप्रमेयासंख्येय इत्येव संख्यां गच्छति
स्तर्त् सुख्व् 14:
अपरिमितं च आनन्द तस्य भगवतो ऽमिताभस्य तथागतस्यायुःप्रमाणं यस्य न सुकरं प्रमाणमधिगन्तुम्, इयन्ति वा कल्पशतानि, इयन्ति वा कल्पसहस्राणि, इयन्ति वा कल्पशतसहस्राअणि, इयत्यो वा कल्पकोट्यः, इयन्ति वा कल्पकोटीशतानि, इयन्ति वा कल्पकोटीसहस्राणि, इयन्ति वा कल्पकोटीशतसहस्राणि, इयन्ति वा कल्पकोटीनियुतशतसहस्राणीति । अथ तर्हि आनन्द अपरिमितमेव तस्य भगवत् आयुःप्रमाणमपर्यन्तम् । तेन स तथागतो ऽमितायुरित्युच्यते । यथा चानन्द इह लोकधातौ कल्पगणनाप्रज्ञप्तिसंकेतः, तथा सांप्रतं दश कल्पास्तस्य भगवतो ऽमितायुषस्तथागतस्योत्पन्नस्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य
स्तर्त् सुख्व् 15:
तस्य खलु पुनरानन्द भगवतो ऽमिताभस्य सुखावती नाम लोकधातुरृद्धा च स्फीता च क्षेमा च सुभिक्षा च रमणीया च बहुदेवमनुष्याकीर्णा च । तत्र खल्वानन्द लोकधातौ न निरयाः सन्ति न तिर्यग्योनिर्न प्रेतविषयो नासुराः काया नाक्षणोपपत्तयः । न च तानि रत्नानि लोके प्रचरन्ति यानि सुखावत्यां लोकधातौ विद्यन्ते
स्तर्त् सुख्व् 16:
सा खल्वानन्द सुखावती लोकधातुः सुरभिनानागन्धसमीरिता नानापुष्पफलसमृद्धा रत्नवृक्षसमलंकृता तथागताभिनिर्मितमनोज्ञस्वरनानाद्विजसंघनिषेविता । ते चानन्द रत्नवृक्षा नानावर्णा अनेकवर्णा अनेकशतसहस्रवर्णाः । सन्ति तत्र रत्नवृक्षाः सुवर्णवर्णाः सुवर्णमयाः । सन्ति रूप्यवर्णा रूप्यमयाः । सन्ति वैडूर्यवर्णा वैडूर्यमयाः । सन्ति स्फटिकवर्णाः स्फटिकमयाः । सन्ति मुसारगल्ववर्णा मुसारगल्वमयाः । सन्ति लोहितमुक्तावर्णा लोहितमुक्तामयाः । सन्त्यश्मगर्भवर्णा अश्मगर्भमयाः । सन्ति केचिद् द्वयो रत्नयोः सुवर्णस्य रूप्यस्य च । सन्ति त्रयाणां रत्नानां सुवर्णस्य रूप्यस्य वैडूर्यस्य च । सन्ति चतुर्णां रत्नानां सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य च । सन्ति पञ्चानां रत्नानां सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य मुसारगल्वस्य च । सन्ति षण्णां रत्नानां सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य मुसारगल्वस्य लोहितमुक्तायाश्च । सन्ति सप्तानां रत्नानां सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य मुसारगल्वस्य लोहितमुक्ताया अश्मगर्भस्य च सप्तमस्य । तत्रानन्द सुवर्णमयानां वृक्षाणां सुवर्णमयानि मूलस्कन्धविटपशाखापत्रपुष्पाणि, फलानि रूप्यमयाणि । रूप्यमयाणां वृक्षाणां रूप्यमयान्येव मूलस्कन्धविटपशाखापत्रपुष्पाणि, फलानि वैडूर्यमयाणि । वैडूर्यमयाणां वृक्षाणां वैडूर्यमयाणि मूलस्कन्धविटपशाखापत्रपुष्पाणि, फलानि स्फटिकमयानि । स्फटिकमयानां वृक्षाणां स्फटिकमयान्येव मूलस्कन्धविटपशाखापत्रपुष्पाणि, ( सुख्व्, वैद्य 236 ) फलानि च मुसारगल्वमयानि । मुसारगल्वमयानां वृक्षाणां मुसारगल्वमयान्येव मूलस्कन्धविटपशाखापत्रपुष्पाणि, फलानि च लोहितमुक्तामयानि । लोहितमुक्तामयानां वृक्षाणां लोहितमुक्तामयान्येव मूलस्कन्धविटपशाखापत्रपुष्पाणि, फलानि चाश्मगर्भमयाणि । अश्मगर्भमयाणां वृक्षाणामश्मगर्भमयाण्येव मूलस्कन्धविटपशाखापत्रपुष्पाणि, फलानि च सुवर्णमयानि । केषांचिदानन्द वृक्षाणां सुवर्णमयानि मूलानि, रूप्यमयाः स्कन्धाः, वैडूर्यमया विटपाः, स्फटिकमयाः शाखाः, मुसारगल्वमयानि पत्राणि, लोहितमुक्तामयानि पुष्पाणि, अश्मगर्भमयाणि फलानि । केषांचिदानन्द वृक्षाणां रूप्यमयाणि मूलानि, वैडूर्यमयाः स्कन्धाः, स्फटिकमया विटपाः, मुसारगल्वमयाः शाखाः, लोहितमुक्तामयानि पत्राणि, अश्मगर्भमयाणि पुष्पाणि, सुवर्णमयानि फलानि । केषांचिदानन्द वृक्षाणां वैडूर्यमयाणि मूलानि, स्फटिकमयाः स्कन्धाः, मुसारगल्वमया विटपाः, लोहितमुक्तामयाः शाखाः, अश्मगर्भमयाणि पत्राणि, सुवर्णमयानि पुष्पाणि, रूप्यमयाणि फलानि । केषांचिदानन्द वृक्षाणां स्फटिकमयानि मूलानि, मुसारगल्वमयाः स्कन्धाः, लोहितमुक्तामया विटपाः, अश्मगर्भमयाः शाखाः, सुवर्णमयानि पत्राणि, रूप्यमयाणि पुष्पाणि, वैडूर्यमयाणि फलानि । केषांचिदानन्द वृक्षाणां मुसारगल्वमयानि मूलानि, लोहितमुक्तामयाः स्कन्धाः, अश्मगर्भमया विटपाः, सुवर्णमयाः शाखाः, रूप्यमयाणि पत्राणि, वैडूर्यमयाणि पुष्पाणि, स्फटिकमयानि फलानि । केषांचिदानन्द वृक्षाणां लोहितमुक्तामयानि मूलानि, अश्मगर्भमयाः स्कन्धाः, सुवर्णमया विटपाः, रूप्यमयाः शाखाः, वैडूर्यमयाणि पत्राणि, स्फटिकमयानि पुष्पाणि, मुसारगल्वमयाणि फलानिकेषांचिदानन्द वृक्षाणामश्मगर्भमयाणि मूलानि, सुवर्णमयाः स्कन्धाः, रूप्यमया विटपाः, वैडूर्यमयाः शाखाः, स्फटिकमयानि पत्राणि, मुसारगल्वमयानि पुष्पाणि, लोहितमुक्तामयानि फलानि । केषांचिदानन्द वृक्षाणां सप्तरत्नमयानि मूलानि, सप्तरत्नमयाः स्कन्धाः, सप्तरत्नमया विटपाः, सप्तरत्नमयाः शाखाः, सप्तरत्नमयानि पत्राणि, सप्तरत्नमयानि पुष्पाणि, सप्तरत्नमयानि फलानि । सर्वेषां चानन्द तेषां वृक्षाणां मूलस्कन्धविटपशाखापत्रपुष्पफलानि सुखसंस्पर्शानि सुगन्धीनि । वातेन प्रेरितेन च तेषां वल्गुमनोज्ञघोषो निश्चरत्यसेचनको ऽप्रतिकूलः श्रवणाय । एवंरूपैरानन्द सप्तरत्नमयैर्वृक्षैः संततं तद्बुद्धक्षेत्रं समन्ताच्च कदलीस्कन्धैः सप्तरत्नमयै रत्नतालपङ्क्तिभिश्चानुपरिक्षिप्तं सर्वतश्च हेमजालप्रतिच्छन्नं समन्तश्च सर्वरत्नमयैः पद्मैः संछन्नम् । सन्ति तत्र पद्मान्यर्धयोजनप्रमाणानि, सन्ति योजनप्रमाणानि, सन्ति द्वित्रिचतुःपञ्चयोजनप्रमाणानि, सन्ति यावद्दशयोजनप्रमाणानि । सर्वतश्च रत्नपद्मात्षट्त्रिंशद्रश्मिकोटीशतसहस्राणि निश्चरन्ति । सर्वतश्च रश्मिमुखात्षट्त्रिंशद्बुद्धकोटीशतसहस्राणि निश्चरन्ति सुवर्णमयवर्णैः कायैर्द्वात्रिंशन्महापुरुषलक्षणधरैः, यानि पूर्वस्यां दिश्यप्रमेयासंख्येयासु लोकधातुषु गत्वा सत्त्वेभ्यो धर्मं देशयन्ति । एवं दक्षिणपश्चिमोत्तरासु दिक्षु अध ऊर्ध्वमनुविदिक्षु गतावरणे लोके ऽप्रमेयासंख्येयांल्लोकधातून् गतिं गत्त्वा सत्त्वेभ्यो धर्मं देशयन्ति
स्तर्त् सुख्व् 17:
तस्मिन् खलु पुनरानन्द बुद्धक्षेत्रे सर्वशः कालपर्वता न सन्ति सर्वतो रत्नपर्वताः सर्वशः सुमेरवः पर्वतराजाः सर्वशश्चक्रवाला महाचक्रवालाः पर्वतराजाः । समन्ताच्च तद्बुद्धक्षेत्रं समं रमणीयं पाणितलजातं नानाविधरत्नमणिचितभूमिभागम् । एवमुक्ते आयुष्मानानन्दो भगवन्तमेतदवोचत् - ये च पुनस्ते भगवंश्चातुर्महाराजकायिका देवाः सुमेरुपार्श्वनिवासिनस्त्रायस्त्रिंशा वा सुमेरुमूर्ध्नि निवासिनः, ते कुत्र प्रतिष्ठिताः? भगवानाह - तत्किं मन्यसे आनन्द ये ते इह सुमेरोः पर्वतराजस्योपरि यामा देवास्तुषिता वा निर्माणरतयो वा परनिर्मितवशवर्तिनो वा ब्रह्मकायिका वा ब्रह्मपुरोहिता वा महाब्रह्माणो व यावदकनिष्ठा वा, कुत्र ते प्रतिष्ठिता इति । आनन्द आह - अचिन्त्यो भगवन् कर्मणां विपाकः कर्माभिसंस्कारः । भगवानाह - लब्धस्त्वयानन्द इहाचिन्त्यः कर्मणां विपाकः कर्माभिसंस्कारो न बुद्धानां भगवतामचिन्त्यं बुद्धाधिष्ठानं कृतपुण्यानां च सत्त्वानामवरोपितकुशलमूलानाम् । तवाचिन्त्या पुण्या विभूतिः । आनन्द आह - न मे ऽत्र भगवन् काचित्काङ्क्षा वा विमतिर्वा विचिकित्सा वा । अपि तु खल्वहमनागतानां सत्त्वानां काङ्क्षाविमतिविचिकित्सानिर्घाताय तथागतमेतदर्थं परिपृच्छामि । भगवानाह - साधु साध्वानन्द,एवं ते करणीयम्
स्तर्त् सुख्व् 18:
तस्यां खल्वानन्द सुखावत्यां लोकधातौ नानाप्रकारा नद्यः प्रचरन्ति । सन्ति तत्र महानद्यो योजनविस्ताराः । सन्ति यावद्विंशतित्रिंशच्चत्वांरिशत्पञ्चाशद्योजनविस्तारा यावद्द्वादशयोजनावेधाः । सर्वाश्च ता नद्यः सुखवाहिन्यो नानासुरभिगन्धवारिवाहिन्यो नानारत्नलुलितपुष्पसंघातवाहिन्यो नानामधुरस्वरनिर्घोषाः । तासां चानन्द कोटिशतसहस्राङ्गसंप्रयुक्तस्य दिव्यसंगीतिसमूर्च्छितस्य तूर्यस्य कुशलैः संप्रवादितस्य तावन्मनोज्ञघोषो निश्चरति यथारूपस्तासां महानदीनां निर्घोषो निश्चरति गम्भीरो ऽज्ञेयो ऽविज्ञेयो ऽनेलः कर्णसुखो हृदयंगमः प्रेमणीयो वल्गुर्मनोज्ञो ऽसेचनको ऽप्रतिकूलः श्रवणाय, अनित्यं शान्तमनात्मेति सुखश्रवनीयो यस्तेषां सत्त्वानां श्रोत्रेन्द्रियाभासमागच्छति । तासां खलु पुनरानन्द महानदीनामुभयतस्तीराणि नानागन्धरत्नवृक्षैः संततानि, येभ्यो नानाशाखापत्रपुष्पमञ्जर्यो ऽवलम्बन्ते । तत्र ये सत्त्वास्तेषु नदीतीरेष्वाकाङ्क्षन्ति दिव्याभिरामरमणीयां रतिक्रीडां चानुभवितुम्, तेषां तत्र नदीष्ववतीर्णानामाकाङ्क्षतां गुल्फमात्रं वारि संतिष्ठते । आकाङ्क्षतां जानुमात्रं कटिमात्रं कक्षमात्रम्, आकाङ्क्षतां कर्णमात्रं वारि संतिष्ठते, दिव्याश्च रतयः प्रादुर्भवन्ति । तत्र ये सत्त्वा आकाङ्क्षन्ति शीतं वारि भवत्विति,तेषां शीतं वारि भवति । य आकाङ्क्षन्युष्णं भवत्विति, तेषामुष्णं भवति । य आकाङ्क्षन्ति शीतोष्णं भवत्विति,तेषां शीतोष्णमेव तद्वारि भवत्यनुसुखम् । ताश्च महानद्यो दिव्यतमालपत्रागरुकालानुसारितगरोरगसारचन्दनवरगन्धवासितवारिपरिपूर्णाः प्रवहन्ति दिव्योत्पलपद्मकुमुदपुण्डरीकसौगन्धिकादिपुष्पसंछन्ना हंससारसक्रौञ्चचक्रवाककारण्डवशुकशारिककोकिलकुणालकलविङ्कमयूरादिमनोज्ञ - स्वरास्तथागताभिनिर्मितपक्षिसंघनिषेवितपुलिना धार्तराष्ट्रोपशोभिताः सूपतीर्था विकर्दमाः सुवर्णवालुकासंकिर्णाः । तत्र यदा ते सत्त्वा आकाङ्क्षन्ति कीदृशा ( सुख्व्, वैद्य 238 ) अस्माकमभिप्रायाः परिपूर्यन्तामिति, तदा तेषां तादृशा एवाभिप्राया परिपूर्यन्ते । यश्चासावानन्द तस्य वारिणो निर्घोषः स मनोज्ञो निश्चरति, येन सर्वावत्तद्बुद्धक्षेत्रमभिज्ञाप्यते । ये च सत्त्वा नदीतीरेषु स्थिता आकाङ्क्षन्ति मा अस्माकमयं शब्दः श्रोत्रेन्द्रियावभासमागच्छत्विति, तेषां न दिव्यस्यापि श्रोत्रेन्द्रियस्यावभासमागच्छति । यश्च यथारूपं शब्दमाकाङ्क्षति श्रोतुम्, स तथारूपमेव मनोज्ञं शब्दं शृणोति । तद्यथा - बुद्धशब्दं धर्मशब्दं संघशब्दं पारमिताशब्दं भूमिशब्दं बलशब्दं वैशारद्यशब्दमावेणिकबुद्धधर्मशब्दं प्रतिसंविच्छब्दं शून्यतानिमित्ताप्रणिहितानभिसंस्काराजातानुत्पादाभावनिरोधशब्दं शान्तप्रशान्तोपशान्तं महामैत्रीमहाकरूणामहामुदितामहोपेक्षाशब्दमनुत्पत्तिकधर्मक्षान्त्यभिषेकभूमिप्रतिलम्भशब्दम् । श्रुत्वा उदारप्रीतिप्रामोद्यं प्रतिलभते विवेकसहगतं विरागसहगतं शान्तसहगतं निरोधसहगतं धर्मसहगतं बोधिपरिनिष्पत्तिकुशलमूलसहगतं च । सर्वशश्चानन्द सुखावत्यां लोकधातावकुशलशब्दो नास्ति, सर्वशो नीवरणशब्दो नास्ति, सर्वशो ऽपायदुर्गतिविनिपातशब्दो नास्ति, सर्वशो दुःखशब्दो नास्ति । अदुःखासुखवेदनाशब्दो ऽपि तावदानन्द तत्र नास्ति, कुतः पुनर्दुःखशब्दो भविष्यति? तदनेन आनन्द पर्यायेण सा लोकधातुः सुखावतीत्युच्यते संक्षिप्तेन, न पुनर्विस्तरेण कल्पो ऽप्यानन्द परिक्षयं गच्छेत्सुखावत्या लोकधातोः सुखकारणेषु परिकीर्त्यमानेषु, न त्वेव शक्यं तेषां सुखकारणानां पर्यन्तमधिगन्तुम्
मूल पाठ: Sukhāvatīvyūha, vistaramātṛkā · Edition: P.L. Vaidya: Mahāyāna-sūtra-saṃgrahaḥ, Part 1) Darbhanga : The Mithila Institute, 1961, pp. 221-253. (Buddhist Sanskrit Texts, 17) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0