भाषा

ENहिગુ
ग्रंथ पाठ

सुहृल्लेख · श्लोक 1-20

1

आचार्यनागार्जुनविरचितः
सुहृल्लेखः (स्ल्)
प्रकृतिसुकृतार्हगुणाढ्य सुगतवचोभ्यः समुदानीताश्च मया ।
शुभमालक्ष्य कृता वै काश्चिदार्यागीतयस्त्वया च श्रव्याः

2

दारुमयी ह्यपि प्रतिमा सम्पूज्यते कापि सुगतस्य विद्वद्भिः ।
तथामनोज्ञं काव्यं सद्धर्माश्रयाच्च ममेदं न निन्द्यम्

3

महामुनेरतिमधुरं मन्ये वचनं भवतावगतमेव स्यात् ।
आकल्पितं तु सुधया नन्वतिधवलं न दृश्यते चन्द्रिकया?

4

जिनैर्बुद्धधर्मसंघशीलत्यागदेवादिषडनुस्मृतयः ।
प्रदर्शितास्तास्तु तद्गुणसम्भारैः पृथगनुस्मरणीयाश्च

5

दशकुशलाः कर्मपथाः कायवाक्चित्तैः सर्वदाभ्यसनीयाः ।
मद्यादिभिर्निवृते पुण्यमयैश्चाजीवैः सुप्रसन्नः स्याः

6

ज्ञात्वा चलामसारां सम्पत्तिं द्विजभिक्षुदीनमित्रेभ्यः ।
दानं देयं विधिना जन्मान्तरेषु न दानात् परं मित्रम्

7

शीलं सेव्यममिश्रं त्वयानुपहतालंघितानुपलिप्तं च ।
चराचरप्रतिष्ठं तु गुणाश्रयं भूवच्च राजते शीलम्

8

षडिमा दानं शीलं क्षान्तिवीर्यध्यानप्रज्ञाः पारमिताः ।
अप्रमेयाः संवर्ध्य भवेच्च भवसागरपारगो जिनेन्द्रः

9

यत्र पूजा पितॄणां कुलं तदाचार्यब्रह्मभिः समृद्धम् ।
तत्पूजया च कीर्तिस्तदनन्तरं चाधिगम्यते ऽभ्युदयो ऽपि

10

हिंसाचौर्ये मदिरा कामातिचारमृषोक्तिनृत्यगीतानि ।
त्याज्यान्यकालभक्तं मालागन्धादिविशेषोच्चशयनानि

11

अनुकृत्यार्हच्छीलं कुर्यादुपोषधमष्टाभिरङ्गैश्चेत् ।
लभते हि पुमान् स्त्री वा सुरम्यकामावचरादिदेवकायम्

12

मात्सर्यशाठ्यमायाभिमानासक्तिकौसीद्यरागद्वेषान् ।
कुलरूपयौवनश्रुतबलादिजं मदं रिपुमिव परिपश्येच्च

13

अप्रमादो ऽमृतपदं प्रमादो मृत्युपदमिति मुनिनादिष्टम् ।
कुशलधर्मस्य वृद्धये सदाप्रमादो ऽभ्यसनीयस्त्वया चैव

14

पूर्वप्रमत्तः को ऽपि मेघान्निर्गतेन्दुरिव ततो ऽप्रमादी ।
स हि नन्दाङ्गुलिमालोदयनाजातशत्रुसदृशः सुशोभेत

15

क्षान्तिसमं नैव तपस्ततस्त्वया न क्रोधावसरो देयः ।
बुद्धेनानुमतं वै पदमवैवर्तिकं क्रोधप्रहाणेन

16

अक्रोशीदवधीन्मामजैषीन्मामहार्षीद् वै वित्तं मे ।
वैरैरेभिः कलहस्त्यजति य एतद् वैरं स सुखं शेते

17

जले ऽवनौ पाषाणे चित्रमिव चित्तं त्रिधा खलु सत्त्वानाम् ।
क्लेशवतां हि प्रथमो धर्माभिलाषिणामन्तिमो ज्यायान्

18

वाचस्त्रिधा जनेभ्यः प्रोक्ता जिनेन मधुरसत्यमिथ्याख्या ।
क्रमशो मधुः पुष्पाशुचितुल्याश्चरमा च परिहर्त्तव्यैतासु

19

चतुर्विधा वै पुरुषाः प्रकाशात्प्रकाशे तमसस्तमसि पुनः ।
तमः प्रकाशाद् गच्छति तमसस्तेजसि पुद्गलो वरः प्रथमः

20

जनानां त्वाम्रफलमिव पक्वमपक्वे पक्वे ऽपक्वतुल्यं च ।
अपक्वे ऽपक्वं तथा पक्वे पक्वमिव भाति चातुर्विध्यम्

मूल पाठ: Suhṛllekha · Edition: Padma Tendzin: Suhridlekha. Varanasi : Central Institute of High Tibetan Studies (CIHTS), 2002. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc