भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितावलि · श्लोक 0001-0020

0001

तां भवानीं भवानीतक्लेशनाशविशारदाम् ।
शारदां शारदाम् भोदसितंसिहासनां नुमः ॥

0002

अनपेक्षितगुरुवचना सर्वान्ग्रन्थीन्विभेदयति सम्यक् ।
प्रकटयति पररहस्यं विमर्शशक्तिर्निजा जयति ॥

0003

दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये ।
स्वानुभूत्येकमानाय नमः शान्ताय तेजसे ॥

0004

जगत्सिसृक्षाप्रलयक्रियाविधौ
प्रयत्नमुन्मेषनिमेषविभ्रमम् ।
वदन्ति यस्येक्षणलोलपक्ष्मणां
पराय तस्मै परमेष्ठिने नमः ॥

0005

नमस्त्रिभुवनोत्पत्तिस्थितिसंहारहेतवे ।
विष्णवेपारसंसारपारोत्तरणसेतवे ॥

0006

सुरासुरशिरोरत्नकान्तिविच्छुरिताङ्घ्रये ।
नमस्त्रिभुवनेशाय हरये सिंहरूपिणे ॥

0007

नमस्तस्मै वराहाय हेलयोद्धरते महीम् ।
खुरमध्यगतो यस्य मेरुः खुरखुरायते ॥

0008

नमस्तुङ्गशिरश्चुम्बिचन्द्रचामरचारवे ।
त्रैलोक्यनगरारम्भमूलस्तम्भाय शंभवे ॥

0009

अभिप्रेतार्थसिद्ध्यर्थं पूजितो यः सुरैरपि ।
सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः ॥

0010

नितम्बालसगामिन्यः पीनोन्नतपयोधराः ।
मन्मथाय नमस्तस्मै यस्यायतनमङ्गनाः ॥

0011

अनन्तमामधेयाय सर्वाकरविधायिने ।
समस्तमन्त्रवाच्याय विश्वैकपतये नमः ॥

0012

ओं नमः परमार्थैकरूपाय परमात्मने ।
स्वेच्छावभासितासत्यभेदभिन्नाय शंभवे ॥

0013

कुलशैलदलं पूर्णसुवर्णगिरिकर्णिकम् ।
नमोधितिष्ठतेनन्तनालं कमलविष्टरम् ॥

0014

कर्णिकादिष्विव स्वर्णमर्णवादिष्विवोदकम् ।
भेदिष्वभेदि यत्तस्मै परस्मै महसे नमः ॥

0015

नमो वाङ्मनसातीतमहिम्ने परमेष्ठिने ।
त्रिगुणाष्टगुणानन्तगुणन्निर्गुणमूर्तये ॥

0016

नमः शिवाय निःशेषक्लेशप्रशमशालिने ।
त्रिगुणग्रन्थिदुर्भेदभवबन्धविभेदिने ॥

0017

समस्तलक्षणायोग एव यस्योपलक्षणम् ।
तस्मै नमोस्तु देवाय कस्मैचिदपि शंभवे ॥

0018

संसारैकनिमित्ताय संसारैकविरोधिने ।
नमः संसाररूपाय निःसंसाराय शंभवे ॥

0019

यथा तथापि यः पूज्यो यत्र तत्रापि योर्चितः ।
योपि वा सोपि वा योसौ देवस्तस्मै नमोस्तु ते ॥

0020

सदसत्त्वेन भावानां युक्ता या द्वितयी स्थितिः ।
तामुल्लङ्घ्य तृतीयस्मै नमश्चित्राय शंभवे ॥

मूल पाठ: Subhāṣitāvali 1-1040 · Edition: P. Peterson, Bombay 1886 (Bombay Sanskrit Series ; 31) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc