सुखावतीव्यूह, विस्तरमातृका · श्लोक vs_58-47
य ईदृशां धर्म श्रुणित्व श्रेष्ठां लभ्यन्ति प्रीतिं सुगतं स्मरन्तः ।
ते मित्रमस्माकमतीतमध्वनि ये चापि बोधाय जनन्ति छन्दम्
इति
स्तर्त् सुख्व् 45:
अस्मिन् खलु पुनर्धर्मपर्याये भाष्यमाणे द्वादशानां सत्त्वनियुतकोटीनां विरजो विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धम् । चतुर्विंशत्या कोटिनियुतशतफलं प्राप्तम् । अष्टानां भिक्षुशतानामनुपादायास्रवेभ्यश्चित्तानि विमुक्तानि । पञ्चविंशत्या बोधिसत्त्वकोटीभिरनुत्पत्तिकधर्मक्षान्तिः प्रतिलब्धा । देवमानुषिकायाश्च प्रजायाश्चत्वारिंशत्कोटीनियुतशतसहस्राणामनुत्पन्नपूर्वाण्यनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पन्नानि । सुखावत्यां लोकधातावुपपत्तये च कुशलमूलान्यवरोपितानि भगवतो ऽमिताभस्य तथागतस्य दर्शनकामतया । सर्वे च ते तत्रोपपद्य अनुपूर्वेण मञ्जुस्वरा नाम तथागता अन्येषु लोकधातुषूपपत्स्यन्ते । अशीतिश्च नियुतकोट्यो दीपंकरे तथागते लब्धक्षान्तिका अवैवर्तिका अनुत्तरायाः सम्यक्संबोधेरमितायुषैव तथागतेन परिपाचिताः पूर्वबोधिसत्त्वचर्यां चरन्तस्ताश्च सुखावत्यां लोकधातावुपपद्य पूर्वप्रणिधानचर्याः परिपूरयिष्यन्ति
स्तर्त् सुख्व् 46:
तस्यां वेलायामयं त्रिसाहस्रमहासाहस्रलोकधातुः षद्विकारं प्राकम्पत् । विविधानि च प्रातिहार्याणि संदृश्यन्ते स्म । पृथिव्यां संस्कृतमभूत् । दिव्यमानुष्यकानि च तूर्याणि संप्रवादितान्यभूवन् । अनुमोदनाशब्देन च यावदकनिष्ठभुवनं विज्ञप्तमभूत्
स्तर्त् सुख्व् 47:
इदमवोचद्भगवानात्तमनाः । अजितो बोधिसत्त्वो महासत्त्व आयुष्मांश्चानन्दः सा च सर्वावती पर्षत् सदेवमानुषासुरगरुडगन्धर्वस्य लोको भगवतो भाषितमभ्यनन्दन्निति
मूल पाठ: Sukhāvatīvyūha, vistaramātṛkā · Edition: P.L. Vaidya: Mahāyāna-sūtra-saṃgrahaḥ, Part 1) Darbhanga : The Mithila Institute, 1961, pp. 221-253. (Buddhist Sanskrit Texts, 17) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0