सुहृल्लेख · श्लोक 81-100
केचित् कृमिसंस्पर्शाद् मांसादकृष्णमक्षिकायुतपाताच्च ।
वृद्धं व्रणन्त्वसह्यं भक्ष्यमाणं रुदन्ति चाकुला भूम्याम्
दह्यन्ते ऽग्निकुण्डेषु तेन तदाननानि च भवन्ति विवृतानि ।
पच्यन्ते च कटाहे तण्डुलवल्लौहमये ऽधःशिरसस्ते
श्वासावरोधसमये पापः कालंकृते च नरकं प्रयाति ।
श्रुत्वापि नरकदुःखं सहस्रशो वज्रस्वभावात्र बिभेति
श्रुत्वा दृष्ट्वा स्मृत्वा पठित्वा चापि चित्राङ्कनं नरकस्य ।
आकृतिरपि भयजनिका का कथा तदसह्यविपाकानुभवस्य
यथा समस्तसुखानां तृष्णाक्षय एव सर्वोत्तमं सुखमिति ।
तद्वत् सर्वदुःखेष्ववीचिनरकदुःखमत्यसहनीयं तत्
इहैकस्मिंश्च दिवसे, त्रिशतशूलघाताद् भवति च यद् दुःखम् ।
नारकीयदुःखस्य हि तत्राप्नोति समतां न लघुकलां चापि
कोटिवर्षपर्यन्तं दारुणातिदुःखेष्वनुभवत्सु सत्स्वपि ।
यावत्तान्यकुशलानि न क्षीणानि तावत्र जीवनान्मुक्तिः
अनिष्टफलबीजानि तु कायवाक्चित्तानां हि दुराचरणानि ।
भवतैवं यतनीयं शक्त्या येन तदणुमात्रं न शिष्येत
तिर्यग्योनिषु नाना दुःखानि भवन्ति च बधबन्धनादीनि ।
परस्परं भक्षयन्ति शममूलशुभकर्मपरिहर्तारस्ते
केचिद् वै हन्यन्ते मुक्तोर्णास्थिमांसचर्मार्थं जीवाः ।
योज्यन्ते खलु विवशा अन्ये पदमुष्टिकशाङ्कुशैः पशवश्च
प्रेतयोनौ न क्षयं यातीष्टालाभजनिता दुःखधारा च ।
दुःखमसह्यं लभते शीतोष्णक्षुत्तृषाश्रमभयजनितं हि
सूचीछिद्रवदास्यं केषाञ्चिदुदरमतिविशालं नगवच्च ।
तच्च पीडितं क्षुधया क्षिप्तमशुचि वस्तु न प्रतिकारक्षमम्
केचित् प्रेता नग्नाः शुष्कतालशिखरवदस्थिचर्माणः ।
नक्तमग्निमुद्गिरतां मुखे पतत्तप्तसिकताशनं तेषाम्
निम्नकोटिकैः कैश्चित् पूयरक्ताद्यशुचीनि न च लभ्यन्ते ।
आक्रम्यान्यमुखोपरि गलनिर्गतलसिकादीनि च खाद्यन्ते
चन्द्रो ग्रीष्मे तप्तः शैत्ये शीतो भानुश्च ह्येतेभ्यः ।
तेषां दृष्टि पाताच्च निष्फलास्तरवो नद्यश्च शुष्यन्ते
सततं दुःखभाजस्ते दुश्चरितकर्मपाशसुदृढबद्धा वै ।
न च म्रियन्ते केचित् पञ्च वा दश सहस्रवर्षाणि सत्त्वाः
यच्च लभन्ते प्रेता नानादुःखास्वादमेकविधमित्थम् ।
प्रीतिरत्र कार्पण्ये मात्सर्यमनार्यमुक्तमतो बुद्धेन
स्वर्गे चातिसुखं यत् ततो ऽप्यधिकदुःखं ततश्च्युतेर्नूनम् ।
एवं विचिन्त्य तज्ज्ञैः क्षरत्सुखाय न तृष्णा कार्या स्वर्गे
वैवर्ण्यं देहस्य स्वासने न रतिर्म्लायते ऽपि माला च ।
वसनेष्वपि दौर्गन्ध्यं स्वेदश्चापूर्वो निर्याति देहात्तु
लक्षणानि हि पञ्चैव मृत्योर्भवन्ति स्वर्गस्थदेवेषु ।
भूलोकीयनराणां सदृशान्यपि तानि मृत्युलक्षणैश्च
मूल पाठ: Suhṛllekha · Edition: Padma Tendzin: Suhridlekha. Varanasi : Central Institute of High Tibetan Studies (CIHTS), 2002. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0