भाषा

ENहिગુ
ग्रंथ पाठ

सुभाषितरत्नकरण्डकथा · श्लोक 81-100

81

॥ इति वस्त्रकथा ॥
xव्. पुष्पादिकथा
शक्राधिकाः प्रवरभोगसमन्वितास् ते पद्मेन्दुकान्तिवपुषो वरकीर्तियुक्ताः ।
शत्रून् विजित्य रभसा सततं भवन्ति संघस्य ये सुकुसुमैः प्रकिरन्ति पूजाम्

82

नीलोत्पलप्रचयतुल्यशरीरगन्धा विख्यातकीर्तिविमलायतचारुनेत्राः ।
रत्नोपमा भुवि चरन्ति मनुष्यभूता दत्त्वा जिने प्रवरधूपम् उदारगन्धम्

83

वैडूर्यमुक्तामणिभूषिताङ्गाः कौशेयवस्त्रावृतसर्वकायाः ।
नरोत्तमाः सर्वजनैर् उपेता भवन्ति बुद्धे सुरभिप्रदानात्

84

रोगादिभिः प्रबलदुःखकरैर् विमुक्ताः स्निग्धाननाः कनकतुल्यमनोज्ञवर्णाः ।
राज्यं हि ये विगतकण्टकम् आप्नुवन्ति भैषज्यदानविधिना तद् उशन्ति संघे

85

॥ इति पुष्पादिकथा ॥
xवि. प्रणामकथा
यच् चक्रवर्ती क्षितिपप्रधानैः कृत्वाञ्जलिं कुण्डलचारुगण्डैः ।
भक्त्या स्वमूर्ध्ना बहु वन्द्यते तद् बुद्धप्रणामात् कथयन्ति तज्ज्ञाः

86

ये जातमात्राः प्रभुतां प्रयान्ति श्रेष्ठे कुले जन्म सदैव येषाम् ।
हस्त्यश्वयानैश् च परिभ्रमन्ति कृत्वा तु ते श्रेष्ठतरे प्रणामम्

87

प्रथयति यशो धत्ते श्रेयो विवर्धयति द्युतिं
हरति दुरितं सर्वं सर्वं ह्य् अरातिम् अपाहते ।
सुगतिनियतां लोके नॄणां करोति च संततिं
फलति च शिवायान्ते ऽवश्यं मुनीन्द्रनमस्क्रिया

88

चक्री नृपो यद् बलकीर्तियुक्तो द्वात्रिंशता लक्षणभूषिताङ्गः ।
संजायते वै क्षितिपप्रधानो बुद्धप्रणामाद् धि फलं तद् उक्तम्

89

एवं बहुगुणं मत्वा मत्वा कायं च भङ्गुरम् ।
बुद्धप्रणामात् को विद्वान् कायकर्मान्यद् आचरेत्

90

कस् तं न नमः कुर्याद् दृष्ट्वा दूरात् पुनर्भवाद् भीतः ।
कृत्वैकनमस्कारं भवपारम् अवाप यद्धेतोः

91

॥ इति प्रणामकथा ॥
xविइ. उज्ज्वालिकादानकथा
नानासारङ्गरूपप्रभवमृदुमहद्रोमसंश्लाघ्यवस्त्रा
हेमन्ते गर्भगेहे प्रियतमवनिताबाहुयुग्मोपगूढाः ।
यत् क्रीडन्ति क्षितीशा विविधरसवरैर् अन्नपानैः समृद्धास्
तत् स्याद् उज्ज्वालिकायाः फलम् अतिमधुरं भिक्षुसंघार्पितायाः

92

ज्वालातरङ्गविकसद्दहनोपगूढां भीमस्वनां शिशिरशीतविनाशकर्त्रीम् ।
उज्ज्वालिकां मुनिवरप्रवराय दत्त्वा दीप्तप्रभो भवति देवमनुष्यलोके

93

गन्धर्वासुरकिन्नरैः सहचरा देदीप्यमानानना
विद्युज्ज्वालशरच्छशाङ्कसदृशाः कान्ताभिर् आलिङ्गिताः ।
स्वर्गे यद् विचरन्ति दीप्तवपुषो लीलायमानाः सुरास्
तद् दत्त्वार्यगणाय शीतसमये चोज्ज्वालिकां श्रद्धया

94

जित्वा रिपून् ये गजवाजियुक्तान् पृथ्वीं समन्ताद् अनुशासयन्ति ।
दीप्तानना हेमविभूषिताङ्गा उज्ज्वालिकायाः फलम् एव तेषाम्

95

॥ इत्य् उज्ज्वालिकादानकथा ॥
xविइइ. प्रदीपकथा
धराधरतिरस्कृतं परमदूरदेशस्थितं
सुसूक्ष्मम् अपि वस्तु चातितिमिरोत्करैर् आवृतम् ।
कराग्र इव संस्थितं यद् अनिरुद्धभिक्षुर् दृशा
ददर्श सुगतस्य दीपपरिबोधनात् तत् फलम्

96

बुद्धत्वं किल सुगतः प्रदीपकेन व्याकार्षीन् ननु नगरावलम्बिकायाः ।
को दद्याद् भगवति न प्रदीपमालां प्राप्त्यर्थं विमलमुनीन्द्रलोचनस्य

97

दूरं सूक्ष्मं व्यवहितं दृश्यं पश्यन्ति ये जनाः ।
जिनप्रदीपमालायास् तत् फलं मुनयो जगुः

98

दृश्यन्ते यत् क्षितीशाः शशधरवपुषो दीर्घनीलोत्पलाक्षा
देवा यद् देवलोकं वरकनकनिभा भासयन्ति स्वकान्त्या ।
राजा यच् चक्रवर्ती मणिकिरणशतैर् भासयन् गां प्रयाति
तत् सर्वं दीपदानाद् भवति तनुभृतां शाक्यसिंहाय भक्त्या

99

लोके यद् भान्ति मर्त्याः कुवलयनयनाः सुभ्रुवो हेमवर्णाः
शक्रो यद् देवराजो दशशतनयनो भाति दिव्यासनस्थः ।
यद् ब्रह्मा वीतकामः प्रवरसुरनतो भाति दिव्ये विमाने
दत्त्वा तद् दीपमालां प्रभवति सुफलं शास्तृचैत्ये नराणाम्

100

॥ इति प्रदीपकथा ॥
xइx. विहारकथा
सर्वर्तुरम्यवरहर्म्यतले नरेन्द्राः संगीतिगर्भजयजीवगिरा रमन्ते ।
शुद्धान्तवारवनिताभिर् अशीततायाश् चातुर्दिशार्ययतिसंघविहारदानात्

मूल पाठ: Subhāṣitaratnakaraṇḍakathā · Edition: M. Hahn: Die Subhāṣitaratnakaraṇḍakathā, Ein spätbuddhistischer Text zur Verdienstlehre". NAWG, phil.-hist. Kl. 1983, pp. 313-374. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc