सुहृल्लेख · श्लोक 61-80
प्रतिरूपदेशवासः सत्पुरुषसमाश्रयः शुभप्रणिधानं च ।
स्वकीयपूर्वकुशलं ह्येतच्चक्रचतुष्कं हि विद्यते त्वयि
कल्याणमित्रसेवा ब्रह्मचर्यपूर्तये देशिता मुनिना ।
सेव्यः सदा सुपुरुषः शमः प्राप्तो यतो जिनमपेक्ष्य बहुभिः
मिथ्यादृक् प्रत्यन्ते नरकप्रेततिर्यक्षूत्पद्यमानः ।
म्लेच्छो जडश्च सत्त्वो यो ह्युत्पन्नो बुद्धविरहिते
दीर्घायुषि देवकुले जनिलब्धश्चाष्टाक्षणा इमे दोषाः ।
एभी रहितो भूत्वा क्षणं लब्ध्वा जन्मनिवृत्तौ प्रयतेत
इष्टविघातव्याधिमृत्युजरादिदुःखावहः संसारः ।
विरज्य ततः शृणु तावद् दोषानेतस्यावगच्छन् नरदेव
मित्रत्वेन च शत्रुः पुत्रत्वेन पिताम्बा च भार्यात्वेन ।
परिवर्त्योत्पद्यन्ते तस्मान्न नियतं किमपीह संसारे
चतुःसमुद्रजलादपि जनैरधिकं जनन्याः स्तन्यं पीतम् ।
पृथग्जनाननुसृत्य हि पुनस्ततो ऽप्यधिकञ्च पास्यन्ति लोकाः
आत्मनश्चास्थिपुञ्जं मेरुसमं ततो ऽधिकमुच्चैर्जायेत ।
भूमिमृदा बदराणां गुलिकाभिर्न गणना सम्भवाम्बानाम्
लोकपूज्यो ऽपि शक्रः पतति च पुनः कर्मवशाद्धि संसारे ।
तद्वच्च चक्रवर्ती राजापि पुनर्भवति हि दासो लोके
स्वर्गे ऽप्सरसां सौख्यं कुचतटिस्पर्शजं चैव चिरमनुभूय ।
नरके दुःसहदुःखं पेषणछेदनभेदनयन्त्रैर्भुङ्क्ते
सुखदे सुमेरुशिखरे चिरमनुभवंश्चरंश्चरणस्पर्शसुखम् ।
चञ्चलकुक्कुलकुणपैर्गाढं दुःखं चिन्तयेत् सदा मनसा
देवाङ्गनासेविते नन्दने रम्ये चोपवने च विहृत्य ।
असिपत्रवने तेषां हस्तपादकर्णनासाश्च छिद्यन्ते
सुवदनदेवसुताभिः स्वर्णोत्पलैर्युतायां मन्दाकिन्याम् ।
स्नात्वा पुनश्च नरके क्षारोष्णोदकवैतरण्यां हि पतन्ति
देवेषु कामसुखं च कामवीतरागसुखं ब्रह्मलोकेषु ।
प्राप्यावीचौ सततं लभ्यते ऽग्नेरिन्धनीभूय च दुःखम्
पदमवाप्य सुर्येन्द्वोः स्वकायप्रभया प्रदीप्य हि संसारम् ।
तमसि च घने प्रविष्टः प्रसारितमपि च स्वीयकरं न पश्यति
एवं मृत्युं ज्ञात्वा ग्राह्यस्त्रिविधपुण्यमयदीपालोकः ।
अन्यथा रवीन्दुभ्याममर्दनीये ऽन्धतमसि प्रवेष्टव्यम्
दुष्टाचरणे लग्नाः सत्त्वाः संजीवकालसूत्रतपनेषु ।
रौरवावीच्यादौ हि संघाते चापि नरके सदा दुःखम्
निष्पीड्यन्ते तिलवत् केचनान्ये चूर्णवत् पेष्यन्ते च ।
छिद्यन्ते शाणेनान्ये दीर्यन्ते तथा तीक्ष्णपरशुनापि
आस्ये ऽन्येषां तद्वत् पात्यते ज्वलितं तावल्लौहद्रवम् ।
आरोप्यन्ते केचन सकण्टके तप्तायसे सदा शूले
श्वभिः केचन क्रूरैर्लौहदन्तैर्विदीर्यन्ते गर्जद्भिः ।
उत्थाय करौ विवशा लुञ्च्यन्ते तीक्ष्णनखतुण्डैश्च काकैः
मूल पाठ: Suhṛllekha · Edition: Padma Tendzin: Suhridlekha. Varanasi : Central Institute of High Tibetan Studies (CIHTS), 2002. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0