भाषा

ENहिગુ
ग्रंथ पाठ

सुहृल्लेख · श्लोक 101-120

101

देवेभ्यश्च्युतस्य यदि नावशिष्येत् कुशलमणुमात्रमपि ।
विवशतयोषितव्यं हि ततस्तिर्यक्प्रेतनरकेष्वेकस्मिन्

102

दुःखं स्यान्मानसिकं देवैश्वर्यं प्रतीर्ष्ययासूरेष्वपि ।
न कुर्वन्ति धीमन्तो जन्मावरणाच्च ते सत्यदर्शनानि

103

संसारे ऽस्मिन्नेवं देवनरकप्रेततिर्यग्योनिषु ।
जन्मग्रहणमयुक्तं बहुबाधं जन्म तत्रेति विज्ञेयम्

104

ज्वलिते शिरसि च वसने तन्निवृत्त्युपायमुपेक्ष्य त्वरितमेव ।
अपुनर्भवाय यतेत यतस्तस्मान्महत्प्रयोजनं नान्यत्

105

शीलसमाधिज्ञानैर्भूजलतेजोवायुरविविधुरहितं च ।
अजरामरणमक्षयं प्राप्यं शान्तदान्तविमलं निर्वाणम्

106

प्रस्रब्धिवीर्यप्रीतिधर्मविचयस्मृतिसमाध्युपेक्षाः सप्त ।
बोध्यङ्गानीमानि प्राप्त्यै निर्वाणस्य कुशलसम्भारः

107

प्रज्ञाभावे ध्यानं ध्यानाभावे ऽपि न जायते सा प्रज्ञा ।
यत्रोभे विद्येते ज्ञेयस्तस्य भवसागरो गोष्पदवत्

108

ये ऽव्याकृतधर्माश्चादित्यबन्धुना चतुर्दशोपदिष्टाश्च ।
लोके न चिन्तनीया यतो तैर्नाप्नोति चित्तमेव शान्तिम्

109

एवं प्रोक्तं मुनिनाविद्यया कर्म कर्मणा च विज्ञानम् ।
तस्माच्च नामरूपं ततः षडायतनानि ततः स्पर्शा वै

110

तत उत्पन्ना वित्तिर्वेदनाश्रयेण जायते खलु तृष्णा ।
तस्याश्चोपादानं ततो भवो ऽपि भवाच्च जायते जातिः

111

सत्यां जातौ दुःखव्याधिजरेष्ट वस्त्वलाभभयमरणानि ।
दुःखस्कन्धो विपुलः सति जातिनिषेधे निषिद्धानीमानि

112

गम्भीरो ऽनर्घकोशः प्रियः प्रतीत्योत्पादो जिनवचनानाम् ।
सम्यगिमं यः पश्यति स च पश्यति तत्त्वदर्शिनं बुद्धमेव

113

शमाय भाव्याः सम्यग्दृष्टिसंकल्पवाक्कर्माजीवस्मृति ।
समाधिव्यायामेत्यार्याष्टाङ्गिकमार्गाश्चैते चारुतया

114

जातिरियं दुःखमेव तृष्णा च तस्य समुदयो महान् ज्ञेयः ।
निर्वृतिस्तन्निरोधस्तदधिगमाय चाष्टाङ्गिको ऽयं मार्गः

115

यत्नः सदा विधेयश्चतुरार्यसत्यप्रतिवेधायैवम् ।
क्रोडे श्रियश्च येषां गृहस्थास्तरन्ति क्लेशनदीं ज्ञानात्

116

ये दृष्टार्यसत्याश्च नाविर्भवन्ति ते ऽङ्कुरवत् पृथिवीतः ।
नावतरन्ति च गगनात् ते ऽपि पृथग्जनाः क्लेशवशा हि पूर्वम्

117

चित्तं हि धर्ममूलं भगवतोक्तमतस्तदपि साधु दमयेच्च ।
भो निर्भय, किं बहुना कथनेन यतो ऽयमेव हितोपदेशः

118

यन्मयोपदिष्टं तत्सप्रयासैरपि भिक्षुभिर्दुःसाध्यम् ।
चर्यागुणान् सेवस्व शिक्षामाचर जीवनं च कुरु सार्थम्

119

सर्वेषां कुशलानि तु सर्वार्थमनुमोद्य स्वचर्यात्रयीं च ।
बुद्धत्वाय परिणाम्य ततस्तदनेन पुण्यराशिना भवता

120

जन्मस्वप्रमेयेषु देवनरलोकयोगिनश्च वशीकृत्य ।
दुःखिनो ऽनुग्राह्यास्त्वसहाया अवलोकितेश्वरचर्याभिः

मूल पाठ: Suhṛllekha · Edition: Padma Tendzin: Suhridlekha. Varanasi : Central Institute of High Tibetan Studies (CIHTS), 2002. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc