सुहृल्लेख · श्लोक 41-60
कामान् प्रीतिविचारौ सुखञ्च दुःखञ्च विहाय चतुर्भिरेव ।
ध्यानैर्ब्रह्माभास्वरशुभकृत्स्नबृहत्फलभागिनश्च भवन्ति
कुशलाकुशलं च कर्म सदाभिनिवेशाप्रतिपक्षवस्तुगुणैः ।
पञ्चभिश्चोत्पद्यते तस्माद् यतनीयं कुशलचर्यायाम्
यथाल्पक्षारनीरं परिवर्तयत्यल्पजलरसं न गाङ्गम् ।
पापं तथैव चाल्पं नाशयत्यल्पकुशलं न पूर्णकुशलम्
औद्धत्यं कौकृत्यं व्यापादः स्त्यानमिद्धे च कामेच्छा ।
विचिकित्सेति पञ्चैव कुशलधनहारकाणीमानि ज्ञेयानि
उत्तमाः पञ्चधर्माः श्रद्धावीर्ये स्मृतिसमाधिप्रज्ञाश्च ।
बलेन्द्रियाणि चाग्र्याणि कथ्यन्ते यतनीयमेतेषु तस्माद्
व्याधिजरामरणप्रियवियोगवच्च कर्मपरायणाः सर्वे ।
पुनः पुनस्तु चिन्तया प्रतिपक्षेणैवं प्रहीयते मानः
स्वर्गं मोक्षं चेच्छेत् सम्यग्दृष्टिस्तावद् भावनीयैव ।
कृतानि मिथ्यादृष्ट्या पुरुषैः सुचरितान्यपि विषमविपाकानि
अनात्माशुचिर्दुःखी पुद्गलो ऽनित्यश्च सम्यग्विज्ञेयः ।
स्मृत्युपस्थानरहिता विनश्यन्ते च विपर्यासैश्चतुर्भिः
उक्तं रूपं नात्मा रूपवांश्च नात्मा रूपे नैवात्मा ।
न चात्मन्यस्ति रूपं शून्यमेवं स्कन्धचतुष्कमपि ज्ञेयम्
स्कन्धा न हि जायन्ते यदृच्छया न प्रकृतीश्वरकालेभ्यः ।
नाहेतोः स्वभावतो ज्ञेया अज्ञानेन तृष्णया जाताः
कालः पचति भूतानि कालः संहरते प्रजाः ।
कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥
आत्मनि मिथ्यादृष्टिः शीलव्रतपरामर्शो विचिकित्सा च ।
मुक्तिपुरद्वाराणां बाधकं संयोजनत्रयमवगच्छेत्
आत्मापेक्षो मोक्षः परस्मान्न लभ्यते किमपि साहाय्यम् ।
चत्वार्यार्यसत्यानि वृत्तस्थः श्रुतचिन्ताभिरभ्यस्येच्च
अधिशीलचित्तप्रज्ञास्तिस्त्रो ऽपि शिक्षाः सदैव शिक्षणीयाः ।
एतास्वन्तर्भूतानि शतमेकपञ्चाशच्च शिक्षापदानि
राजन्, बुद्धेनोक्तः कायगता स्मृतिश्चैकायनो मार्गः ।
रक्षेदिमं सयत्नं स्मृतिनाशाच्च सर्वधर्मप्रध्वंसः
बहुबाधं तु जीवनं वायूद्भूतजलबुद्बुदवदनित्यं च ।
आश्चर्यं जागर्तेः क्षणमिदं निःश्वासोच्छ्वासनिद्राभ्यः
विशरणगलनः पूतिः शोषासारशुचिस्वभावः कायः ।
रजःसधर्मी चान्ते सदा वियोगशीलो नश्वरो ज्ञेयः
पृथ्वीमेरुसमुद्राः सप्तार्कज्वालैर्नावशिष्यन्ते ।
धूलिमात्रं हि मूर्ताः का कथा दुर्बलवपुषां मानवानाम्
इत्थं सर्वमनित्यं ह्यनात्मकमशरणमनाथमनिकेतम् ।
कदलीतरुरिव राजन् चित्तमपसारयासारसंसारात्
महार्णवयुगच्छिद्रे हि कूर्मग्रीवार्पणाच्च मानुषं जन्म ।
तिर्यगादिसुदुर्लभं सफलीकुरु सद्धर्माभ्यासान्नरेन्द्र
केचिद् रत्नालङ्कृतकनकपात्रं च पूरयन्ति पुरीषेण ।
ततो ऽप्यसावतिमूढो यश्च नृजन्म लब्ध्वापि पापमाचरति
मूल पाठ: Suhṛllekha · Edition: Padma Tendzin: Suhridlekha. Varanasi : Central Institute of High Tibetan Studies (CIHTS), 2002. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0