भाषा

ENहिગુ
ग्रंथ पाठ

सुखावतीव्यूह, विस्तरमातृका · श्लोक 1-vs_12

1

सुखावतीव्यूहः । [विस्तरमातृका]
ओम् नमो रत्नत्रयाय । ओम् नमः श्रीसर्वबुद्धबोधिसत्त्वेभ्यः । नमो दशदिगनन्तापर्यन्तलोकधातुप्रतिष्ठितेभ्यः सर्वबुद्धबोधिसत्त्वार्यश्रावकप्रत्येकबुद्धेभ्यो ऽतीतानागतप्रत्युत्पन्नेभ्यः । नमो ऽमिताभाय । नमो ऽचिन्त्यगुणान्तरात्मने ॥
स्तर्त् सुख्व् 1:
एवं मया श्रुतम् । एकस्मिन् समये भगवान् राजगृहे विहरति स्म गृध्रकूटपर्वते महता भिक्षुसंघेन सार्धं द्वात्रिंशता भिक्षुसहस्रैः, सर्वैरर्हद्भिः क्षीणास्रवैर्निःक्लेशैरुषितवद्भिः सम्यगाज्ञासुविमुक्तचित्तैः परीक्षचित्तैः परिक्षीणभवसंयोजनैरनुप्राप्तस्वकार्थैर्विजितवद्भिरुत्तमदमथप्राप्तैः सुविमुक्तचित्तैः सुविमुक्तप्रज्ञैर्महानागैः षडभिज्ञैर्वशीभूतैरष्टविमोक्षध्यायिभिर्बलप्राप्तैरभिज्ञाताभिज्ञैः स्थविरैर्महाश्रावकैः । तद्यथा - आज्ञातकौण्डिन्येन च, अश्वजिता च,बाष्पेण च,महानाम्ना च, भद्रजिता च, यशोदेवेन च, विमलेन च,सुबाहुना च, पूर्णमैत्रायणीपुत्रेण च, उरुबिल्वाकाश्यपेन च, नदीकाश्यपेन च, गयाकाश्यपेन च, कुमारकाश्यपेन च, महाकाश्यपेन च, शारिपुत्रेण च, महामौद्गल्यायनेन च, महाकौष्ठिल्येन च, महाकफिलेन च, महाचुन्देन च, अनिरुद्धेन च, नन्दिकेन च, कम्पिलेन च, सुभूतिना च, रेवतेन च, खदिरवनिकेन च, वकुलेन च, स्वागतेन च, अमोघराजेन च, पारायणिकेन च, पत्केन च, चुल्लपत्केन च, नन्देन च,राहुलेन च,आयुष्मतानन्देन च,एतैश्चान्यैश्च अभिज्ञाताभिज्ञैः स्थविरैर्महाश्रावकैरेकं पुद्गलं स्थापयित्वा शैक्षप्रतिद्युत्तरिकरणीयं यदिदमायुष्मन्तमानन्दम् । मैत्रेयपूर्वंगमैश्च संबहुलैर्बोधिसत्त्वैर्महासत्त्वैः

2

स्तर्त् सुख्व् 2:
अथ खल्वायुष्मानान्द उत्थायासमादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् - विप्रसन्नानि तव भगवत इन्द्रियाणि, परिशुद्धश्छविवर्णः, पर्यवदातो मुखवर्णः पीतनिर्भासः । तद्यथापि नाम शारदं वनदं पाण्डुपरिशुद्धं पर्यवदातं पीतनिर्भासम्, एवमेव भगवतो विप्रसन्नानीन्द्रियाणि, परिशुद्धो मुखवर्णः, पर्यवदातश्छविवर्णः पीतनिर्भासः । तद्यथापि नाम भगवन् जाम्बूनदसुवर्णनिष्को दक्षेण कर्मारेण कर्मारान्तेवासिना वा उल्कामुखेन संप्रवेश्य सुपरिनिष्ठितः ( सुख्व्, वैद्य 222 ) पाण्डुकम्बल उपरिनिक्षिप्तो ऽतीव परिशुद्धो भवति पर्यवदातः पीतनिर्भासः, एवमेव भगवतो चिप्रसन्नानीन्द्रियाणि, परिशुद्धो मुखवर्णः, पर्यवदातश्छविवर्णः पीतनिर्भासः । न खलु पुनरहं भगवन् अभिजानामि इतः पूर्वतरमेवं विप्रसन्नानि तथागतस्येन्द्रियाणि एवं पोअरिशुद्धं मुखवर्णं पर्यवदातं छविवर्णं पीतनिर्भासम् । तस्य मे भगवन् एवं भवति - बुद्धविहारेण बताद्य तथागतो विहारति, जिनविहारेण सर्वज्ञताविहाएण । महानागविहारेण बताद्य तथागतो विहरति । अतीतानागतप्रत्युत्पन्नान् वा तथागतानर्हतः सम्यक्संबुद्धान् समनुस्मरतीति । एवमुक्ते भगवानायुष्मन्तमानन्दमेतदवोचत् - साधु साध्वानन्द । किं पुनस्ते देवता एतमर्थमारोचयन्ति, उताहो बुद्धा भगव्न्तः? अथ तेन प्रत्युत्पन्नमीमांसाज्ञानेनैवं प्रजानासीति? एवमुक्ते आयुष्मानानन्दो भगवन्तमेतदवोचत् - न मे भगवन् देवता एतमर्थमारोचयन्ति, नापि बुद्धा भगवन्तः । अथ तर्हि मे भगवंस्तेनैव प्रत्यात्ममीमांसाज्ञानेनैवं भवति - बुद्धविहारेणाद्य तथागतो विहरति । जिनविहारेण सर्वज्ञताविहारेण बताद्य तथागतो विहरति । अतीतानागतप्रत्युत्पन्नान् वा बुद्धान् भगवतः समनुस्मरतीति । एवमुक्ते भगवानायुष्मन्तमानन्दमेतदवोचत् - साधु साध्वानन्द । उदारः खलु ते उन्मिञ्जः,भद्रिका मीमांसा,कल्याणं प्रतिभानम् । बहुजनहिताय त्वमानन्द प्रतिपन्नो बहुजनसुखाय लोकानुकम्पायै महतो जनकाययार्थाय हिताय सुखाय देवानां च मनुष्याणां च, यस्त्वं तथागतमर्थं परिप्रष्टव्यं मन्यसे । एवमेव भगवत्सु आनन्दस्तथागतेष्वर्हत्सु सम्यक्संबुद्धेषु अप्रमेयेषु असंख्येयेषु ज्ञानदर्शनमुपसंहरेत्, न तथागतस्य ज्ञानमुपहन्येत । तत्कस्य हेतोः? अप्रतिहतहेतुज्ञानदर्शनो ह्यानन्द तथागतः । ज्ञानमाकाङ्क्षन्नानन्द तथागतः एकपिण्डपातेन कल्पं वा तिष्ठेत् कल्पशतं वा कल्पशतसहस्रं वा यावत्कल्पकोटीनियुतशतसहस्रं वा, ततो वोत्तरि तिष्ठेत्, न च तथागतस्येन्द्रियाण्युपनश्येयुः, न मुखवर्णस्यान्यथात्वं भवेत्, नापि च्छविवर्ण उपहन्येत । तत्कस्य हेतोः? तथा हि आनन्द तथागतः समाधिमुखपारमिताप्राप्तः । सम्यक्संबुद्धानामानन्द लोके सुदुर्लभः प्रादुर्भावः । तद्यथा औदुम्बरपुष्पाणां लोके प्रादुर्भावः सुदुर्लभो भवति, एवमेव आनन्द तथागतानामर्थकामानां हितैषीणामनुकम्पकानां महाकरुणाप्रतिपन्नानां सुदुर्लभः प्रादुर्भावः । अपि तु खल्वानन्द तथागतस्यैव सो ऽनुभावो यस्त्वं सर्वलोकाचार्याणां सत्त्वानां लोके प्रादुर्भावाय बोधिसत्त्वानां महासत्त्वानामर्थाय तथागतमेतमर्थं परिप्रष्टव्यं मन्यसे । तेन ह्यानन्द शृणु, साधु च सुष्ठु च मनसिकुरु । भाषिष्ये ऽहं ते । एवं भगवन् इत्यायुष्मानानन्दो भगवतः प्रत्यश्रौषीत्

3

स्तर्त् सुख्व् 3:
भगवानानन्दमेतदवोचत् - भूतपूर्वमानन्द अतीते ऽध्वनि इतो ऽसंख्येये कल्पे ऽसंख्येयतरे विपुले ऽप्रमेये ऽचिन्त्ये यदासीत् । तेन कालेन तेन समयेन दीपंकरो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उदपादि । दीपंकरस्यानन्द परेण परतरं प्रतापवान्नाम तथागतो ऽभूत् । तस्य परेण परतरं प्रभाकरो नाम तथागतो ऽभूत् । तस्य परेण परतरं चन्दनगन्धो नाम तथागतो ऽभूत् । तस्य परेण परतरं सुमेरुकल्पो नाम तथागतो ऽभूत् । ( सुख्व्, वैद्य 223 ) एवं चन्दनो नाम, विमलाननो नाम, अनुपलिप्तो नाम, विमलप्रभो नाम, नागाभिभूर्नाम, सूर्योदनो नाम, गिरिराजघोषो नाम, मेरुकूटो नाम, सुवर्णप्रभो नाम, ज्योतिष्प्रभो नाम, वैडूर्यनिर्भासो नाम, ब्रह्मघोषो नाम, चन्द्राभिभूर्नाम, तूर्यघोषो नाम, मुक्तकुसुमप्रतिमण्डितप्रभो नाम, श्रीकूटो नाम, सागरवरबुद्धिविक्रीडिताभिज्ञो नाम, वरप्रभो नाम, महागन्धराजनिर्भासो नाम, व्यपगतखिलमलप्रतिघोषो नाम, शूरकूटो नाम, रणंजहो नाम, महागुणधरबुद्धिप्राप्ताभिज्ञो नाम, चन्द्रसूर्यजिह्मीकरणो नाम, उत्तप्तवैडूर्यनिर्भासो नाम, चित्तधाराबुद्धिसंकुसुमिताभ्युद्गतो नाम, पुष्पावतीवनराजसंकुसुमिताभिज्ञो नाम, पुष्पाकरो नाम, उदकचन्द्रो नाम, अविद्यान्धकारविध्वंशनकरो नाम, लोकेन्द्रो नाम, मुक्तच्छ्त्रप्रवातसदृशो नाम, तिष्यो नाम, धर्ममतिविनन्दितराजो नाम, सिंहसागरजूऊटविनन्दितराजो नाम, सागरमेरुचन्द्रो नाम, ब्रम्हस्वरनादाभिनन्दितो नाम, कुसुमसंभवो नाम प्राप्तसेनो नाम, चन्द्रभानुर्नाम, चन्द्रप्रभो नाम, विमलनेत्रो नाम, गिरिराजघोषोश्वरो नाम, कुसुमप्रभो नाम, कुसुमवृष्ट्यभिप्रकीर्णो नाम, रत्नचन्द्रो नाम, पद्मबिम्ब्युपशोभितो नाम, चन्दनगन्धो नाम, रत्नाभिभासो नाम निमिर्नाम, महाव्यूहो नाम, व्यपगतखिलदोषो नाम, ब्रम्हघोषो नाम, सप्तरत्नाभिवृष्टो नाम, महागुणधरो नाम, महातमालपत्रचन्दनकर्दमो नाम, कुसुकाभिज्ञो नाम, अज्ञानविध्वंसनो नाम, केसरी नाम, मुक्तच्छत्रो नाम, सुवर्णगर्भो नाम, वैडूर्यगर्भो नाम, महाकेतुर्नाम, धर्मकेतुर्नाम, रत्नकेतुर्नाम, रत्नश्रीर्नाम, कोलेन्द्रो नाम, नरेन्द्रो नाम, कारुणिको नाम, लोकसुन्दरो नाम, ब्रम्हकेतुर्नाम, धर्मकेतुर्नाम, सिंहो नामसिंहमतिर्नाम । सिंहमतेरानन्द परेण परतरं लोकेश्वरराजो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । तस्य खलु पुनरानन्द लोकेश्वरराजस्य तथागत, स्यार्हतः सम्यक्संबुद्धस्य प्रवचने धर्माकरो नाम भिक्षुभूदधिमात्रं स्मृतिमान् मतिमान् गतिमान् प्रज्ञावन्, अधिमात्रं वीर्यवान् उदाराधिमुक्तिकः

vs_1

स्तर्त् सुख्व् 4:
अथ खल्वानन्द स धर्माकरो भिक्षुरुत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणजानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येनासौ भगवांल्लोकेश्वरराजस्तथागतस्तेनाञ्जलिं प्रणम्य भगवन्तं नमस्कृत्य तस्मिन्नेव समये संमुखमाभिर्गाथाभिरभ्यष्टावीत् -
अमितप्रभ अनन्ततुल्यबुद्धे न च इह अन्य प्रभा विभाति काचित् ।
सूर्यमणिगिरीशचन्द्रआभा न तपित भोसिषु एभि सर्वलोके

vs_2

रूपमपि अनन्तु अत्त्वसारे तथ अपि बुद्धस्वरो अनन्तघोषः ।
शीलमपि समाधिप्रज्ञवीर्यैः सदृशु न ते ऽस्तिह लोकि कश्चिदन्यः

vs_3

गभिरु विपुलु सूक्ष्मप्राप्तु धर्मो ऽचिन्तितु बुद्धवरो यथा समुद्रः ।
तेनोन्नमना न चास्ति शास्तुः खिलदोषान् जह्या अतो ऽधिकालम्

vs_4

अथ बुद्धबला अनन्ततेजा प्रतपति सर्वदिशा नरेन्द्रराजा ।
तथ अहु बुद्ध भवि धर्मस्वामी जरमरणात्प्रजां प्रमोचयेयम्

vs_5

दानशमथशीलक्षान्तिवीर्य ध्यानसमाधितश्चैव अग्रश्रेष्ठां ।
एभि अहु व्रतां समाददामि बुद्ध भविष्यमि सर्वसत्त्वत्राता

vs_6

बुद्धशतसहस्र कोट्यनेका यथरिव वालिक गङ्गया अनन्ता ।
सर्वत अहु पूजयिष्य नाथां शिववरबोधिगवेषको अतुल्यां

vs_7

गङ्गारजसमानलोकधातूं तत्र भूयो ऽन्तरि ये अनन्तक्षेत्राः ।
सर्वत्र प्रभ मुञ्चयिष्य तत्रा इति एतादृश वीर्यमारभिध्य

vs_8

क्षेत्र मम उदारु अग्र श्रेष्ठो वरमिह मली(?) संस्कृते ऽस्मिं ।
असदृश निर्वाणधातुसौख्यं तश्च(च्च?) असत्त्वतया विशोधयिष्ये

vs_9

दशदिशत समागतानि सत्त्वाः तत्र गता सुख मे दिशन्ति क्षिप्रम् ।
बुद्ध मम प्रमाणु अत्र शिक्षी अवितथवीर्यबलं जनेमि छन्दम्

vs_10

दशदिशलोकविदसङ्गज्ञानी सद मम चित्त प्रजानयन्ति ते ऽपि ।
अविचिगतु अहं सदा वसेयं प्रणिधिबलं न पुनर्विवर्तयिष्ये

5

स्तर्त् सुख्व् 5:
अथ खल्वानन्द स धर्माकरो भिक्षुस्तं भगवन्तं लोकेश्वरराजं तथागतं संमुखमाभिर्गाथाभिरभिष्टुत्य एतदवोचत् - अहमस्मि भगवन् उत्तरां सम्यक्संबोधिमभिसंबोद्धुकामः । पुनः पुनरनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयामि परिणामयामि । तस्य मे भगवान् शास्ता तथा धर्मं देशयतु, यथाहं क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् । असमसमस्तथागतो लोके भवेयम् । तांश्च भगवानाकारान् परिकीर्तयतु यैरहं बुद्धक्षेत्रस्य गुणव्यूहसंपदं परिगृह्णीयाम् । एवमुक्ते आनन्द भगवांल्लोकेश्वरराजस्तथागतस्तं भिक्षुमेतदवोचत् - तेन हि त्वं भिक्षो स्वयमेव बुद्धक्षेत्रगुणालंकारव्यूहसंपदं परिगृह्णीष्व । सो ऽवोचत् - नाहं भगवंस्तत्सहेयम्, अपि तु भगवानेव । भाषस्व अन्येषां तथागतानां बुद्धक्षेत्रगुणव्यूहालंकारसंपदम्, यां श्रुत्वा वयं सर्वाकारं परिपूरयिष्याम इति । अथानन्द स लोकेश्वरराजस्तथागतो ऽर्हन् सम्यक्संबुद्धस्तस्य भिक्षुराशयं ज्ञात्वा परिपूर्णां वर्षकोटीमेकाशीतिबुद्धकोटीनियुतशतसहस्राणां बुद्धक्षेत्रगुणालंकारव्यूहसंपदं साकारां सोद्देशां सनिर्देशां संप्रकाशितवानर्थकामो हितैषी अनुकम्पको ऽनुकम्पामुपादाय बुद्धक्षेत्रानुपच्छेदाय सत्त्वेषु महाकरुणां संजनयित्वा । परिपूर्णाश्चत्वारिंशत्कल्पास्तस्य भगवतस्तथागतस्यायुःप्रमाणम्

6

स्तर्त् सुख्व् 6:
अथ खल्वानन्द स धर्माकरो भिक्षुर्यास्तेषामेकाशीतिबुद्धकोटीनियुतशतसहस्राणां बुद्धक्षेत्रगुणालंकारव्यूहसंपदः, ताः सर्वा एके बुद्धक्षेत्रे परिगृह्य भगवतो लोकेश्वरराजस्य तथागतस्य पादौ शिरसा वन्दित्वा प्रदक्षिणीकृत्य तस्य भगवतो ऽन्तिकात्प्राक्रामत् । उत्तरि च पञ्च कल्पान् बुद्धक्षेत्रगुणालंकारव्यूहसंपदमुदारतरां प्रणीततरां च सर्वलोके दशसु दिक्षु अप्रचरितपूर्वां परिगृहीतवान्, उदारतरं च प्रणिधानमकार्षीत्

7

स्तर्त् सुख्व् 7:
इति ह्यानन्द या तेन भगवता लोकेश्वरराजेन तथागतेन तेषामेकाशीतिबुद्धक्षेत्रकोटीनियुतशतसहस्राणां संपत्तिः कथिता, ततो भिक्षुरेकाशीत्युदारप्रणीताप्रमेयतरां बुद्धक्षेत्रसंपत्तिं परिगृह्य येन स तथागतस्तेनोपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एतदवोचत् - परिगृहीता मे भगवन् बुद्धक्षेत्रगुणालंकारव्यूहसंपदिति । एवमुक्ते आनन्द स लोकेश्वरराजस्तथागतस्तं भिक्षुमेतदवोचत् - तेन हि भिक्षो भाषस्व, अनुमोदते तथागतः । अयं कालो भिक्षो, प्रमोदय पर्षदम्, हर्षं जनय, सिंहनादं नद,यं श्रुत्वा बोधिसत्त्वा महासत्त्वा एतर्ह्यनागते ऽध्वनि एवंरूपाणि बुद्धक्षेत्रगुणसंपत्तिप्रणिधिस्थानानि परिग्रहीष्यन्ति । अथानन्द स धर्माकरो भिक्षुस्तस्यां वेलायां भगवन्तमेतदवोचत् - तेन हि शृणोतु मे भगवान् ये मम प्रणिधानविशेषाः, यथा मे ऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य अचिन्त्यगुणालंकारव्यूहसमन्वागतं तद् बुद्धक्षेत्रं भविष्यति

8

स्तर्त् सुख्व् 8:
1. सचेन्मे भगवंस्तस्मिन् बुद्धक्षेत्रे निरयो वा तिर्यग्योनिर्वा प्रेतविषयो वा आसुरो वा कायो भवेत्, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ॥
2. सचेन्मे भगवंस्तस्य तत्र बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजाता भवेयुः, ते पुनस्ततश्च्युत्वा निरयं वा तिर्यग्योनिं वा प्रेतविषयं वा आसुरं वा कायं प्रपतेयुः,मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ॥
3. सचेन्मे भगवंस्तत्र बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजातास्ते च सर्वे नैकवर्णाः स्युर्यदिदं सुवर्णवर्णाः, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ॥
4. सचेन्मे भगवंस्तस्मिन् बुद्धक्षेत्रे देवानां च मनुष्याणां च नानात्वं प्रज्ञायेत अन्यत्र नाम संवृतिव्यवहारमात्रा देवमनुष्या इति संख्यागणनातः,मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ॥
5. सचेन्मे भगवंतस्मिन् बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजाताः, ते च सर्वे न ऋद्धिवशितापरमपारमिताप्राप्ता भवेयुः, अन्तश एकचित्तक्षणलवेन बुद्धक्षेत्रकोटीनियुतशतसहस्रातिक्रमणतयापि, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ॥
6. सचेन्मे भगवंस्तस्मिन् बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजाता भवेयुः, ते च सर्वे जातिस्मरा न स्युः, अन्तशः कल्पकोटीनियुतशतसहस्रानुस्मरणतयापि, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ॥
7. सचेन्मे भगवंस्तस्मिन् बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजायेरन्, ते सर्वे न दिव्यस्य चक्षुषो लाभिनो भवेयुः, अन्तशो लोकधातुकोटीनियुतशतसहस्रदर्शनतयापि, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ॥
8. सचेन्मे भगवंस्तस्मिन् बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजायेरन्, ते सर्वे न दिव्यस्य श्रोत्रस्य लाभिनो भवेयुः, अन्तशो बुद्धक्षेत्रकोटीनियुतशतसहस्रादपि युगपत्सद्धर्मश्रवणतया, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ॥
9. सचेन्मे भगवंस्तस्मिन् बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजायेरन्, ते सर्वे न परचित्तज्ञानकोविदा भवेयुः, अन्तशो बुद्धक्षेत्रकोटीनियुतशतसहस्रपर्यापन्नानामपि सत्त्वानां चित्तचरितपरिज्ञानतया, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ॥
10. सचेन्मे भगवंस्तस्मिन् बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजायेरन्, तेषां काचित्परिग्रहसंज्ञोत्पद्येत, अन्तशः स्वशरीरे ऽपि, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ॥
11. सचेन्मे भगवंस्तस्मिन् बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजायेरन्, ते सर्वे न नियताः स्युर्यादिदं सम्यक्त्वे यावन्महापरिनिर्वाणे, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ॥
12. सचेन्मे भगवंस्तस्मिन् बुद्धक्षेत्रे अनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य कश्चित्सत्त्वः श्रावकाणां गणनामधिगच्छेत्, अन्तशस्त्रिसाहस्रमहासाहस्रपर्यापन्ना अपि सर्वसत्त्वाः प्रत्येकबुद्धभूताः कल्पकोटीनियुतशतसहस्रमभिगणयन्तः, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ॥
13. सचेन्मे भगवंस्तस्मिन् बुद्धक्षेत्रे अनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य प्रमाणिकी मे प्रभा भवेत्, अन्तशो बुद्धक्षेत्रकोटीनियुतशतसहस्रप्रमाणेनापि, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ॥
14. सचेन्मे भगवन्ननुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य तस्मिन् बुद्धक्षेत्रे सत्त्वानां प्रमाणीकृतमायुष्प्रमाणं भवेत्, अन्यत्र प्रणिधानवशेन, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ॥
15. सचेन्मे भगवन् बोधिप्राप्तस्यायुष्प्रमाणं पर्यन्तीकृतं भवेत्,
अन्तशः कल्पकोटीनियुतशतसहस्रगणयापि, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ॥
16. सचेन्मे भगवन् बोधिप्राप्तस्य तस्मिन् बुद्धक्षेत्रे सत्त्वानामकुशलस्य नामधेयमपि भवेत्, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ॥
17. सचेन्मे भगवन् बोधिप्राप्तस्य नाप्रमयेषु बुद्धक्षेत्रेषु अप्रमेयासंख्येया बुद्धा भगवन्तो नामधेयं परिकीर्तयेयुः, न वर्णं भाषेरन्, न प्रशंसामभ्युदीरयेरन्, न समुदीरयेयुः,मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ॥
18. सचेन्मे भगवन् बोधिप्राप्तस्य ये सत्त्वा अन्येषु लोकधातुष्वनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य मम नामधेयं श्रुत्वा प्रसन्नचित्ता मामनुस्मरेयुः, तेषां चेदहं मरणकालसमये प्रत्युपस्थिते भिक्षुसंघपरिवृतः पुरस्कृतो न पुरतस्तिष्ठेयं यदिदं चित्ताविक्षेपतायै, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ॥
19. सचेन्मे भगवन् बोधिप्राप्तस्य अप्रमेयासंख्येयेषु बुद्धक्षेत्रेषु ये सत्त्वा मम नामधेयं श्रुत्वा तत्र बुद्धक्षेत्रे चित्तं प्रेरयेयुः, उपपत्तये कुशलमूलानि च परिणामयेयुः, ते तत्र बुद्धक्षेत्रे नोपपद्येरन्, अन्तशो दशभिश्चित्तोत्पादपरिवर्तैः स्थापयित्वा आनन्तर्यकारिणः सद्धर्मप्रतिक्षेपावरणकृतांश्च सत्त्वान्, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ॥
20. सचेन्मे भगवन् बोधिप्राप्तस्य तत्र बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजाता भवेयुः,ते सर्वे नैकजातिप्रतिबद्धाः स्युरनुत्तरायां सम्यक्संबोधौ स्थापयित्वा प्रणिधानविशेषान्, तेषामेव बोधिसत्त्वानां महासत्त्वानां महासंनाहसंनद्धानां सर्वलोकार्थसंबुद्धानां सर्वलोकाभियुक्तानां सर्वलोकपरिनिर्वाणाभियुक्तानां सर्वलोकधातुषु बोधिसत्त्वचर्यां चरितुकामानां सर्वबुद्धानां संवर्तुकामानां गङ्गानदीवालुकासमान् सत्त्वान् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापकानां भूयश्च उत्तरचर्याभिमुखानां समन्तभद्रचर्यानिर्यातानाम्, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ॥
21. सचेन्मे भगवन् बोधिप्राप्तस्य तत्र बुद्धक्षेत्रे ये बोधिसत्त्वाः प्रत्याजाता भवेयुः, ते सर्वे एकपुरोभक्तेन अन्यानि बुद्धक्षेत्राणि गत्वा बहूनि बुद्धशतानि बहूनि बुद्धसहस्राणि बहूनि बुद्धशतसहस्राणि बह्वीर्बुद्धकोटीर्यावद्बहूनि बुद्धकोटीनियुतशतसहस्राणि नोपतिष्ठेरन् सर्वसुखोपधानैः तदिदं बुद्धानुभावेन, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ॥
22. सचेन्मे भगवन् बोधिप्राप्तस्त तत्र बुद्धक्षेत्रे बोधिसत्त्वा यथारूपैराकारैराकाङ्क्षेयुः कुशलमूलान्यवरोपयितुं यदिदं सुवर्णेन वा रजतेन वा मणिमुक्तावैडूर्यशङ्खशिलाप्रवालस्फटिकमुसारगल्वलोहितमुक्ताश्मगर्भादिभिर्वा अन्यतमान्यतमैः सर्वै रत्नैर्वा सर्वगन्धपुष्पमाल्यविलेपनधूपचूर्णचीवरच्छत्रध्वजपताकाप्रदीपैर्वा ( सुख्व्, वैद्य 228 ) सर्वनृत्यगीतवाधैर्वा, तेषां च तथारूपा आहाराः सहचित्तोत्पादान्न प्रादुर्भवेयुः, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ॥

23. सचेन्मे भगवन् बोधिप्राप्तस्य तत्र बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजाता भवेयुः,ते सर्व न सर्वज्ञतासहगतां धर्मकथां कथयेयुः, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ॥
24. सचेन्मे भगवन् बोधिप्राप्तस्य तत्र बुद्धक्षेत्रे ये बोधिसत्त्वा एवं चित्तमुत्पादयेयुः - यदिहैव वयं लोकधातौ स्थित्वा अप्रमेयासंख्येयेषु बुद्धक्षेत्रेषु बुद्धान् भगवतः सत्कुर्याम् गुरुकुर्याम् मानयेम पूजयेम यदिदं चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः पुष्पधूपदीपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिर्नानाविधनृत्यगीतवाद्यै रत्नवर्षैरिति, तेषां च बुद्धा भगवन्तः सहचित्तोत्पादान्न प्रतिगृह्णीयुर्यदिदमनुकम्पामुपादाय, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ॥
25. सचेन्मे भगवन् बोधिप्राप्तस्य तत्र बुद्धक्षेत्रे ये बोधिसत्त्वाः प्रत्याजाता भवेयुः, ते सर्वे न नारायणवज्रसंहतात्मभावस्थामप्रतिलब्धा भवेयुः, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ॥
26. सचेन्मे भगवन् बोधिप्राप्तस्य तत्र बुद्धक्षेत्रे यः कश्चित्सत्त्वो ऽलंकारस्य वर्णपर्यन्तमुद्गृह्णीयात् - अन्तशो दिव्येनापि चक्षुषा एवंवर्णमेवंविभूति इदं बुद्धक्षेत्रमिति नानावर्णतां जानीयात्, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ॥
27. सचेन्मे भगवन् बोधिप्राप्तस्य तत्र बुद्धक्षेत्रे यः सर्वपरीत्तकुशलमूलो बोधिसत्त्वः सो ऽन्तशो योजनशतोत्थितमुदारवर्णं बोधिवृक्षं न संजानीयात्, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ॥
28. सचेन्मे भगवन् बोधिप्राप्तस्य तत्र बुद्धक्षेत्रे कस्यचित्सत्त्वस्योद्देशो वा स्वाध्यायो वा कर्तव्यः स्यात्, न ते सर्वे प्रतिसंवित्प्राप्ता भवेयुः, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ॥
29. सचेन्मे भगवन् बोधिप्राप्तस्य नैवं प्रभास्वरं तद्बुद्धक्षेत्रं भवेद्यत्र समन्तादप्रमेयासंख्येयाचिन्त्यातुल्यापरिमाणानि बुद्धक्षेत्राणि संदृश्येरन् तद्यथापि नाम परिमृष्टे आदर्शमण्डले मुखमण्डलम्, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ॥
30. सचेन्मे भगवन् बोधिप्राप्तस्य तत्र बुद्धक्षेत्रे धरणीतलमुपादाय यावदन्तरीक्षाद्देवमनुष्यविषयातिक्रान्तस्याभिजातस्य धूपस्य तथागतबोधिसत्त्वपूजाप्रत्यर्हस्य सर्वरत्नमयानि नानासुरभिगन्धघटिकाशतसहस्राणि सदा निधूपितान्यव न स्युः, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ॥
31. सचेन्मे भगवन् बोधिप्राप्तस्य तत्र बुद्धक्षेत्रे न सदाभिप्रवृष्टान्येव सुगन्धिनानारत्नपुष्पवर्षाणि सदा प्रवादिताश्च मनोज्ञस्वरा वाद्यमेघा न स्युः, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ॥
32. सचेन्मे भगवन् बोधिप्राप्तस्य ये सत्त्वा अप्रमेयासंख्येयाचिन्यातुल्येषु लोकधातुष्वाभया स्फुटा भवेयुः, ते सर्वे न देवमनुष्यसमतिक्रान्तेन सुखेन समन्वागता भवेयुः, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ॥
33. सचेन्मे भगवन् बोधिप्राप्तस्य समन्तादप्रमेयाचिन्त्यातुल्यापरिमाणेषु बुद्धक्षेत्रेषु बोधिसत्त्वा महासत्त्वा मम नामधेयं श्रुत्वा तच्छ्रवणसहगतेन कुशलेन जातिव्यतिवृत्ताः सन्तो न धारणीप्रतिलब्धा भवेयुर्यावद्बोधिमण्डपर्यन्तमिति, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ॥
34. सचेन्मे भगवन् बोधिप्राप्तस्य समन्तादप्रमेयासंख्येयाचिन्त्यातुल्यापरिमाणेषु बुद्धक्षेत्रेषु याः स्त्रियो मम नामधेयं श्रुत्वा प्रमादं संजनयेयुः, बोधिचित्तं नोत्पादयेयुः, स्त्रीभावं च न विजुगुप्सेरन्, जातिव्यतिवृत्ताः समानाः सचेद्द्वितीयं स्त्रीभावं प्रतिलभेरन्, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ॥
35. सचेन्मे भगवन् बोधिप्राप्तस्य समन्ताद्दशसु दिक्षु अप्रमेयासंख्येयाचिन्त्यातुल्यापरिमाणेषु बुद्धक्षेत्रेषु ये बोधिसत्त्वा मम नामधेयं श्रुत्वा प्रणिपत्य पञ्चमण्डलनमस्कारेण वन्दिष्यन्ते ते बोधिसत्त्वचर्यां चरन्तो न सदेवकेन लोकेन सत्क्रियेरन्, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ॥
36. सचेन्मे भगवन् बोधिप्राप्तस्य कस्यचिद्बोधिसत्त्वस्य चीवरधावनशोषणसीवनरञ्जनकर्म कर्तव्यं भवेत्, न त्वेव नवाभिजातचीवररत्नैः प्रावृतमेवात्मानं संजानीयुः सहचित्तोत्पादात्तथागतानुज्ञातैः, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ॥
37. सचेन्मे भगवन् बोधिप्राप्तस्य तत्र बुद्धक्षेत्रे सहोत्पन्नाः सत्त्वा नैवंविधं सुखं प्रतिलभेरंस्तद्यथापि नाम निष्परिदाहस्यार्हतो भिक्षोस्तृतीयध्यानसमापन्नस्य, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ॥
38. सचेन्मे भगवन् बोधिप्राप्तस्य तत्र बुद्धक्षेत्रे ये बोधिसत्त्वाः प्रत्याजाताः,ते यथारूपं बुद्धक्षेत्रे गुणालंकारव्यूहमाकाङ्क्षेयुः, तथारूपं नानारत्नवृक्षेभ्यो न संजनयेयुः, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ॥
39. सचेन्मे भगवन् बोधिप्राप्तस्य मम नामधेयं श्रुत्वा अन्यबुद्धक्षेत्रोपपन्ना बोधिसत्त्वा इन्द्रियबलवैकल्यं गच्छेयुः, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ॥
40. सचेन्मे भगवन् बोधिप्राप्तस्य तदन्यबुद्धक्षेत्रस्थाने बोधिसत्त्वा मम नामधेयसहश्रवणान्न सुविभक्तवतीं नाम समाधिं प्रतिलभेरन्, यत्र समाधौ स्थित्वा बोधिसत्त्वा एकक्षणव्यतिहारेण अप्रमेयासंख्येयाचिन्त्यातुल्यापरिमाणान् बुद्धान् भगवतः पश्यन्ति, स चैषां समाधिरन्तरा विप्रणश्येत्, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ॥
41. सचेन्मे भगवन् बोधिप्राप्तस्य तदन्येषु बुद्धक्षेत्रेषु मम नामधेयं श्रुत्वा तच्छ्रवणसहगतेन कुशलमूलेन सत्त्वा नाभिजातकुलोपपत्तिं प्रतिलभेरन् यावद्बोधिपर्यन्तम्, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ॥
42. सचेन्मे भगवन् बोधिप्राप्तस्य तदन्येषु बुद्धक्षेत्रेषु ये बोधिसत्त्वा मम नामधेयं श्रुत्वा तच्छ्रवणकुशलमूलेन यावद्बोधिपर्यन्तं ते सर्वे बोधिसत्त्वचर्याप्रीतिप्रामोद्यकुशलमूलसमवधानगता न भवेयुः, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ॥
43. सचेन्मे भगवन् बोधिप्राप्तस्य सहनामधेयश्रवणात्तदन्येषु लोकधातुषु बोधिसत्त्वा न समन्तानुगतं नाम समाधिं प्रतिलभेरन्, यत्र स्थित्वा बोधिसत्त्वा एकक्षणव्यतिहारेण अप्रमेयासंख्येयाचिन्यातुल्यापरिमाणान् बुद्धान् भगवतः सत्कुर्वन्ति, स चैषां समाधिरन्तरा विप्रणश्येद्यावद्बोधिमण्डपर्यन्तम्, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ॥

44. सचेन्मे भगवन् बोधिप्राप्तस्य तत्र बुद्धक्षेत्रे ये सत्त्वाः प्रत्याजाता भवेयुः ते यथारूपां धर्मदेशनामाकाङ्क्षेयुः श्रोतुम्, तथारूपां सहचित्तोत्पादान्न शृणुयुः, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ॥
45. सचेन्मे भगवन् बोधिप्राप्तस्य तत्र बुद्धक्षेत्रे तदन्येषु बुद्धक्षेत्रेषु ये च बोधिसत्त्वा मम नामधेयं शृणुयुः, ते सहनामधेयश्रवणान्नावैवर्तिका भवेयुरनुत्तरायाः सम्यक्संबोधेः, मा तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् ॥
46. सचेन्मे भगवन् बोधिप्राप्तस्य बुद्धशास्तुर्बुद्धक्षेत्रेषु ते बोधिसत्त्वा मम नामधेयं शृणुयुः, ते सहनामधेयश्रवनात्प्रथमद्वितीयतृतीयाः क्षान्तीः प्रतिलभेरन् नावैवर्तिका भवेयुर्बुद्धधर्मसंघेभ्यः, मा तावदहमनुत्तरां सम्यक्संबोधिमभिबुध्येयम्

vs_11

स्तर्त् सुख्व् 9:
अथ खल्वानन्द स धर्माकरो भिक्षुरिमानेवंरूपान् प्रणिधानविशेषान्निर्दिश्य तस्यां वेलायाम् बुद्धानुभावेन् इमा गाथा अभाषत -
सचि मि[सिय] विशिष्ट नैवरूपा वरप्रणिधान सिया खु बोधिप्राप्तो ।
माह सिय गवेन्द्रसत्त्वसारो दशबलधारि अतुल्यदक्षिणीयः

vs_12

सचि मि सिय न क्षेत्र एवरूपं बहु अध नानप्रभूतदिव्यवित्तम् ।
सुखित नरक येय दुःखप्राप्तो माह सिया रतनान[लोक]राजा

मूल पाठ: Sukhāvatīvyūha, vistaramātṛkā · Edition: P.L. Vaidya: Mahāyāna-sūtra-saṃgrahaḥ, Part 1) Darbhanga : The Mithila Institute, 1961, pp. 221-253. (Buddhist Sanskrit Texts, 17) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc