भाषा

ENहिગુ
ग्रंथ पाठ

सुहृल्लेख · श्लोक 21-40

21

परदारान्न तु पश्येद् दृष्टे च ज्ञेया अवस्थानुरूप्येण ।
कन्याम्बाभगिनीवद् आसक्तावप्यशुचिमेव चिन्तयेच्च

22

रक्षेच्चञ्चलचित्तं श्रुतिपुत्रनिधिप्राणसदृशं च नितराम् ।
चित्तं परिहर्त्तव्यं शत्रुसर्पविषायुधाग्निसमात् कामात्

23

कामस्त्वनर्थजनकः प्रोक्तः किम्पाकफलसमो जिनेन्द्रेण ।
पाशैस्तस्य हि बद्धो भवचारके लोकः स प्रहातव्यः

24

चलाध्रुवाणि षडक्षाणि जयन्ति समरे वा शत्रूनपि चैके ।
तयोश्च सुधियः प्रथमं वरमिन्द्रियविजेतारं च मन्यन्ते

25

युवतिशरीरं हि पूति यन्नवाशुचिद्वारमशुचिभाण्डसमम् ।
चर्मावृतदुष्पूरं भूषितमपि भूषणैः पृथग् द्रष्टव्यम्

26

कृमिपीडितो हि कुष्ठी सुखलिप्सया च यथा वह्निमाश्रयते ।
पीडा न याति शान्तिं तथैव हि कामासक्तिरपि बोद्धव्या

27

परमार्थं प्रतिवेत्तुं सर्वभावेषु सविधि मनसि निधायैव ।
स च खलु भावयितव्यो न हि तत्तुल्यो ऽपरो गुणयुतो धर्मः

28

सुकुलीनो ऽपि न पूज्यो ज्ञानशीलविमुखो श्रुतिरूपवान् पुमान् ।
गुणद्वयैतद्युक्तः पूज्यते सो ऽन्यगुणैर्हीनो ऽपि सततम्

29

अष्टसु लोकधर्मेषु लोकवित् समतया प्रवर्तयेच्चित्तम् ।
हानिलाभयशो ऽयशो ऽनुशंसानिन्दासुखदुःखेष्वशोच्येषु

30

भवद्भिर्ब्राह्मणभिक्षुदेवातिथिमातापितृकुलमहिषीभ्यः ।
पापं नाचरणियं यतः कतमो ऽपि न नरकफलस्य भागी

31

न च कृन्तति पापकर्म तत्क्षणमस्त्रपातवत् कमपि पापिनम् ।
मृत्योर्हि समये किन्तु तत्कर्मणः फलमभिमुखीभवत्येव

32

सप्तधनान्युक्तानि श्रद्धाशीलत्यागामलश्रुतधियः ।
अपत्रपा ह्री मुनिना मुधैवापरधनानि हि साधारणानि

33

द्यूतक्रीडा कौतुकदर्शनालस्यकुमित्रसङ्गमदिराश्च ।
निशाविहरणं षडिमे त्याज्या दुर्गतिदा यशोविनाशकाश्च

34

सनरामरशासकेन सन्तोषः सर्वधनप्रधानमुक्तम् ।
सन्तोषो ऽनुष्ठेयः धनं विनैव स धनिकः सति सन्तोषे

35

यथा समृद्धाः पुरुषा दुःखिनो भवन्ति नैव तथाल्पेच्छुकाः ।
यावत्यः सन्ति फणा आर्य, दुःखकराः, नागस्य तावत्यः

36

पत्नी त्याज्या त्रिविधा प्रकृत्या रिपुसम्बद्धा स्वघातिकेव ।
पत्युरपमानकर्त्री स्वैरा लघुवस्तुचौर्यरता स्तेयीव

37

भगिनीसमानुकूला मित्रवद् हृदयङ्गमा च सेवनीया ।
मातेवोपकारिणी पूज्या सेविकेवाज्ञाकृद् देवीव

38

विहाय रागद्वेषौ भोजनमौषधिवदवगत्य सेवेत ।
कायस्थित्यै नितरां न च सौन्दर्यगर्वमानार्थं सेव्यम्

39

दिनमखिलं शुभकार्ये यापयेद् रात्रेराद्यन्तौ यामौ च ।
धीमन्, मध्ये यामे शयीत यतो हि न भवेद् विफला निद्रा

40

मैत्रीकरुणोपेक्षामुदिताश्च सदा सम्यग् भावयितव्याः ।
अलब्धे ऽनुत्तरपदे ध्रुवमेव ब्रह्मलोके सुखावाप्तिः

मूल पाठ: Suhṛllekha · Edition: Padma Tendzin: Suhridlekha. Varanasi : Central Institute of High Tibetan Studies (CIHTS), 2002. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc